नमः पुरस्तादथ...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नमः पुरस्तादथ - 11.40 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
नमः पुरस्तादथ पृतस्ते नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चत्वारिंशत्त्तमः(४०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

नमः पुरस्तात् अथ पृष्ठतः ते नमः अस्तु ते सर्वतः एव सर्व अनन्तवीर्य अमितविक्रमः त्वं सर्वं समाप्नोषि ततः असि सर्वः ॥ ४० ॥

अन्वयः[सम्पादयतु]

पुरस्तात् अथ पृष्ठतः ते नमः । सर्व ते सर्वतः एव नमः अस्तु । अनन्तवीर्य ! त्वम् अमितविक्रमः सर्वं समाप्नोषि । ततः सर्वः असि ।

शब्दार्थः[सम्पादयतु]

पुरस्तात् = पुरतः
अथ पृष्ठतः = पश्चात् च
ते नमः = तुभ्यं नमः
सर्व = सर्वात्मन्
सर्वतः एव = परितः एव
नमः अस्तु = नमोऽस्तु
अनन्तवीर्य = अपरिमितविक्रम !
त्वम् अमितविक्रमः = त्वम् अगणितपराक्रमः
सर्वम् = समस्तम्
समाप्नोषि = व्याप्नोषि
ततः = तस्मात्
सर्वः असि = सकलः असि ।

अर्थः[सम्पादयतु]

पुरतः पश्चात् च तुभ्यं नमोऽस्तु । सर्वात्मक ! तुभ्यं परितः नमः अस्तु । अपरिमितविक्रम ! त्वम् अगणितपराक्रमः समस्तं व्याप्नोषि । तस्मात् सकलः असि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नमः_पुरस्तादथ...&oldid=418634" इत्यस्माद् प्रतिप्राप्तम्