नारायणपण्डिताचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


श्री नारायणपण्डिताचार्याः लिकुचवंशे आंगीरसगोत्रोत्पन्नाः । कविकुलतिलक इत्येव भुवि प्रसिद्धस्य श्रीत्रिविक्रमपण्डिताचार्यस्य तृतीयपुत्रेषु अन्यतमः एनं साक्षात् पण्डिताचार्याः एव स्वकीये भावप्रकशिकायां अन्ते- ज्ञापयन्ति

“ त्रिविक्रमविपचितो गुणानिधेः सुशिष्याः सुताः ।
सतामक्षिमतास्त्रयो यस्तृतीयोऽत्र नारायणः” ॥ इति

सुब्रह्मण्यपण्डिताः अस्य पितामहः इति त्रिविक्रमपण्डिताचार्य विरचित वायुस्तुतौ “ सुब्रह्मण्याख्यसुरेः सुत इति सुष्टशं” । इति एतेन ज्ञायते यत् समग्र वंशः एव एतेषां पाण्डित्ये प्रसिध्दः, तेषां समयः कि.पू. १२९५-१३७० इति प्राज्ञैः कथ्यते । एते तुळु देराजाः ।

बहवो गृहिणोऽण्यस्मात् समग्राहावुग्रहं ययुः ।
दीप्ता यत्राग्नय इव त्रयो लिकुचशेखराः ॥इति (सु.म. १५, १३५)

सुतपः कवितादिसद्गुणानां लिकुचानां कुलजोऽङ्गिरेन्वयानाम् । अभवद्गुहनामको विपधित्कविवर्थोऽखिलवादिवन्दनीयःअ ॥ (सु.म. १३.४३) अस्य पितुः जननमपि हरिवायू अनुग्रहणैव तदुक्तं

“परमेश्वरयोः प्रसादयोगात् सुतरत्नं तदसूत सूरिपत्नी ।
परिषत्पदपत्तनेषु नाघै विविदे यस्य समः परीक्षकाग्य्रैः”॥

वदनेन्दुमवेक्ष्य नन्दनस्य स्वकुलोत्तारणादक्षलक्षणास्य । कृतकृत्यतयाः क्रियाः प्रकुर्वन् कविराख्यादुचितां त्रिविक्रमाखाम् अस्य त्रिविक्रम इति पित्रा निगदितं । त्रिविक्रमपण्डिताचार्याः बाल्ये एव सकलशास्त्र पण्डित्यं सम्पाद्य षोडशे वयसि “ उषाहरणम्” इत्येकं काव्यं आर्चन् । तदुक्तं

कलभाषण एव सूरिपोतः कविरासीदनवद्यपघवादी ।
अवभाति ननु प्रभाप्रभावी भगवान् बालतरोऽपि तिग्मभावुः ॥

स्वपितरं बालसूर्यः इति अवर्णयन्, स्वकृतकाव्ये स्ववंशस्यापि वर्णनेन यद् ज्ञायते तेषां वंशीयाः सर्वोऽपि आनलपाण्डित्यं समवाप्नुवनिति ।

सकलाङ्गयुतावभातशाखः समये प्राप्त उदारपक्षिसेव्यःआ ।
स ससर्ज सदध्वगोपकृत्यै लिकुचः काव्यफलं रसाभिरामम् ॥ इति एते त्रिविक्रमपण्डिताचार्यवर्याः श्रीमध्वमुनेः सप्ताष्टानि दिनानि वादंस् कृत्वा पराजयं प्राप्य आचार्यशिष्यत्वं प्रापुः इति
वाक्यैरतिबलीयोभिः प्रत्यास्त्रैरिव वैदिकैः ।
अर्थान्तरं प्रकटयन् तान्यसौ सन्न्यवर्तयत् ॥ (सु. म. १५.६८)
सप्ताष्टानि दिनान्येव वादं कृत्वा सहामुना ।
निरुत्तरं तं नित्योद्यं चक्रे चक्रायुधः प्रियः ॥ (सु. म. १५.६९)
प्रणम्याचष्ट शिष्टोऽसौ ग्यतां नाथ चापलम् ।
पदपद्मरजोदास्यं ध्रुवं मे दीयतामिति ॥ (सु.म. १५.७०)

श्री नारायणपण्डिताचार्याः गुणग्राहिणः स्वपितुः पराजयमपि आनन्देन संवर्णयन् । श्री नारायणपण्डिताचार्याः श्रेष्ठ कवयःआध्यत्मकोविदाः, अलङ्कार, ध्कान्दः प्रयोगे सिध्दहस्ताः काव्यमपि वेदन्तरीव्या निरुपणाशक्तिः अप्रतिमा असद्दशा च । एतेषां शास्त्रनिष्ठा, काव्यनिष्ठा, वस्तुनिष्ठा इतिहासनिष्ठा असाधारणा एते भावप्रकाशिकाख्य स्वकीयां टीकायां उदृङ्कितवचानान्येव प्रमाणम् । आचार्यमध्वं साक्षात् दृष्टाः आचार्य तृर्तायावतारं मध्वं यायार्थतः “ सुमध्वविजाख्य” ग्रन्थं आरचन् ।

