नाटकम् (रूपकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


नट अवस्पन्दने इति धातोः चौरादिकात् ’ण्वुल्तृचौ’ इति कर्तरि ण्वुलि नाटकशब्दः । नाटयति सहृदयानां हृदयं सन्तोषजननेन नर्तयति इत्यर्थः । अस्य लक्षणं तावदिदम् - नाटके रामायणमहाभारतादौ प्रसिद्धं किञ्चिदितिवृत्तं भवति । अत्र मुखम्, प्रतिमुखम्, गर्भः, विमर्शः, निर्वहणं चेति पञ्चापि सन्धयो भवन्ति । सन्धिः नाम कथावस्तुनः खण्डः । अत्र नायकादिषु विलासः अभ्युदयः इत्यादीनां गुणा वर्ण्यन्ते ।

अत्र दुःखजनकस्य सुखजनकस्य च वृत्तान्तस्य वर्णनं भवति । शृङ्गारादिरसविशिष्ठेऽस्मिन् अवरतः पञ्च अङ्का भवन्ति, अधिकता दश, तदुक्तं साहित्यदर्पणे - ’पञ्चादिका दशपराः तत्राङ्काः परिकीर्तिताः’ ॥ तत्र मालविकाग्निमित्रे पञ्च अङ्काः सन्ति । वेणीसंहारे अभिज्ञानशाकुन्तले च षट् । उत्तररामचरिते सप्त । एवं नाटकान्तरेऽपि ज्ञेयम् ।

अत्र प्रसिद्धः कश्चित् राजा नायको भवति । स सत्कुलप्रसूतः धीरोदात्तः विक्रमी गुणयुक्तश्च भवति । धीरोदात्तस्य लक्षणं तावत् साहित्यदर्पणे इदमुक्तमस्ति -

अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।
स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥

यः आत्मश्लाघां न करोति, सहनागाम्भीर्यपराक्रमैः गुणैः युक्तो भवति, सुखे दुुःखे च विकारं न प्राप्नोति, अङ्गीकृतस्य कार्यस्य च साधु निर्वाहको भवति स धीरोदात्त इत्यर्थः । स क्वचित् दिव्यो भवति, यथा - कृष्णादिः । क्वचित् अदिव्यः अर्थात् मर्त्यः, यथा - दुष्यन्तादिः । क्वचिच्च दिव्यादिव्यो भवति, यथा - रामादिः । अयं साक्षात् महाविष्णुः इति दिव्यः । मनुष्यवत् रोदनादिकं करोतीति मर्त्यः । तस्माददिव्यः ।

अत्र ये रसा अपि सम्भवन्ति तेषु कश्चिद्रसः प्रधानो निणेर्यः । रसान्तरं तु अप्रधानम् । उपसंहारावसरे तु आकस्मिकघटनस्य योजनेन अद्भुतरसो निबन्धनीयः ।

नायकस्य चात्र पञ्चषाः प्रबलाः सहाया भवन्ति, यथा - श्रीरामस्य सुग्रीवः, विभीषणः, लक्ष्मणः, आञ्जनेया इति चत्वारः । ते सर्वेऽपि नायककार्यस्य सिद्धौ यतमाना भवेयुः । अत्र अङ्कानां संयोजनं गोपुच्छाग्रसमानतया भवेत्, तदुक्तम् - ’गोपुच्छाग्रसमानं तु बन्धनं तस्य कीर्तितम्’ ॥ यथा गोपुच्छे कानिचित् रोमाणि दीर्घानि भवन्ति कानिचित्तु ह्रस्वानि । एवं नायकस्य कार्याणि कानिचित् दीर्घाणि भवन्ति । अत एव विलम्बेन तेषां सिद्धिः । कानिचित्तु लघूनि । अत एव शीघ्रं सिद्धिः ।

केचित्पुनः गोपुच्छाग्रसमानतया भवेदित्यस्य ’यथा गोपुच्छं मूले मूले पीनं भवति अग्रे अग्रे तु कृशं तथा नाटके अङ्का आदौ आदौ महन्तो भवन्ति अन्ते अन्ते तु लघवः’ इत्येवं विवरणं कुर्वन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नाटकम्_(रूपकम्)&oldid=409361" इत्यस्माद् पुनः प्राप्तिः