नेकचन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेकचन्द

नेकचन्दः विशिष्टचिन्तनसमर्थः कश्चन सामान्यः जनः ।क्रिस्ताब्दे १९५० तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यनिरीक्षकः आसीत् । बहु अध्ययनमपि न कृतवान् आसीत् । सर्वैः त्यक्तानि त्याज्यवस्तूनि अवेक्ष्य एतानि उपयुज्य किमपि कर्तुं शक्यते वा इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षाणि यावत् कार्यं कृत्वा राक् गार्डन् निर्माण कृतवान् । क्रिस्ताब्दे १९७६ तमे वर्षे एतत् कार्यं समाप्तम् अभवत् । सः एकः एव एतां अद्भुतवाटिकां निर्मितवान् अस्ति । महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एतेषां बहिः नयनमपि समस्या अस्ति । भवननिर्माणभागाः, अयसा निर्मितानि आसनानि गृहोपयोगिवस्तूनि शिलाखण्डाः कूप्यः इत्यादयः एकस्योपरि अन्यं योजयित्वा अपूर्ववस्तूनि निर्मितवान् अस्ति । तेन इदम् उद्यानं विश्वविख्यातमस्ति । अस्मिन् उद्याने कृतकपर्वताः, गुहाः, गुहायाः उपरि गृहगोधिकाः, एवं शतशः दर्शनीयानि चित्राणि, वस्तूनि, स्थानानि, च निर्मितानि सन्ति । अस्य विस्तारः दश हेक्टरपरिमितः अस्ति । निष्प्रयोजकवस्तुभिः निर्मितं विस्मयजगत् अस्ति चण्डीगढनगरस्य राक् गर्डन् । नगरप्रदेशे यानि निष्प्रयोजकानि वस्तूनि लभ्यन्ते तानि सङ्गृह्य अस्मिन् उद्याने उत्तमकलाकृतयः निर्मिताः सन्ति । नेकचन्दनामकः एतत् विस्मयकारि कार्यं कृतवान् ‘Nek Chand’s Kingdom’ इति एतत् उद्यानं प्रसिद्धम् अस्ति । न केवलं भारते अपि तु विश्वेऽपि एतादृशम् उद्यानम् अन्यत् नास्ति । भाग्नानि कङ्कणानि , मृदानिर्मितपात्राणां भागाः, नलिकानां भागाः , विद्युत् तन्त्र्यः, विविधशिलाखण्डाः अत्र सुन्दाकलाकृतिरुपं प्राप्तवन्तः सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नेकचन्दः&oldid=479338" इत्यस्माद् प्रतिप्राप्तम्