निरुक्तशास्त्रस्य इतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

निरुक्तशास्त्रस्य इतिहासः निरुक्तविषये ज्ञानं प्राप्तुं सहायकः भवति। (निरुक्तं श्रोत्रमुच्यते) षट्सु वेदाङ्गेषु निरुक्तं चतुर्थस्थानं भजते । तच्च वेदपुरुषस्य श्रोत्रमुच्यते । निरुक्तं श्रोत्रमुच्यते' इति पाणिनीय शिक्षायांस पष्टमुद्घोपितम् । अस्मिन् विपये वेदभाष्यकाराः सायणाचार्याः स्वचतुर्वेदभाष्यभूमिकायां कथयन्ति यत्- 'अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्' इति । निरुक्तस्य शाब्दिकीनिरुक्तिरेव भविष्यति--नि:शेपादुक्तमिति निरुक्तम् । अतो यदि शिक्षादीनि वेदाङ्गानि वेदस्य बाह्यानि तत्त्वानि निरूपयन्ति तदा निरुक्तं वेदविज्ञानस्यान्तरिक स्वरूपं स्पष्टतः उद्घाटयति । एतदपि अस्य वैशिष्टयं विद्यते यदन्यानि वेदाङ्गानि प्रायो विभिन्नेषु सूत्रेषु लिखितानि सन्ति, इदञ्च निरुक्तं गद्यशैली भजते ।

अन्यच्च वेदार्थस्यावगमे निघण्टोरनन्तरं निरुक्तमेव प्रमाणम् । निरुक्तं निघण्टोः भाष्यभूताटीका विद्यते । निघण्टौ वेदस्य काठिन्यं भजतां शब्दानां समुच्चयो वर्तते । वैदिककोश इत्यपि कथयितुं पारयामो वयम् । निघण्टो: संख्याविषये पर्याप्तमतभेदो दृश्यते । साम्प्रतं समुपलब्धो निघण्टः एक एवास्ति अस्योपरि च महर्पि-यास्कविरचितं निरुक्तमस्ति । केचन विद्वांसः यास्क ऋषिप्रवरमेव निघण्टोश्चापि रचयिता अस्तीति स्वीकुर्वन्ति । परञ्च प्राचीनपरम्पराया अनुशीलनेनेयं धारणा प्रमाणिता न भवति । निरुक्तस्यारम्भे निघण्टुं समाम्नाय इति कथितो वर्तते । अस्य शब्दस्य च या व्याख्या दुर्गाचार्यमहाभागेन कृता, तया व्याख्यया तु अस्य प्राचीनत्वमेव सिद्धयति । महाभारतस्य मोक्षधर्मपर्वणि प्रजापतिः कश्यपोऽस्य निघण्टोः रचयितृत्वेन ख्यापितो वर्तते । तथा च तत्रोक्तं यथा---

'वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत ।

निघण्टुकपदाख्याने विद्धि मां वृषमुत्तमम् ॥

कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते ।

तस्माद् वृषाकपि प्राह कश्ययो मां प्रजापतिः' ॥

वर्तमाने निघण्टौ 'वृषाकपि' शब्दः संगृहीतो विद्यते । अतः पूर्वोक्तकथनानुसार मयमेव प्रतीयते यत्--महाभारतकाले प्रजापतिकश्यपोऽस्य निघण्टो रचयितृत्वेन ख्यापितः आसीत् । निघण्टौ पञ्चाध्यायाः विद्यमानाः सन्ति । तेषु त्रयोऽध्यायाः 'नघण्टुककाण्डं, चतुर्थाध्यायो नैगमकाण्डं, पञ्चमाध्यायश्च 'दैवतकाण्ड'मिति च कथ्यते । प्रथमतस्विष्वध्यायेषु तु पृथ्व्यादिबोधकानामनेकानां पदानामेकत्र संग्रहो विद्यते । द्वितीयं काण्डम् 'ऐकपदिक'मित्यपि कथयन्ति । 'नगम'स्य तात्पर्यमिदमस्ति यत्--एषां प्रकृति-प्रत्यययोः यथार्थावगमनं न भवति । यथोक्तमस्ति अनवगत संस्कारांश्च निगमान् । दैवतकाण्डे देवानां स्वरूपस्य स्थानस्य च निर्देशो विद्यते ।

निघण्टोः व्याख्याकारः[सम्पादयतु]

