नेपालीसाहित्येतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
Aadikavi Bhanubhakta Acharya
Laxmi prasad devkota 2

सहितस्य भावः साहित्य । नेपाली भाषायाः साहित्य नेपलीसाहित्य । नेपालीसाहित्यस्य इतिहासः नेपालीसाहित्येतिहासः, किंवा नेपाली भाषायाम् लिखितानि यावत् साहित्यिककृतयः सन्ति तेषां विकासक्रमसंबद्धलेखनशैलीविधिप्रवृत्त्यादिनाम् उल्लेखः नेपाली साहित्येतिहासः ।

साहित्यपरिचयः[सम्पादयतु]

वर्तमानसमये साहित्यः यदर्थं वहति प्राचीनसमये पाश्चात्य एवं पूर्वीयजगति कविता/काव्यम् साहित्यस्य पर्यायरूपेण प्रयुक्तः । पूर्वीय साहित्यशास्त्रे साहित्यस्य पृथक् परिभाषां नैव प्राप्यते । काव्यस्य परिभाषामेव साहित्यस्य परिभाषा सन्निहिताेऽस्ति ।

पूर्वाचार्यैः काव्यस्य किंवा साहित्यस्यार्थः अधाेलिखितानुसारेण कृतः -

सब्दार्थाै सहिताै काव्यम् । [१]

शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली । [२]

संक्षेपाद्वाक्यमिष्टार्थव्यवच्छिन्ना पदावली, काव्यं स्फुटदलंकारं गुणवद्दोषवर्जितम् । [३]

तददाेषाै शब्दार्थाै सगुणावनलङ्कृती क्वापि [४]

वाक्यं रसात्मकं काव्यम् [५]

साहित्येतिहासपरिचयः[सम्पादयतु]

साहित्येतिहासाेऽपि मूलतः इतिहासैव अस्ति, तस्मात् अस्य परिभाषामपि इतिहासपरिभायाः सादृशी वर्तते । विभिन्न साहित्येतिहासपण्डिताः वदन्ति यद् समाजिकसाँस्कृतिकमूल्यानाम् कालजन्यतथ्यानाम् शृङ्खलाबद्धानुसन्धानपरिणामः साहित्येतिहासः । अर्थात् सामान्येतिहासः अतीततस्य कथारूपेण दृश्यते चेत् सांस्कृतिकचिन्तनात् प्रभाविताे भूत्वा रचितस्य साहित्यकारस्य कृतेः शृङ्खलाबद्ध कथा इति साहित्येतिहासः । एषः पनि तथ्यप्रति तथ्यपरकः वर्तते, यत्तथ्यं साहित्यिकमान्यताद्वारा सत्यापिता सन्ति विभिन्न सन्दर्भे स्वीकृताः सन्ति च ।।[६]

साहित्येतिहासस्य कालविभाजनविषये मतैक्यं अावश्यकं वर्तते । परन्तु नेपालीसाहित्येतिहास्य कालविभाजनविषये विविध मतमतान्तराणि दृश्यन्ते । प्रमुख मतमतान्तराणि अधाेलिखितानि सन्ति ः

