नेल्स् हेन्रिक् एबल्
नेल्स् हेन्रिक् एबल् [५ आगस्ट १८०२ - ६ एप्रिल् १८२९] नार्वे देशस्य विख्यात: गणितज्ञः आसीत् येन विविधेषु क्षेत्रेषु योगदानानि कृतानि । तेन कृतेषु कार्येषु अतिमहत्वपूर्णं कार्यं सादारणानां पञ्चममात्राणां समीकरणानां परिशोधनस्य अनस्तित्वं सिद्धीकरणम् । तस्मिन् काले इयं प्रश्ना बहुविख्यातासीत् अतिक्लिष्टा च यत्कारणात् २५० वर्षपर्यन्तम् अनिर्धारिता अस्ति स्म ।
एबल् सर्वानि संशोधनानि दारिद्र्ये सन् एव कृतवान् । यदा सः २६ वर्षीयः आसीत् एबल् पञ्चत्वं गतः । एबल् अस्य विषये फ्रान्स् देशस्य गणितज्ञः चार्ल्स् हर्मैट् इदम् अवदत् -" पञ्चशतवर्षकालाय गणितज्ञाः व्यस्ताः भवितुम् एबल् कार्यं कृतवान् " इति ।
जीवनम्
[सम्पादयतु]बाल्यम्
[सम्पादयतु]नेल्स् हेन्रिक् एबल् नार्वे देशे नेड्स्ट्राण्ड् इति ग्रामे जन्मं प्राप्तवान् । तस्य पिता सोरेन् जार्ज् एबल् माता आन्न् मेरी सिमोन्सेन् च। सोरेन् आध्यात्मे तत्त्वज्ञाने निपुणः आसीत् । सः फिन्नोय् नाम नगरे ख्रिष्टीयपुरोधसस्य रूपे कार्यं निर्वहति स्म ।
विद्याभ्यासः
[सम्पादयतु]१८१४ तमे वर्षे स्वतन्त्रतां संप्राप्य नार्वे देशिकाः निर्वचनम् आयोजितवन्ताः यस्मिन् नेल्स् अस्य पिता विजेतारेषु अन्यतमः आसीत् । एतदर्थं तैः ओस्लो नगरं गन्तव्यम् आसीत् । १८१५ तमे वर्षे १३ वर्षीयः नेल्स् केथेड्रल् स्कूल् इति शालायां प्रवेशः प्राप्तवान् । आरम्भे तत्रैव पटन् नेल्स् अस्य भ्राता हान्स् एबल् तेन अधिकाङ्कान् प्राप्यन् आसीत् । परंतु १८१८ तमे वर्षे तां शालाम् आगतः नूतनाध्यापकः बर्न्ट् मैकल् होल्म्बो एबल् अस्य प्रतिभाम् अभिज्ञायति स्म । सः तं बालं सम्यक् मार्गदर्शनं दत्वा प्रगस्तरं गणितं पटितुं प्रोत्साहितवान् ।
१८२१ तमे वर्षे एबल् रायल् फ़्रेड्रिक् विश्वविद्यालये अध्ययनम् आरब्धवान् । अस्मिन् काले तेन सादारणपञ्चममात्रसमीकरणानां विषये कार्यं कृतम् । अस्मिन् विषये तेन दत्तं प्रमाणम् अनुसृत्वा क्रिस्टोफ़र् हान्स्टीन् , कार्ल् फ़र्डिनान्ड् डेगेन् आदि गणितज्ञाः तं अण्डाकारनियोज्यानां विषये कार्यं कर्तुं बोधितवन्तः । १८२२ तमे वर्षे एबल् स्नातकपदवीं प्राप्तवान् ।
चरितम्
[सम्पादयतु]विद्याभ्यासं पर्याप्य एबल् प्राध्यापकानां सहयोगे किञ्चित् कार्यम् अकरोत् । यदा सः १८२३ तमे वर्षे कोपन्हेगन् नगरं गतवान् तदा क्रिस्टीन् केम्प् नाम कन्यया सह मेलनम् अभवत् । १८२४ वर्षस्य क्रिस्मस् अवसरे तयोः विवाहनिश्चितार्थम् अभवत् । १८२५ तमे वर्षे नार्वे देशस्य राज्ञा धनं प्राप्तः एबल् यूरोप् खण्डस्य अनेकानि नगरानि गतवान् । तत्रस्थैः गणितज्ञैः सह मेलेनं कर्तुं विविधेषु विषयेषु संशोधनं कर्तुं च तस्य उद्धेशः आसीत् । एवं सः वियन्ना, प्राग्, ड्रेस्डेन्, वेनिस्, वेरोना, पेरिस् आदि नगरान् भ्रमितवान् ।
मृत्युः
[सम्पादयतु]यदा एबल् पेरिस् भ्रमण् आसीत् सः क्षयरोगेण सङ्क्रमितः अभवत् । तदा सः नार्वे प्रत्यागच्छत् । १८२९ तमे वर्षे एप्रिल् मासस्य षष्टे दिने नर्वे देशस्य फ़्रोलाण्ड् नाम नगरे नेल्स् हेन्रिक् एबल् इहलोकं त्यक्तवान् ।
योगदानानि
[सम्पादयतु]बीजगणिते ये समीकरणानां मात्रा चतस्राद् अधिका वर्तते तेषां परिशोधनं न विद्यते इति एबल् प्रदर्शितवान् । तत्कर्तुं एबल् समूहसिद्धान्तस्य प्रतिष्टां करोति स्म यस्य प्रयुक्तिः गणिते, भौतशास्त्रे, सङ्गणकतन्त्रज्ञाने, लेखक्रियायां इत्यादिषु क्षेत्रेषु भवति ।
तर्कसङ्गतसङ्ख्यानां विषये ओइलर् अनेन दत्तः द्विपदप्रमेयः एबल् सर्वानां सङ्ख्यानां विषये सत्यम् इति प्रदर्शितवान् । अण्डाकार-अनुकलसिद्धान्तस्य महत्वपूर्णं ग्रन्थं एबल् अरचयत् येन अण्डाकार्स-मीकरणसिद्धान्तस्य सृजनः भवति स्म ।
संप्रत्तिः
[सम्पादयतु]एबल् अस्य अनेकानि प्रकाशनानि क्रेल्ल् जर्नल् इति पत्रिकायां प्रसारितानि । गणिते बहुदा उपयोगं कृतं "अबीलियन्" इति विशेषणं एबल् अस्य नामात् व्यत्पादितम् [यथा अबीलियन् वर्गः, अबीलियन् समूहः, इत्यादि]।
६ एप्रिल् १९२९ तमे दिने नार्वे सर्वकारः एबल् अस्य स्मृतौ चतस्रः मुद्राः प्रस्तुतम् अकरोत् । तथा १९७८-१९८५ वर्षेषु सर्वकारेण तस्य स्मृतौ अधिपत्रं प्रकाशितम् । २००२ तमे वर्षे गणिते कृतानि प्रमुखानि योगदानानि परितोषयितुं "एबल् प्रैज़्" नाम पुरस्कारः संस्थापितः आसीत् ।