नाहं वेदैर्न तपसा...
पठन सेटिंग्स
(नाहं वेदैर्न तपसा - 11.53 इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
- शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५३ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रिपञ्चाशत्तमः(५३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]न अहं वेदैः न तपसा न दानेन न च इज्यया शक्य: एवंविधः द्रष्टुं दृष्टवान् असि मां यथा ॥ ५३ ॥
अन्वयः
[सम्पादयतु]अहम् एवंविधः वेदैः न, तपसा न, दानेन न, इज्यया च न द्रष्टुं शक्यः यथा मां दृष्टवान् असि ।
शब्दार्थः
[सम्पादयतु]- वेदैः = निगमैः
- एवंविधः = एवंप्रकारः अहम्
- द्रष्टुम् = विलोकितुम्
- न शक्यः = न अर्हः
- तपसा न = तपश्चर्यया न शक्यः
- दानेन = वितरणेन न
- इज्यया च = यज्ञेन अपि न
- यथा = येन प्रकारेण
- माम् = माम्
- दृष्टवान् असि = विलोकितवान् असि ।
अर्थः
[सम्पादयतु]अहम् एवंप्रकारः निगमैः तपसा वितरणेन यज्ञेन च द्रष्टुं न शक्यः येन प्रकारेण मां दृष्टवान् असि ।