साम्प्रतं (विंशतितमशतके ) निघण्टोः एकव व्याख्या समपलब्धा. तद्व्याख्यायाः कर्तुर्नाम विद्यते--देवराजयज्वा । एषां पितुर्नाम यज्ञेश्वर भी पितामहस्य च 'देवराजयज्वा' । पितामह-पौत्रयोरेकमेवनाम विद्वत्सु कोतकमावत इमे रंगेशपूर्याः सन्निकटस्य कस्यापि ग्रामस्य निवासिन आसन् । नाम्ना प्रतीयते मन सुदूरदक्षिण-निवासिन आसन् । एतेषां स्थितिकालविषये मतद्वयं प्रचलितमस्ति केचनविद्वांसः सायणादर्वाचीना: इमे इति कथयन्ति । परञ्च प्रमाणः सिध्यति यदि सायणात् प्राचीनाः सन्ति । इत्येव न्यायसङ्गतं युक्तिकरश्च प्रतिभाति ।

यतो हि आचार्यसायणेन स्वकृते ऋग्वेदस्य भाष्ये निघण्टुभाष्यवचनानां निर्देशः कृतोऽस्ति । अपि च देवराजयज्वनः भाष्ये एतानि वचनानि स्वल्पपाठान्तरैः सह समुपलब्धानि सन्ति । अत्रैतद्धयातव्यं यत्--अस्य भाष्यस्यातिरिक्तं न किमपि निघण्टुभाष्य विद्यमानमस्ति । अपरश्च देवराजेन स्वभाष्यभूमिकायां क्षीरस्वामिनस्तथाऽनन्ताचार्यस्य च निघण्टुव्याख्ययोः उल्लेखः कृतः । तद्यथा--इदं च क्षीरस्वामी-अनन्ताचार्यादि कृतां व्याख्यां निरीक्ष्य क्रियते । अनन्ताचार्यस्य निर्देशस्तु अत्र प्रथमत एव प्राप्नोति । क्षीरस्वामिनो मतस्य च निर्देशोऽत्र बाहुल्येन विद्यमानोऽस्ति । क्षीरस्वामिनः 'अमरकोशस्य' मान्याष्टीकाकाराः सन्ति । अपि च देवराजस्योद्धरणानि अमरकोश टीकायां ( अमरकोशोद्घाटने ) यथावदुपलब्धानि भवन्ति । अतो निघण्टुव्याख्यया देवराजस्याभिप्रायः अस्यैवामरकोशस्य व्याख्यया प्रतीयते ।

'निघण्टु निर्वचनमेतस्य भाष्यस्य नाम विद्यते । भाष्यकारेण देवराजयज्वना स्वप्रतिज्ञानुसारं नैघण्टुक काण्डस्यैव निर्वचनमधिकेन विस्तरेण कृतम् । नैगमकाण्ड-दैवतकाण्डयोश्च व्याख्या स्वल्पाकारा विद्यते । अस्य भाष्यस्योपोद्घातः वैदिकभाष्यकाराणामितिवृत्तज्ञानायाकर इव प्रतीयते । सैषा व्याख्या महत्त्वपूर्णा प्रामाणिकी चोपादेया विद्यते । अस्यां व्याख्या यामाचार्यस्कन्दस्वामिनः ऋग्भाष्यात् स्कन्दमहेश्वरस्य च निरुक्तभाष्यटीकातः सविशेष साहाय्यं गृहीतमस्ति । अत्र च प्राचीनानां प्रमाणानामप्युद्ध रणमतीवरोचकं ज्ञानवर्द्धक ञ्चास्ति । सायणपूर्वत्वात् देवराजस्य व्याख्या निरुक्तेश्च सविशेष महत्त्वमस्ति।

सुप्रसिद्धन तान्त्रिकेन भास्कररायेन विरचितः एकः स्वल्पाकारः ग्रन्थः समुपलब्धी भवति । यस्मिन् निघण्टोः शब्दाः अमरकोशस्य शैल्यां श्लोकबद्धाः कृताः सन्ति । येन कण्ठस्थीकरणे सौविध्यं जायते ।

निरुक्तकाल:[सम्पादयतु]