क्र.सं. लेखकस्य नामः पुस्तकस्य नामः कालविभाजनम् (कोटि १) कालविभाजनम् (कोटि २) कालविभाजनम्(कोटि ३) कालविभाजनम् (कोटि ४) कालविभाजनम् (कोटि ५)
यज्ञराज सत्यालः नेपाली साहित्यस्य भूमिका (२०१७) प्राथमिककालः (१९औँ शताब्दीतः) माध्यमिककालः (१९६० वैक्रमाब्दतः) आधुनिककाल (१९७४ वैक्रमाब्दतः)
डिल्लीराम तिम्सिना तथा माधव भण्डारी अस्माकं साहित्यः साहित्यकाराश्च (२०१८) प्राथमिककालः ( सुवानन्ददासतः रघुनाथ भट्टपर्न्तम्) उत्थानकालः (भानुभक्ताचार्यतः) विकासकालः (मोतीरामदेखि) आधुनिककाल (शारदा पत्रिका तथा लेखनाथतः)
ईश्वर बरालः नेपालीसाहित्यस्य कालविभाजनः (रूपरेखा-५३,२०२२) प्रथमिककालः (१८३३-१९४०) माध्यमिककाल (१९४१-१९८५) आधुनिककालः (१९८६-२००७) प्रजातन्त्रकालः (२००७-२०१८) पञ्चायतकालः (२०१८ वैक्रमाब्दतः)
बालकृष्ण पोखरेलः राष्ट्र भाषा (२०२२) आरम्भिककालः (सं.१३७८-१८००) उत्थानकालः (१८००-१९४०) विकासकालः (१९४० वैक्रमाब्दतः)
तारानाथ शर्मा नेपाली साहित्यस्य इतिहास (२०२७) भानुभक्तपूर्वयुगम् (प्रारम्भ-१८७१) भानुभक्तयुगम् (१८७२-१९३९) मोतीरामयुगम् (१९४०-१९७६) क्रन्तिपूर्वयुगम् (१९७७-२००७) क्रान्तिउत्तरयुगम् (२००७ वैक्रमाब्दतः)
रत्नध्वज जोशी नेपालीसाहित्ये कालविभाजनम् (प्रज्ञा ५,२०१८) अज्ञातकालः/आदिकालः (भानुभक्तपूर्वम्) मध्यकाल (भानुभक्ततः लेखनाथपर्यन्त) आधुनिककालः (बालकृष्ण समतः)
नेपाल राजकीय प्रज्ञाप्रतिष्ठानम् इतिहासलेखनपरियोजना (२०२९) प्राचीनकालः (प्रागैतिहासिक(एकीकरणपूर्वम्) प्राथमिककालः (वीरधारा भक्तिधाराश्च) माध्यमिककालः (शृङ्गारिकधारा) आधुनिककाल (लेखनाथतः)
बालचन्द्र शर्मा नेपालीसाहित्येतिहासः (२०३९) उत्पत्तिकालः (अस्माकंसाहित्यस्य भावात्मकपरम्पराम्) प्रयोगकालः (अस्माकं साहित्यस्य प्रारम्भिकप्रवृत्तयः) पूर्वमध्यकालः (भानुभक्ताचार्यः) मध्यकालः (मुद्रणप्रचारविस्तारयुगम्) आधुनिककालः (चक्रपाणिलेखनाथलक्ष्मीप्रसादयुगम्)
घनश्याम नेपाल नेपाली साहित्यको परिचयात्मक इतिहास (र्इ१९९१) प्रस्तावना/स्तवनकालः (सन्९८१-१७५०/सन्१७५०-१८८२) शृङ्गार/नीतिकालः (सन्१८८३-१९१७/१९१७-१९३३) रोमान्टिककालः (सन्१९३४-१९६०) प्रयोगकालः (सन्१९६०-१९७४) आलोचनाकालः (१९७४ खृष्टाब्दात् अद्यपयर्न्तम्)
१० दयाराम श्रेष्ठ तथा मोहनराज शर्मा नेपालीसाहित्यस्य संक्षिप्तइतिहासः (२०४०) आदिकालः : वीरगाथा कालः- (१७९९-१८७२) पूर्वमध्यकालः : भक्तिकालः-(१८७३-१९३९) उत्तरमध्यकालः : शृङ्गारकालः-(१९४०-१९७४) प्रागाधुनिककालः : नव्यकालः-(१९७५-२००७) आधुनिककालप् (२००८ विक्रमाब्दात् अद्यपर्यन्तम्)
११ केशवप्रसाद उपाध्याय नेपालीसाहित्ये कालविभाजनम (२०४० : १४-१५) पूर्वप्राथमिक/उत्तरप्राथमिककालः (प्रारम्भतः अष्टादश शताब्देः अन्त्यपर्यन्तम्) पूर्वमाध्यमिक/उत्तरमाध्यमिककालः (१८८४-१९४०/१९४०-१९६०) लेखनाथयुगम् (१९६०-१९८५) आधुनिककालः (१९८६ वैब्रमाब्दतः)

नेपालीसाहित्यस्य कालविभाजनम्[सम्पादयतु]

