न्यायसुधायां प्राभाकरमतविमर्शः
महर्षिणा जैमिनिना प्रणीतानां मीमांसासूत्राणां भगवता शबरेण भाष्यं प्रणीतम् । भाष्याशयप्रकटनाय अनेकेव्याख्यातारः कुमारिलभट्ट-प्रभाकरमिश्र –मुरारिमिश्र-पार्थसारथिमिश्र-शालिकानाथमिश्रप्रभृतयः प्रबन्धं अकार्षुः । तत्र हि प्रभाकरमिश्रप्रणीता बृहती सुप्रसिध्दा । मीमांसाशास्त्रावलम्बिनां द्वैतिनां सूत्रव्याख्यानविषयेऽस्ति विप्रतिपत्तिः । अत एव भाट्टसङ्ग्रहादिद्वैतग्रन्थेषु, मीमांसाभाष्य –तद्वयाख्यानेषु प्रायः विनष्टा अपूर्वा जैमिनिसम्मता विचारप्रणाली प्रतिपादिता । श्रीमन्न्यासुधायां पुनः प्रसङ्गसङ्गत्या प्राभाकरमतप्रमाणप्रमेयविमर्शः यथावकाशं कृतः । तत्र एकः विषयः अन्यथाख्यातिसमर्थनरुपः यस्सुधायामनूद्य निराकृतः स इह उपस्थाप्यते । विप्रतिपत्तिविषयाणां बहुत्वेऽपि सङ्क्षिप्तेऽस्मिन् प्रबन्धसारे अख्यातिवादनिरसनरुपः एक एव विषयः विमृष्टः । विस्तरे तु प्रबन्धे ज्ञानस्वप्रकाशत्वादि-विषयाः विमृश्यन्ते ।
अख्यातिस्वरुपे प्राभाकरमतानुवादः
[सम्पादयतु]तत्र हि सर्वं ज्ञानं यथार्थमेवेति मन्यमानाः प्राभाकराः नान्यथाख्यातिं सहन्ते । हेतुपञ्चकात् अन्यथाख्यातिरपाकृता तैः । तदुक्तम्-
- साकारवादात् असतो न भानात् संविद्विरोघात् अथ हेत्वभावात् ।
- धियमनाश्वासबलाच्च नेष्टा अतोऽन्यथाख्यातिरतो यथार्था ॥ इति ॥
इदानीं कारिकाशयः सङ्क्षेपेण आविष्क्रियते ।
अन्यथाख्यातिनिराकरणनिदानानि
[सम्पादयतु]१. साकारवादात्
ज्ञानमात्रस्य याथार्थ्यवादी प्राभाकरः विपर्ययाभावमेवं समर्थयति । केयमन्यथाख्यातिर्नामेति । अन्यथापरिणते वस्तुनि ख्यातिर्यद्यन्यथाख्यातिः तदा घटादिप्रत्ययाः सर्वेऽपि विभ्रमाः प्रसज्येरन् । किञ्च शुक्तिकायाः रजताकारपरिणामः किं सकारणः उताकारणः ? न तावदकारणः । कादाचित्कत्वानुपपत्तेः सकारणश्चेत्कारणं वाच्यम् । करणदोष इति चेन्न । करणदोषस्य करणसम्बन्धिनः शुक्तिकापरिणामहेतुत्वानुपपत्तेः । अन्यथा तदैव सकलपदार्थानां रजतरुपपरिणामप्रसङ्गत । दुष्टक्रणसंसर्गौ हेतुरिति चेत्तथाऽपि किं शुक्तित्वापगमेन रजतरुपपरिणामः । किं वा तदनपगमेन । शुक्तित्वापगमेन चेत् रजतरुपपरिणामः पुरुषान्तरेणापि तदा शुक्तित्वं न प्रत्येतव्यम् । शुक्तित्वानपगमेन चेत् यथा मृत्वाऽनपगमेन जाते घटे मृत्वमुपलभ्यते तथा भ्रान्तेनाऽपि तत्प्रत्येतव्यम् । किञ्च दोषवशाद्रजताकारेण परिणता चेच्छुक्तिः तदा दोषापगमेऽपि कथं तथैव नावतिष्ठते । न हि निमित्तकारणनाशात् कार्यनाशो दृष्टः । किञ्चोत्पन्नं चेद्रजतं विनष्टं, तदा तथैव प्रतीतिः स्यात् । न पुनर्नेदं रजतमिति बाधबुध्दिः । तदेवं भ्रान्ति बाधयोरनुपपत्तेर्न परिणामपक्षो युक्तः ।