निरुक्तानां समयः चिन्तनीयः विषयः। ऐतिहासिकदृष्ट्या निघण्टुकालानन्तरं निरुक्तानां समयस्य शुभारम्भो भवति । अयमेव कालो निरुक्तयुगस्य । अस्मिन्नेव युगे निरुक्तस्य वेदाङ्गत्वं सिध्यति । श्रीमती दुर्गाचार्यस्य दुर्गवृत्त्यनुसारं निरुक्तानां संख्या चतुर्दश आसीत् । तथा चोक्तं---'निरा चतुर्दशप्रभेदम्' इति । यास्कस्योपलब्धे निरुक्त द्वादश निरुक्तकाराणां नामा मतानि च निर्दिष्टानि सन्ति । अकारादिक्रमेण तेषां नामानि चेमानि सन्ति।

(१) अग्रायणः, (२) औपमन्यवः, ( ३ ) औदुम्बरायणः, ( ४ ) और्णवाभः, कात्थक्यः, ( ६ ) क्रौप्टुकिः, (७ ) गार्यः, ( ८ ) गालवः, (९) तटीकिः, ") वार्ष्यायणिः, (११) शाकपूणिः, ( १२ ) स्थौलाप्टीविः, ( १३ ) योदशश्न निरुक्तकारः स्वयमेव यास्कः, चतुर्दशात्मको निरुक्तकारः कं आसीदित्यद्यापि सन्दिग्ध एव ।

एषां निर्दिष्टानां निरुक्तकाराणां विशिष्टस्य मतस्य परिज्ञानं निरुक्ता नामनशीलनेन सम्यक्तया भविष्यति । विशिष्टज्ञानाय 'वैदिकवाङ्मयस्येतिहासे दृष्टव्यः । एषु ग्रन्थकारेषु 'शाकपूणि' इत्यस्य मतं विस्तरेणोद्धतमस्ति । बृहद्देवताया मपि एतन्मतं निर्दिष्ट मस्ति । एवञ्च बृहद्देवतायां पुराणेषु च शाकपूणेः 'रथीतर शाकपूणि' इति नाम्ना स्मृतमस्ति । एते यास्कात् भिन्नं मतं स्वीकुर्वन्तीति विदुषामाशयः ।

यास्कस्य निरुक्तम्[सम्पादयतु]

निरुक्तं वेदस्य षडङ्गेष्वन्यतममस्ति । साम्प्रतमिदमेव यास्कविरचितं निरुक्तमस्य वेदाङ्गस्य प्रतिनिधिभूतो ग्रन्थः । निरुक्ते द्वादशाध्याया: सन्ति, अवसाने च परिशिष्ट रूपे द्वौ अध्यायो स्तः । अनेन प्रकारेण समग्रः ग्रन्थः चतुर्दशाध्यायेषु विभक्तोऽस्ति । परिशिष्टे गृहीतौ द्वावप्यध्यायो अर्वाचीनौ न भवितुमर्हतः । यतो हि सायण-उव्वटी भाष्यकारी आभ्यामध्यायाभ्यां सुपरिचितावास्ताम् । तत्रोव्वटेन स्वीये यजुर्वेदभाष्ये निरुक्त समुपलब्धं वाक्यनिर्दिष्ट मिति । अतोऽयमंशः भोजराजात् प्राचीन इति स्वत एव सिद्धः ।

यास्कस्य प्राचीनत्वम्[सम्पादयतु]

यास्कस्य प्राचीनतायां कस्यापि प्रकारस्य संशीतिलेशो नास्ति । इमे महानुभावा पाणिनेरपि प्राचीनतराः सन्ति । संस्कृतभाषायाः यो हि विकासः एतेषां निरुक्ते प्राप्यते, स च पाणिनीयाष्टाध्याय्यां व्याख्यातरूपात् प्राचीनतरः प्रतिभाति । महा भारतस्य शान्तिपर्वणि यास्कस्य निरुक्तकारत्वस्य सुस्पष्टो निर्देशो विद्यते । तद्यथा -

'यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् ।

शिपिविष्ट इति ह्यस्माद् गुह्यनामधरो ह्यहम् ॥

स्तुत्वा मां शिपिविष्टेति यास्क ऋषिरुदारधीः ।

यत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान्' ।।

इत्युल्लेखमादाय वयमिति कथयितुं समर्थाः यत् यास्कस्य कालः वैक्रमात् सप्तम अष्टम वा शतकात् पूर्वमासीत् । इत्यत्र कापि विचिकित्सा नास्ति । यास्कस्यास्य ग्रन्थस्य महनीयता अत्यधिका विद्यते ।