नेपालीभाषायाः इतिहासः पुरातनमस्ति चेत् नेपालीसाहित्येतिहासः तद्वत् पुरातनम् नैव । नेपालीसाहित्यस्य कालविभाजनविषये विभिन्न साहित्येइतिहासकारेभ्यः स्वस्वधारणाः प्रकटिताः सन्ति । उपर्युक्त तालिकात् स्पष्टं भवति, यदधिकांश साहित्येतिहासकाराः अधाेलिखित त्रिकालिक अवधारणाामनुसरन्ति स्म ः [७]

प्राथमिक नेपाली साहित्य[सम्पादयतु]

प्राथमिक कालीन नेपालीकविता (१८२६-१९४०)[सम्पादयतु]

१. वीरगाथाकाल/वीरधाराकाल (१८२६-१८७२)
सुवानन्ददासेन लिखितम् पृथ्वीनारायणः शीर्षक कवित्तात् प्राथमिकनेपालीसाहित्यस्य शुभारम्भाेऽभवत् ।[८] सुवानन्ददासविषये निश्चितानुसन्धानम् नैव विद्यते । अस्य एकमेव कवितां पृथ्वीनारायण शाहः अस्ति । कमल दीक्षित महाेदयेन सर्वप्रथमः इदं प्रकाशितम् । नेपालीभाषायां लिखितमं एतस्मिन् कृतेः ध्वनितात्त्विकविशेषतां च दृश्यन्ते । अयं पृथ्वीनारायण शाहस्य राजपुरोहितः अासीतदिति साहित्येतिहासकाराः वदन्ति तनहु भकुन्डो शीर्षक कविताकाव्यं रचितमनेन । अयं हास्यकदम्ब (१८५५ ) नाटकस्य नेपालीभाषायाम् अनुवादमकराेत् । अन्य किञ्चित कविताकाव्यञ्च रचयति स्म इति । यस्य अात्मस्वीकृतेः भणितम् यद् संस्कृतभाषायां हास्यकदम्बम् जयरत्नाकर नाटकञ्च रचितम् । [९] शक्तिवल्लभ अर्यालस्यातिरिक्त कवीनाम् कविताकृतिषु उदयानन्द अर्यालस्य पृथ्वीन्द्रोदय काव्य, सुन्दरानन्दस्य (बाँडा) बहादुरशाहवर्णनम् राधावल्लभ अर्यालस्य साँढ्यायाः कवित्त इत्यादयः दृश्यन्ते । १७९९ विक्रमाब्दतः १८७२ पर्यन्तम् वीरगाथाकालः

२. भक्तिकालः (१८७३-१९४०)

प्राथमिक नेपालीसाहित्यस्य प्रारम्भसमये स्मृतिकाव्येन विशिष्टस्थानं प्राप्तम्, परन्तु परवर्तीसमये भक्तिकाव्यस्य वर्चस्वं अधिकतरं दृश्यते । अस्मिन् काले द्वे घटके दृश्येते, यथा सगुणभक्तिकाव्यघटकम् निर्गुणभक्तिकाव्यघटकञ्च । सगुणभक्तिकाव्यघटकम् द्विभागे विभक्तमासीत् - कृष्णभक्तिकाव्यं रामभक्तिकाव्यञ्च । कृष्णभक्तिकाव्यघटकेऽस्मिन् इन्दिरसः, विद्यारण्यकेशरी अर्यालः, वसन्त शर्मा, यदुनाथ पाेखर्यालः, रघुनाथभट्ट पाेखर्यालः, पतञ्जली गजुर्यालनामधेयाः कवय अासन् । रामभक्तिकाव्यघटकस्य सर्वप्रमुख कवि भानुभक्ताचार्य अासीत् । अस्मिन् कविना नेपालीभाषायां रामायण महाकाव्यं (भनुभक्तीयरामायणम्) रचितम् । इदं नेपालीभाषायाः प्रथममाैलिककृतिः, तस्मात् अादिकविरितिख्याताेऽयम् । भानुभक्तः प्रतिभावान् धार्मिकश्च । तदनन्तरं निर्गुणभक्ति काव्यघटकस्य उदयाेऽभूत् । उदयलहरीनाम भक्तिकाव्यस्य रचयिता ज्ञानदिलदासः । सः निर्गुणभक्तिकाव्यघटकस्य प्रमुख कविश्च । १७७३ वैक्रमाब्दतः १९३९ पर्यन्तम् नेपालीसाहित्येतिहासे भक्तिकाल इति विश्रुतम् । [१०]

