नैनिताल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नैनिताल् इत्यस्मात् पुनर्निर्दिष्टम्)
नैनिताल्

नैनीताल
नगरम्
नैनिताल् सरोवरनगरस्य सुदर्शनम्
नैनिताल् सरोवरनगरस्य सुदर्शनम्
देशः भारतम्
राज्यम् उत्तराखण्डराज्यम्
मण्डलम् नैनिताल्
Elevation
२,०८४ m
Population
 (2001)
 • Total ३८,५६०
भाषाः
 • अधिकृताः हिन्दी
 • Other गरवाली, कुमौनि
Time zone UTC+5:30 (IST)
पिन्
263001/263002
Telephone code +91 - 5942
Vehicle registration UK 04
Website nainital.nic.in

कुमाहिल् प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराञ्चलराज्यस्य किञ्चन नगरम् । नैनितालमण्डलस्य केन्द्रम् अपि नैनिताल् इत्यस्य देवतायाः नेत्रम् इत्यर्थः । नैनादेवीतः नैनिताल् इति नाम आगतम् अस्ति । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति च एतत् नगरम् कथयन्ति । नैनिताल् नगरे स्थितानि सरोवराणि भी ताल् , नौकुट्चिय् इत्यादि । अत्र नौकाविहारः मीनग्रहणम् इत्यादिकम् अतीव आकर्षकाणि सन्ति । नैनिताल् प्रदेशे मेघाच्छादितशिखराणि सरोवराणि तृणावृतप्रदेशाः अरण्यानि समतलभूमिः च अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं A Jewel among the Tourist Places इति यात्रिकाः सगौरवं कथयन्ति । बहुकालापर्यन्तम् एतत् गिरिधाम अदृष्टमेव आसीत् । शिवालिकपर्वतश्रेणिः , पर्वताः, प्रपाताः च मनोहराणि सन्ति । ब्यारन् इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.१८४१तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । क्याटर्पिल्लर् इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः अत्र दर्शनीयाः सन्ति । नैनितालतः पश्चिमे रामनगरम् इति स्थले राष्ट्रियोद्यानं जिम् कार्बेट् न्याशनल् पार्क् अस्ति । अत्र भल्लूकाः व्याघ्राः गजाः इत्यादयः प्राणिनः सन्ति । समीपे राणीखेत् अल्मोरा इत्यादीनि गिरिधामनि भवन्ति |

मार्ग:[सम्पादयतु]

३६ कि. मी. दूरे कतगोण्डधूमशकटस्थानम् अस्ति । भूमार्गः अपि उत्तमः अस्ति । पन्तनगर इति समीपस्थं विमाननिस्थानं भवति । कुमांव् विकास् मण्डलनिगमः अत्र प्रवासव्यवस्थानं करोति । वासभोजनव्यवस्थार्थम् अतिथिगृहणि अनेकानि सन्ति । देहलीतः २२२ कि. मी. दूरे अल्मोरातः ६६ कि.मी. दूरे अस्ति ।

वीथिका[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नैनिताल&oldid=457520" इत्यस्माद् प्रतिप्राप्तम्