ग्रन्थस्यारम्भे यास्केन निरुक्तसिद्धान्तस्य वैज्ञानिक प्रदर्शनं कृतम् । एषां काले वेदार्थस्यानुशीलनाय अनेके पक्षाः आसन्, येषां नामानि अधोलिखितानि सन्ति । तच्च यथा--(१) अधिदैवतम्, (२) अध्यात्मम्, ( ३ ) आख्यानसमयः, (४) ऐतिहासिकाः, (५) नैदानाः, (६.) नरुक्ताः, (७) परिव्राजकाः, (८) याज्ञिकाः ।

प्रस्तुतेनानेन निर्देशेन वेदार्थानुशीलनस्येतिहासे प्रभावोत्पादकत्वमायाति । अपरञ्च यास्कस्य प्रभावोऽवान्तरकालीनेषु वेदभाष्यकारेषु विशेष दृश्यते । सायणेनास्याः पद्धतेः अनुसरणं कृत्वा वेदभाष्यरचनायां महत्साहाय्यं प्राण यास्कस्येमा प्रक्रियामाधुनिकभाषाविदोऽपि स्वीकुर्वन्ति । अत एव विद्वत्सु ख्यातमरित यत् यास्कसदृशो भाषावैज्ञानिको विश्वस्मिन् दुर्लभ एवेति । सर्वे भाषावैज्ञानिका यास्कस्य ग्रन्थस्य महत्त्वं स्वीकुर्वन्ति । सैषा धारणा सर्वत्र प्रसृता विद्यते।

अन्यच्च निरुक्तं स्वयमेव भाष्यरूपं विद्यते, तथापि स्थाने स्थाने इयदुरूह विद्यते यत् विदुषष्टीकाकारानपि तस्यार्थपरिज्ञानाय शिरसि वेदना जायते । तथापि तस्य पाठः यथार्थरूपेण परम्परया प्राप्तो न भवति । भाषायाः काठिन्येन सह तस्य पाठा अपि स्थाने स्थाने तथा भ्रष्टाः सन्ति यत्--दुर्गाचार्यसदृशं विद्वांसमपि काठिन्य स्यानुभवो जायते । वैक्रमशतकात् बहोः पूर्व निरुक्तस्य व्याख्याकरणे विदुषां ध्यानमा कृष्टमासीत् । एतद् ज्ञानमस्मान् पतञ्जले: महाभाष्याध्ययनेनैव भवति। अष्टा ध्याय्याः ४।३।३६ इत्यस्य सूत्रस्य भाष्ये एते प्रतिपादयन्ति यत्--'शब्दग्रन्थेषु चैपा प्रभूततरा गतिर्भवति । निरुक्तं व्याख्यायते । न कश्चिदाह पाटलिपुत्रं व्याख्यायत इति' । 'न कश्चिदाह' इत्यनेन पतञ्जलेः संकेतः कं व्याख्यानं स्मारयति इत्यधुनापि न ज्ञायते ।

निरुक्तस्य टीकाकाराः[सम्पादयतु]

निरुक्तस्य टीकाकाराः निरुक्तशास्त्रस्य विस्तारे महद्योगदानम् अयच्छन्। साम्प्रतं निरुक्तस्योपरि सर्वाभ्यो विस्तृता सम्पूर्णा च या टीकोपलब्धा भवति सा विद्यते दुर्गाचार्यवृत्तिः । परञ्चास्य विषयस्य नेयं वृत्तिः प्रारम्भिको ग्रन्थः । एतत्तु निश्चितमेव । दुर्गवृत्तौ चतुर्षु स्थलेषु कस्यापि वात्तिककारस्य श्लोकाः उद्धताः सन्ति, प्रसंगोपात्तेन सुस्पष्टं विज्ञायते यत् तद्वातिकमस्मिन्नेव निरुक्ते आसीत् । इति तु पूर्वमपि कथितं यत्-निरुक्तं भाष्यरूपमस्ति । अतोऽस्योपरि वार्तिकस्य रचनाऽयुक्ता नास्ति । निरुक्तवार्तिकस्यास्तित्वमेकेनान्येन ग्रन्थेनापि प्रमाणिता भवति । मण्डन मिश्रेण विरचितस्य 'स्फोटसिद्धि'नामकस्य ग्रन्थस्य गोपालिकाटीकायां' निरुक्त वात्तिकस्य षट् श्लोकाः समुद्धृताः सन्ति । इमे श्लोकाः निरुक्तस्य १।२० इत्यस्य व्याख्यानभूताः सन्ति ।

निरुक्तस्य महत्त्वम्[सम्पादयतु]