श्रीनारायणपण्डिताचार्याः व्याकरण, न्याय, वेदान्त, मीमांसादि सकलशास्त्रान् स्वपितुः सकाशादेव अधीतवन्तः । इति तदीय ग्रन्थाव्वलोकनद्वारा ज्ञायते । लिकुचवंशे ग्रन्थरचनं अधिकतया कृत्तस्य कीर्तिः स्वायत्ता । महाकाव्यानि, खण्डकाव्यानि, यमककाव्यानि, स्तोत्रानि, अध्यात्मग्रन्थाः च वेदान्तग्रन्था च एतैः निराममयत् । श्री वामवपण्डिताचार्याः श्री नारायणपण्डिताचार्याणां पुत्राः, ते “त्रैविक्रमार्यदास” अथवा “त्रैविक्रमार्यानुचर” इति स्वनामं निरटङ्कि । एते आचार्यमध्व कृतस्य अणुभाष्यस्य “ आनन्दमाला” नाम्ना श्रेष्ठटीकां आलिखन् ।

ईशावास्य, तलावकार, काठक, षटप्रश्न, आधर्वण, माण्डूक्यादि उपनिषदां भाष्यस्य टीकां आरचि । लिकुचवंशमहान् ग्रन्थकाराः श्री नारायणपण्डिताचार्याः विनयादि सद्गुणभूषिताः, सज्जनान् उध्दर्तु , ज्ञानदीपमयीं “ सुमध्वविजयारव्यं” ग्रन्थं माध्वशिष्याव् प्रति उपायनं इति प्राददुः ।

नारायणपण्डिताचार्याणां कृतयः[सम्पादयतु]

१) संग्रहरामायणम् । २) सुमध्वविजयः । ३) भावप्रकाशिका । ४) प्रमेयनवमालिका( अणुमध्वविजयः) । ५) मणिमञ्जरी । ६) शुभोदयं ७) पारिजातापहरणं ८) नयचंद्रिका ९) तत्वमञ्जरी १०) यमकभारतटीका ११) अणुभाष्यस्यटीका १२) कृष्णामृतमहार्णवटिका १३) मिथ्यात्वानुमानखण्डनटीका १४) योगदीपिका १५) ध्यानमाला १६) कृष्णमाला १७) नृसिंहस्तुति १८) ढाशरध्यष्टकम् १९) रामगीत्यष्टकम् २०) गोविन्दस्तुतिः २१) महालक्ष्मीस्तुतिः २२) अणुवायुस्तुतिः २३) मध्वकवचम् २४) पूर्णबोधस्तुतिः २५) शिवस्तुतिः २६) तारतम्यस्तोत्रम् २७) यमकस्तोत्रम् (१) २८) यमकस्तोत्रम् (२) २९) यमकस्तोत्रम् (३) ३०) अंशांशि निर्णयः ३१) मध्वामृतमहार्णवः इत्यनेकाः ग्रन्थाः निर्मिताः ।

ग्रन्थाणां संक्षिप्तपरिचयः[सम्पादयतु]

१) संग्रहरामायणम्[सम्पादयतु]

श्रीरामचरित्रं संक्षेपतः निखपिष महाकाव्यम्, वाल्मीकिरामायणं तथा आचार्यकृत श्रीमन्महाभारततात्पर्यनिर्णयस्य, रामायण भागस्य निर्णयानुसारेण रचित श्रेष्ठकाव्यम् ।

२) अवणर्यो महिमा तस्य लोल्यान् संवर्ण्यते मनाक् । श्रीमदाचार्यस्य समग्र जीवनगाथां निरुपितं महाकाव्यम् । अद्यापि सर्वैः पारायणतया महता भक्तया प्रतिनित्यं पठयते । न तथा अन्येषां गुरुणां, पीठाधिपतीनां आचार्यमन्तरेणा दृश्यते । अयं च ग्रन्थः अष्टाधिक सहस्रश्लोकात्मिकः ।

३) भावप्रकाशिका[सम्पादयतु]

