नरसिंहाचार्य आर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


बाल्यं शिक्षणञ्च[सम्पादयतु]

१८६० तमस्य वर्षस्य एप्रिल्-मासस्य ९ दिनाङे मण्ड्यमण्डलस्य कोप्पल-इत्येतस्मिन् ग्रामे नरसिंहाचार्यः (Narasimhacharya) अजायत । पिता तिरुनारायणपेरुमाळ्, माता शिङगम्माऴ् । पिता संस्कृतपण्डितः इति कारणतः उत्तमशिक्षणं विनायासेन प्राप्तम् । उन्नतविद्याभ्यासार्थं स्वग्रामं त्यक्त्त्वा चेन्नैनगरं गत्वा मेट्रिक्-परीक्षाम् अलिखत् । ततः बेङगलूरुनगरस्य सेन्ट्रल् महाविद्यालये १८८२ तमे वर्षे बि. ए परीक्षायाम् उत्तीर्णाः जातः । महाराजमहाविद्यालये महाराणीमहाविद्यालये च प्राध्यापकरूपेण कार्यं कृत्वा १८९३ तमे वर्षे मद्रास्-विश्वविद्यालये कन्नड यम् . ए पदवीं प्राप्तवान् । तदनन्तरं मैसूरुनगरस्य विद्याविभागे भाषान्तरकार्यं कुर्वन् प्राच्यवस्तुविभागे साहाय्याधिकारिरूपेण नियोजितः अभवत् ।

कन्नडसाहित्यसेवा[सम्पादयतु]

आर् .नरसिंहाचारवर्येण देशनिमित्तं कृता सेवा अपारा । कन्नडसाहित्यस्य इतिहासप्रकटनाय एतेन कृतः परिश्रमः अनन्यः । |“कविचरित्रम्” इत्येतस्य त्रिषुसम्पुटेषु प्रथमसम्पुटस्य प्रकाशनस्य ख्यातिः एतस्य एव । यस् .जि .नरसिंहाचार्-महोदयस्य परिश्रमेण अन्ययोः सम्पुटयोः विमोचनम् अभवत् । तमिऴ्-भाषायाः 'कुरुऴ्'ग्रन्थं कन्नडभाषां प्रति अनुवादं कृत्वा "नीतिमञ्जरि” (१९४१) इत्यस्मिन् नाम्नि कवि आर् नरसिंहाचार् कृतवान् । "नगेगडलु”(१८९८) इति किञ्चन कथासङकलनम् एतस्य अन्या कृतिः । History of kannda literature; History of kannada Language इत्येतौ एतेन आङग्लभाषया लिखित्वा प्रकाशितौ ग्रन्थौ । प्राच्यवस्तुसंशोधनविभागे निर्देशकरूपेण कार्यं कुर्वाणः एव आर् . नरसिंहचार्यः सोमथापुर-बेलूरु-दोड्डगद्दवल्लि इत्यादीनां देवालयानां शिल्पानां विषये लेखाः लिखिताः ।

प्राप्ताः प्रशस्तयः[सम्पादयतु]

१९१५ तमे वर्षे कन्नडसाहित्यपरिषत् श्रीमता हेच्. नञ्जुण्डय्येन स्थापितम् । तस्य अभिवृद्ध्यर्थं विशेषरूपेण मार्गदर्शनम् अकरोत् नरसिंहाचार्यः । एषः कविः रायल्-एषियाटिक्-सोसाय्टि- संस्थायाः गौरवसदस्यः आसीत् । मैसूरुमहाराजेन "प्राक्तनविमर्शाविचक्षणः” इति बिरुदं प्राप्तवान् । ब्रिटीश्-सर्वकारेण १९१६ तमे वर्षे "राव्-बहद्दुर्” इति प्रशस्तिं प्राप्तवान् अयम् । अखिलभारतसाहित्यसङघः १९२९तमे वर्षे "प्राच्य विद्या वैभव”बिरुदं अस्मै दत्त्वा सम्मानितवन्तः । भारतसर्वकारेण १९३४ तमे वर्षे "महामहोपाध्याय”प्रशस्तिं दत्त्वा सम्मानितवन्तः । चतुर्थं कन्नड साहित्य सम्मेलनं प्राचलत् १९१८ तमे वर्षे । धारवाड्नगरे प्रचलिते अस्मिन् सम्मेलने आर् .नरसिंहाचार्यवर्येण अध्यक्षस्थानं निरूढम् । कन्नडभाषासाहित्यवर्धनाय तेन कृता सेवा अनुपमा ।

"https://sa.wikipedia.org/w/index.php?title=नरसिंहाचार्य_आर्&oldid=388785" इत्यस्माद् प्रतिप्राप्तम्