वेदभाष्यकारस्य सायणाचार्यस्य मतानुसार निरुक्तस्य लक्षणमस्ति-'अर्थाऽवबोधे निरपेक्षतया पदजातं यत्र तद् निरुक्तम्' अत्रायमाशयो विद्यते यत्-अर्थज्ञानाय स्वतन्त्ररूपेण यः पदानां संग्रहः स एव निरुक्तमिति कथ्यते ।

श्रीमदुर्गाचार्यस्य स्ववृत्ती निरुक्तविषये कथनमस्ति यत् 'प्रधानं चेदमित रेभ्योऽङ्गेभ्य: सर्वशास्त्रेभ्यश्च अर्थपरिज्ञानाभिनिवेशात् । अर्थो हि प्रधानः, तद्गुणः शब्दः, स च इतरेषु व्याकरणादिषु चिन्त्यते । यथाशब्दलक्षणपरिज्ञानं सर्वशास्त्रेषु व्याकरणात् । एवं शब्दार्थनिर्वचनपरिज्ञानं निरुक्तात्' इति । अपरञ्च कल्पे मन्त्राणां विनियोगस्य चिन्तनं भवति । यः मन्त्रः यमर्थं शब्दतः संस्कारे समर्थो भवति, तत्रैव तस्य प्रयोगो भवति । अनेन प्रकारेण कल्पोऽपि मन्त्राणामर्थानुसन्धानस्योपरि विनियोगस्य विधानं करोति । अतो निरुक्तं कल्पादपि अधिकस्य महत्त्वस्य विद्यते । अत्र चायं निष्कर्षः शब्दस्य लक्षणन्तु व्याकरणानुसारं क्रियते, परञ्च शब्दार्थयोश्च निर्वचनस्य ज्ञानं निरुक्तेनैव भवति । अनेन प्रकारेण निरुक्तं वेदार्थज्ञानाय नितान्त मावश्यकमस्ति । अपि चेदं व्याकरणशास्त्रस्य पूरकमस्ति ।

निरुक्ते वैदिकशब्दानां निरुक्तिविद्यते । निरुक्तिशब्दस्य चार्थो भवति व्युत्पत्ति रिति । निरुक्तस्येदं सर्वमान्यं मतमस्ति यत्-प्रत्येकः शब्दः येन केनापि धातुना सहावश्यमेव सम्बन्धितोऽस्ति । अतो निरुक्तकाराः शब्दानां व्युत्पत्ति प्रदर्श्य धातुना सह विभिन्नप्रत्ययानां निर्देशं कथयन्ति । निरुक्तस्यानुसारं सर्वे शब्दाः व्युत्पन्नाः सन्ति । अर्थात् ते शब्दाः कस्मादपि न कस्माद् धातोः निर्मिताः सन्ति । सर्वे शब्दाः धातुजाः । वैयाकरणस्य शाकटायनस्यापि इदमेव मतमासीत् । अस्योल्लेखः यास्केन पतञ्जलिना च स्वग्रन्थेषु कृतः। शब्दानां व्युत्पत्तिरनेकविधा भवति । 'दुहिता' शब्दस्य व्युत्पत्तिविषये यास्कमहोदयाः लिखन्ति यत्-सा ( दुहिता ) पितुः सकाशाद् . दूरे स्थितायामेव तस्य हितं करोति (दूर-दूरदेशस्थितायामेव, हिता= हितकारिणी ), अस्य शब्दस्य भिन्नार्थश्च–सा पितुः सकाशात् सर्वदा धनं द्रव्यं दोग्धि अथवा सा स्वयमेव गां दोग्धि ।

निरुक्तं यस्मिन् आधारे प्रवृत्तं भवति-अर्थात् प्रत्येक संज्ञापदं धातोः व्युत्पन्नम भवत्, स आधारः नितान्तं वैज्ञानिको विद्यते । अद्यत्वे अस्यैव नाम विद्यते भाषा विज्ञानम् इति । अस्य विज्ञानस्योन्नतिः पाश्चात्य जगति १०० शतवर्षाभ्यन्तरे एवाभूत् । साप्युन्नतिः संस्कृतभाषायाः पाश्चात्यदेशे ( यूरोपे ) प्रचालितायां सति । परञ्च ध्यातव्यमत्राद्यतः सहस्र त्रयवर्षपूर्व वैदिकैः ऋपिभिः अस्य शास्त्रस्य सिद्धान्तानां वैज्ञानिकरीत्या निरूपितमासीत् । भाषाशास्त्रस्येतिहासे भारतवर्षमेव . अस्य मूलो द्गमस्थानमस्ति, नात्र कोऽपि सन्देहावसरः । निरुक्तस्यारम्भेऽस्य विषयस्य येषां नियमानां प्रतिपादनमुपलब्धं भवति, तद्विशेष महत्त्वं धारयति ।