ग्रन्थोऽयं सुमध्वविजयविषयकः अपूर्व लघुटिप्पणी, संस्कृतसाहित्येतिहासे स्वप्रणीत ग्रन्थस्य स्वयमेव व्याख्यान रचनं अत्यन्तविरलं । अयं तैः वैशिष्टयान्तरं ज्ञापयति । अस्मिन् मूलकृतेः अध्ययनाय यया अनुकूलं भवति तथा ऎविहासिक विषयान् च मूले अनुल्लिखित अनेक व्यक्तिनामानि अनेकनिसंस्थ, प्रादेशिकनामानि च उल्लिखितानि दृश्यन्ते । तत्र तत्र क्लिष्टं अनुभूयमानैः सुखार्थ बोधनाय व्याकरणसूत्राण्यपि उल्लिखितमिति अन्वर्थक ग्रन्थोऽयं ।

४) अणुमध्वविजयः ( प्रमेयनवमलिका)[सम्पादयतु]

काव्याशये वा गुरुकीर्तये वा प्रोक्तं स्वयैवेति मनीषयेति । तस्मान्न शङ्क्येत महाजनेन पुंसा कुशाग्रीयधियाऽण्यवश्यम् ॥

चर्यादृष्टा नरैः काश्चिद् विस्मृता देवमायया ।
अविस्मृता च पुरुषैर्नास्माभिः सकलाः श्रुताः ।
श्रुताश्च कान्धिन्नैवोक्ता दैवगुद्यत्वनिश्चयात् ।
अन्यास्तथैव न प्रोक्ता ग्रन्थबाहुल्यभीतितः ॥
उत्त्या श्च विस्तृता नैव तस्मादेवात्र कारणात् ।
प्रायेण नैकमात्रोक्ताः कचिता इह सर्वशः ।
मया दृष्टा ध्रुव्वमिति प्रोक्ताः प्रायेण पूरुषैः ।
द्वयोर्वत्रगोर्विशेधेऽत्र स्वीकृता प्रबलस्य गीः ।

तुल्यं तत् सूक्ष्मदृष्टयादौ दैवे नैव परीक्ष्यते ॥ इति स्वयमेव उक्ताः अनर्चक नाम अस्य ग्रन्थस्य यतो हि सुमध्वविजयस्य सकलोऽपि षोडश सर्गाः अत्र संग्रहीकृताः । सुमध्वविजयस्य प्रत्येकं सर्गं श्लोकद्वयेन संक्षेपतः निरुपितवन्तः नित्यपारायणार्थं अनुकूलोऽयं ग्रन्थः त्रयरिंशत् श्लोकात्मकः ।

५) मणिमञ्जरी[सम्पादयतु]

अयं च ग्रन्थः अष्टम सर्गैः युक्तः खण्डकाण्यः प्रथम सर्ग चतुष्टयै श्रीरामस्य तथा श्रीकृष्णस्य कथां संक्षेप्तः विशेषतःआ संवर्ण्य उत्तर सर्गचतुष्टये विशेषतः मायावादमतस्य विमर्शनं कृतम् ।

६) शुभोदयं[सम्पादयतु]

श्रीमद्भागवत पुरञ्जनोपाख्यातस्य संघ्रहात्मक खण्डनरुण्य अयं ग्रन्चः । प्रारिजातापहरणं यमककाव्यं

७) वचन चंद्रिका[सम्पादयतु]

आचार्य मध्वकृत “ अणुण्याख्यान” स्य टीका इयं “तत्त्वमञ्जरी” विष्णुतत्पनिर्णस्य अपूर्वटीका । एतदन्तरेण यमकभारत, अणुभाष्य, कृष्णमृतमहार्णवः, मिथ्यात्वानुमानरपण्डनानां टीकां विरचितवन्तः ।

८) योगदीपिका[सम्पादयतु]

ग्रन्थोऽयं सदाचार, धर्मशास्त्र सम्बन्धी कृतिः । अस्या। कृतौ मोक्षसाधन अनेक तत्त्पान् विवृत्तवन्तः । ध्यानमालायां उपासनप्रकारं दशर्यन्ति । कृष्णमाला श्रीकृष्णस्य कधां कालानुक्रमेण तात्पर्यनिर्णस्य च अणुगुणतः वर्तते । इत्याद्रयो बहवः कृतायः एतैः व्यरचि । ताः सर्वाः कृतयः “ नारायणपण्डिताचार्यकृतयः” इत्यक्षिघां प्रधन्ते ।

सुमध्वविजयस्य व्याख्यानानि[सम्पादयतु]

१) श्रीनारायणपण्डिताचार्यस्य –(१२९५-१३७०) भावप्रकाशिका २) श्रीवेदाङ्गतीर्थीय ( १४५०) – “ पदार्ध दीपिका” ३) श्रीविश्वपतितीर्थीय (१६०० )-“पदार्थदीपिकोदोहिका” ४) श्रीलिङ्गरि श्रीनिवासाचार्यरचितव्याख्यानम् ५) श्री आनन्दतीर्थाचार्य(१६२०- १७०८) “ पदार्थप्रकाशिका” ६) श्री छलारिशेषाचार्य (१६५०-१७२५) “ मन्दोपकारिणी”