प्राथमिक नेपालीकथा (१८२७-१९५७)[सम्पादयतु]

१८२७ वैक्रमाब्दतः १९५७ पर्यन्तं नेपाली कथायाः प्राथमिककालः। वर्तमानमयपर्यन्तस्यानुसन्धानः कथयति यद् शक्तिवल्लभ अर्याललिखित महाभारत विराटपर्वः (१८२७) नेपालीसाहित्यस्य प्रथमाख्यानात्मककृतिरस्ति । तत्पश्चात् प्रकाशिताः प्रमुखकृतयः निम्नलिखिताः सन्ति ः

  • भानुदत्त्तस्य हितोपदेशमित्रलाभस्यानुवादः (सं.१८३२), ।
  • शक्तिवल्लभ अर्यालस्य संस्कृत नाटकस्य अनुवादः हास्यकदम्बः (१८८५),
  • अज्ञात व्यक्तिलिखित दशकुमारचरितम् १८७५) ।

कथातत्त्वस्य दृष्टे पीनासस्य कथा (सं.१९७२) प्रथमनेपाली कथा मन्यते । ।[११] पीनासकथापश्चात् मुन्शीका तीन आहान (सं.१८७७), बहत्तर सुगाको कथा (१८९०), सत्तलसेनको कथा इत्यादयः एतत्कालस्य उल्लेख्यकृतयः । तत्पश्चात् अनुमानतः ८० वर्षपर्यन्तं नेपाली कथाकृतिर्नैव दृष्टगाेचर अस्ति । १९५८ वैक्रमाब्दे गोरखापत्रस्य प्रकाशनपश्चादेव नेपालीकथालेखनस्य प्रारम्भ अभवदिति दृष्यते । ।[१२]

प्राथमिककालस्य कश्चनः प्रवृत्तयः

सन्दर्भाः[सम्पादयतु]

  1. भामह, काव्यालङ्कारः, शर्मा, देवेन्द्रनाथ ( २०४२, तृतीय सं. व्याख्या), पटना : विहार राष्ट्रभाषा परिषद्
  2. दण्डी, काव्यादर्श, मिश्र, रामचन्द्रः (सन् १९८४, तृतीय सं. व्या.), वाराणसी : चाैखम्बा विद्याभवन
  3. वेदव्यासः अग्निपुराणम्, सम्पा. उपाध्याय, बलदेवः (२०३३), वाराणसी : चाैखम्बा संस्कृत सिरिज अफिस
  4. वामनः काव्यालङ्कारसूत्रवृत्तिः, व्याख्या, सिद्धान्तशिराेमणि, विश्वेश्वर (२०११) सम्पा. नगेन्द्र, दिल्ली : अात्माराम एन्ड सन्स
  5. विश्वनाथः साहित्यदर्पणः व्याख्या, सिंह, सत्थवृतः (१९८२, षष्ठ संस्करणम्), वाराणसी : चाैखम्बा विद्याभवन
  6. श्रेष्ठ,दयाराम (२०५९-३०), साहित्यको इतिहास : सिद्धान्त र सन्दर्भ काठमाडौँ : त्रिकोण प्रकाशन
  7. नेपाली साहित्यकोश (२०५५-३९९), नेपाली साहित्य, काठमाडौँ : नेराप्रप्र
  8. योगी नरहरिनाथ, इतिहासप्रकाश अङ्क २, भाग ३ (२०१३), काठमाडौँ : इतिहासप्रकाश मण्डल
  9. नेपाल, घनश्याम (सन् १९९४), नेपाली साहित्यको परिचयात्मक इतिहास, गान्तोक, सिक्किम : जनपक्ष प्रकाशन
  10. श्रेष्ठ, दयाराम र मोहनराज शर्मा (२०३४), ‘’’नेपाली साहित्यको संक्षिप्त इतिहास’’’, काठमाडौँ : नेराप्रप्र
  11. रेग्मी, डा.जगदीशचन्द्र (सं.२०३२), नेपाली अध्ययन, काठमाडौँ : साझा प्रकाशन
  12. श्रेष्ठ,दयाराम.....ऐजन.....ऐजन.....ऐजन

सम्बद्धाः लेखाः[सम्पादयतु]