निरुक्तस्य शैली[सम्पादयतु]

निरुक्तं भाषाशास्त्रदृष्ट्या-एकमनुपमं रत्नमस्ति । निरुक्तस्य मान्यः सिद्धान्तो ऽस्ति यत्-सर्वे शब्दाः नामधातोः उत्पन्नाः भवन्ति । वैयाकरणेषु केवलं शाकटायन स्यैव मतमिदमासीत् । तथा चोक्तम्— 'सर्व धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्' इति । अस्य मतस्य परीक्षणं समीक्षणं वा गाय॑नामकेन केनाप्याचार्येण महद्युक्तीनां बले कृतम् । येषां खण्डनं यास्केन प्रबलतरयुक्तिभिः कृतम् । कस्या अपि भाषायाः मूलं धातुरेव भवति । अस्य तथ्यस्य समुद्घाटनं यास्केनाद्यतः सहस्रायवर्ष पूर्वमेव कृतम् । एतत् तथ्यमाधुनिकतुलनात्मकभाषाशास्त्रस्य मेरुदण्डमस्ति । यास्केन स्ववैज्ञानिकमतस्य प्रस्थापनायै अनेका सबलाः युक्तयः प्रदत्ताः, याभ्यः परिचयः आवश्यको विद्यते ।

गार्ग्यस्याद्याऽऽपत्ति: 'वस्तुनः क्रियानुसारं नाम निर्धारणात् अनेकेषां वस्तूनामेका क्रिया सम्भवादनेकेषामेकं नाम सम्भविष्यति'। इत्येतदसङ्गतमस्ति । समानकर्मकर्तषु जनेष्वपि तेनैव कर्मणा तेषु व्यक्तिविशेषस्य श्रेणीविशेषस्य वा नाम सम्भवति, सर्वेषां नहि । लोकव्यवहारस्येयमेव शैली विद्यते ।तक्षणस्य परिव्रजनस्य च क्रियाणामनेक व्यक्तीनां कृतेऽपि तक्षणकर्तुर्नाम 'तक्षा' संन्यासिनश्च नाम 'परिव्राजक' इति विद्यते । अन्यस्य न । शब्दस्य स्वभाव एवेदृशो यत् कयापि क्रियया कस्याप्येकस्यैव वस्तुनः प्रतिपादनं करोति । नहि सर्वेषां वस्तूनां । एकेन वस्तुना अनेकेषां क्रियाणां योगे स्थितेऽपि कस्या अपि क्रियाया अनुसारं तन्नामकरणं भवति । एष शब्दस्य स्वभाव स्तथा लोकप्रसिद्धो व्यवहारश्च विद्यते ।

'तक्षा' 'परिव्राजक'श्चान्यक्रियासम्पादनमाप करोति । परञ्च क्रियायाः वैशिष्टयेन तक्षण-परिव्रजन क्रियानुसारमेव तयोः नाम करणमभूत् । निष्पन्नस्य नाम्नः आधारे वस्तुनः क्रियायाः परीक्षणं विचारो वाऽसङ्गतो न भवति । एतत् कारणम्, नाम्नो निष्पत्तावपि तस्य योगार्थस्य परीक्षणं भविष्यति, तथाहि 'भवति हि निष्पन्नेऽभिव्याहारे योगपरीष्टिः' इति निरुक्ते १।१४ । नाम्न्य निष्पन्ने सति कस्यार्थपरीक्षणं भविष्यति ? अत्राह-'प्रथनात् पृथिवी' विस्तृतत्वात् पृथिव्या इदं नाम विद्यते । शाकटायनस्यास्यां व्याख्यायां गाय॑स्यैतत् कथनं नितान्तमयुक्तिकमस्ति यत्-एतत् केन विस्तृतमथवा कस्मिन् आधारे स्थितेन जनेन विस्तृतम् । एतत्सर्वं तर्कहीनमस्ति । यतो हि पृथ्व्याः पृथुत्वन्तु प्रत्यक्षदष्टमति अस्य प्रथनस्य विषये प्रश्न एव व्यर्थो विद्यते । अतः गाय॑स्येयमप्यापत्तिः सस नास्ति ।

शाकटायनेन पदानां निरुक्त्यै एकस्याभिन्न पदस्य व्याख्याऽनेकेषां धातूनां योगेन निष्पादिता। अपरञ्च शाकटायनेन 'सत्य'शब्द: प्रकारद्वयेण सिद्ध यति । प्रथमन्ता. वत्स ति + यत् ( तद्धितान्तः ), द्वितीयं-सन्तम् + एति + अच् ( कृदन्तः ) । अर्थात् यद्विद्यमानस्यार्थस्य ( यथार्थस्य ) ज्ञानं करोति तदेव सत्यमस्ति । अस्मिन विषये गाय॑स्य महत्यापत्तिविद्यते। यास्कस्योत्तरमस्ति यत्-शब्दान् त्रोटितेऽपि मदितेऽपि विखण्डितेऽपि च शाकटायनस्य निरुक्तिः अनुगतार्था विद्यतेऽतोऽमान्या न। अनन्वितेऽर्थे शब्दस्य संस्कारकः पुरुषः निन्दनीयो भवति न तु शास्त्रं तथा चोक्तं-'सपा पुरुषगर्दा न शास्त्रगीं । निरुक्तस्तथापदस्यान्वयत्वमेव न्याय्य मस्ति । तदर्थं पदविभाजनमनुचितं नास्ति । ब्राह्मणग्रन्थेष्वयं निरुक्तिक्रमः स्वीकृतः। न तु गर्हणीयः क्रमः । शतपथब्राह्मणेन 'हृदय'शब्दं त्रिषु भागेषु विभज्य तेषां निरुक्तिः क्रमशः हृ, दा, इण् धातुभ्यः प्रदर्शितः । फलतः शाकटायनस्य मतं यथार्थमस्ति ।

परभाविन्या क्रियया पूर्वजातवस्तूनां नामकरणं समुचितं नास्ति । गार्यस्येयमा पत्तिरप्यकिञ्चित्करी विद्यते । लोके परभाविन्या क्रियया पूर्वजातवस्तुनः संज्ञा व्यपदेशो वाऽनेकत्र दरीदृश्यते । भविष्यद्योगस्य सम्बन्धस्य वा सहयोगमवाप्य कस्यापि जनस्य 'बिल्वाद' तथा च 'लम्बचूडक' नामकरणं लोके भवति । मीमांसादर्शनस्याप्ययमेव सिद्धान्तः । रूढशब्दानामपि व्युत्पत्तिकरणमनावश्यकं भवति; इत्येतद् कथनमपि समुचितं नास्ति । वेदे रूढशब्दानां व्युत्पत्तिरनेकत्र दृष्टिगोचरी भवति–यदर्पत तत् सपिः । सर्पिषः ( घृतस्य ) व्युत्पत्तिः गमनार्थकस्य सृप् धातो: निष्पन्ना भवति ।

तदित्थं यास्केन विविधप्रपञ्चितयुक्तिव्यूहेन स्पष्टतः प्रतिपादितं यत्-समस्तानि नामानि धातुजानि सन्ति, वर्तमानस्य भाषाशास्त्रस्य चायमेव मान्यः सिद्धान्तो विद्यते ।

निरुक्त-व्याकरणयोः सामञ्जस्यम्[सम्पादयतु]

निरुक्तप्रणेत्रा यास्काचार्येण निरुक्तस्य प्रथमाध्याये कथितं यत्-'तदिदं विद्या स्थानं व्याकरणस्य कात्य॑म्' । अस्मात् कारणात् एव वेदानां सम्यग् ज्ञानायाध्ययनाय च निरुक्त-व्याकरणयोरुभयोरपि साहचर्यरूपेणावश्यकता भवति । एतदेवकारणमस्ति यदुभयोरेव वेदाङ्गता सिद्धयति । वस्तुतो निरुक्तव्याकरणे परस्परं सम्पूरके स्तः ।

व्याकरणस्य मुख्यं प्रयोजनमस्ति- शब्दानां शुद्धीकरणम् । तैत्तिरीयसंहितायामे तस्मिन् विषये उक्तमस्ति यत्--'वाग्दै पराची अव्याकृता अवदत्, ते देवा इन्द्रम ब्रुवन् इमां नो वाचं व्याकुर्विति...."तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत् । तस्मादियं व्याकृता वागुत्पद्यते' । आचार्यः व्याकरणस्य द्विविधं प्रयोजनमुक्तम् । तत्र बाह्य प्रयोजने शब्दानां व्युत्पत्ति-लिङ्ग-वचन-कारकादीनां परिष्करणं समायाति । अन्तरंगप्रयोजनन्तु सुप्रसिद्धमेव । तथा चोक्तं पतञ्जलिना 'रक्षोहागमलघ्वसन्देहाः प्रयोजनानि' व्याकरणस्येति ।

निरुक्तञ्च पूर्वोक्तानि कार्याणि तु सम्पादयत्येवापि तु व्याकरणापेक्षया शब्दार्थ विवेचनस्यापि कार्य विदधाति । एवञ्च निरुक्तं साधितशब्दानां धातूनां कामपि कल्पनां विधाय मौलिकार्थान्वेषणाय सततं प्रयत्नमाचरति । अपि च शब्दस्यार्थस्य च पारस्परिकोऽन्योन्याश्रयसम्बन्धाभावात् द्वयोरैक्यं सम्भवति । विशेषतोऽर्थज्ञानाय निरुतं परमापेक्षितं भवति, तद्विनाऽर्थज्ञानन्तु अनिश्चितमेव । अपरञ्च निरुक्तेन धातुपाठ स्याखिला अर्थाः समुत्पद्यन्ते । परञ्च धातूनां परिज्ञानाय निरुक्तमपि व्याकरणाधीनं भवति । अस्मिन् विषये यास्कस्य कथनमस्ति–'न संस्कारमाद्रियेत । विशवत्यो हि वृत्तयो भवन्ति' । इत्येतद् ।

अन्यच्च इतिहासविदां विदुषां कथनमस्ति यत्-यास्काचार्यस्य काले बया करणानां महत्संघटनमासीत्, तेषु शाकटायन-गार्ग्य-गालव-शाकल्यादय प्रमुखाः सन्ति ।

महामुनिना पाणिनिनाप्यष्टाध्यायां सूत्रेषु तेषां मतानामुद्धरणं कृतम् । इत्येव नहि पाणिनिः यास्काचार्यस्य पदानि विभिन्नस्थानेषु. स्वीचकार । तथैव यास्काचार्योऽपि वैयाकरणसम्मतपदभेदं स्वीकृत्य निरुक्ते चतुर्विधान् नामाख्यातोपसर्गनिपाताख्यान् स्वीचकार । अत्र परवतिकालिकः पाणिनिः पदानां भेदद्वयमेव 'सुप्तिङन्तं पद'मिति सूत्रेऽङ्गी चकार।

एतदतिरिक्तं यास्काचार्यः व्याकरणस्य पारिभाषिकशब्दानां व्युत्पत्तिविषयक निर्वचनमपि करोति । कानिचिदुदाहरणानि यथा-'सर्वनाम्नः = सर्वाणि नामानि यस्य, सर्वेषु भूतेषु नमति = गच्छति वा । निपातस्य च-'उच्चावचेष्वर्थेषु निपतन्ति' इति । यास्काचार्यो यथा निरुक्ते व्याकरणशास्त्रस्य पारिभाषिकशब्दानां प्रयोगं साफल्येन प्रयुङ्क्ते तथैव शेषावतार: पतञ्जलिरपि महाभाष्ये निरुक्तसामग्र्याः स्थाने स्थाने सम्यगुपयोगं कृत्वा सामञ्जस्यभावं स्थापयति ।

तथा च कानिचिदुद्धरणानि यथा—(१) षड्विकारा भवन्तीत्याह भगवान् वार्ष्यायणिः । (२) उतत्वः पश्यन्तददर्श वाचमुत त्यः शृण्वन्न शृणोत्येनाम् । ( ३ ) नाम खल्वपि धातुजम्-एवमाहु.रुक्ताः । (४) शवतिर्गतिकर्मा काम्बोजेष्वेव भापितो भवति । (५) सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रमत । (६) चत्वारि शृङ्गा यो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य। (७) चत्वारि वाक् परिमिता पदानि ।।

अपि च निरुक्तस्य व्युत्पत्तेनिंदानमपि व्याकरणशास्त्रमेवास्ति । यच्च निरुक्ते स्फोटसिद्धान्तस्य चर्चा विद्यते तत्रापि व्याकरणस्यैव प्रभावो लक्ष्यते । उपर्युक्तेन विवेचनेनेदं सुस्पष्टं भवति यन्निरुक्त-व्याकरणयोर्पूरकत्वं सामञ्जस्य करत्वं च विद्यते ।