२. असतो न भानात्
वस्तुनो वस्त्वन्तरात्मता सती उताऽसती । वस्तुनो वस्त्वन्तरात्मतायाः सत्त्वे, न भ्रान्तिर्नाऽपि बाधः । सर्वस्य सर्वात्मतायाः सत्त्वेन, सर्वेषां सर्व्ं सर्वात्मना प्रतीयेत । न तत्र दोषः करणसंस्कारः । किञ्चैवं सति रजतसंवित् समीचीना शुक्तिरेवेयमिति चासमीचीनाऽपद्येत ।
नापि वस्तुनो वस्त्वन्तरात्मताऽसती । असतः प्रतीत्यनुपपत्तेः । असतः प्रतीत्यनुपपत्त्या हि रजतस्य वस्तुत्वम् अन्यत्र सत्वरुपम् अङ्गीकृतम् । असतोऽपि प्रतीत्युपपत्तौ किं रजतस्याऽपि वस्तुत्वग्रहणेन ।
३.संविद्विरोधात्
किञ्चान्याकारोल्लेखि अन्यालम्बनमिति तु संवित्स्वभावविरुध्दं रजताकारोल्लेखिनः रजतविषयकत्वस्यैव दृष्टेः । तस्माद्यद्विज्ञानं यत्प्रतिभासं तदेव तस्यालम्बनमिति संविद्विरोधपरिहारयावश्यमभ्युपेयम् । तत्र रजतज्ञाने शुक्तिरवभासते नवेति वक्तव्यम् । अवभासत इति ब्रुवाणः श्लाघनियप्रज्ञो देवानां प्रियः । यदि संविदि बहुमानवान् नेति ब्रूयात्, तदा कथं तच्छुक्तिकालम्बनं स्यात् । किञ्च रजतमवभासते शुक्तिकाविषयकं चेत् पटाद्यवभासकमपि ज्ञानं घटद्यालम्बनं स्यादित्यतिप्रसङ्गः कथं परिहारणीयः । नन्वेवमत्र रजतज्ञानस्य (अवभाससस्य) रजतविषयकत्वे तेन रजतेन भवितव्यम् । कथं न भवितव्यम् । न हि सम्प्रपन्नसमीचीनरजतस्वीकारेऽपि निमित्तमस्त्यन्यद्रजतावभासात् । न ह्यन्यतररजतप्रतिभासपक्षपाते कारणमस्ति । नास्त्यत्र रजतमित्यपि प्रतिभासोऽस्तीति चेद्रजताभावोऽप्यङ्गीक्रियत एव पुरतः । रजत –रजताभावप्रतीत्योर्विरोधः स्यादिति चेत्, ग्रहणस्मरणात्मकतया तदुपपत्तेः । तदुक्तं नयवीथ्याम्-
- अत्र ब्रूमो य एवार्थो यस्यां संविदि भासते ।
- वेद्यः स एव नान्यध्दि वेद्यं वेद्यस्य लक्षणम् ॥
- इदं रजतमित्यत्र रजतं चावभासते ।
- तदेव तेन वेद्यं स्यात् न च शुक्तिरवेदनात् ॥
- तेनान्यस्यान्यथाभानं प्रतीत्यैव पराहतम् ।
- परस्मिन् भासमानो हि न परं भासते यतः ॥ इत्यादि ॥
४. हेत्वाभावात्
न चान्यथाख्यातिजनने कारणं पश्यामः । न च चक्षुरादिकमेव कारणम् । तेषां समीचीनज्ञानकारणताऽवधारणात् । न खलु जरामरणविध्वंसहेतुर्जातु सुधा जरामरणहेतुरपि भवति । न च न केवलादिन्द्रियादयथार्थज्ञानजन्म । किन्तु दोषसहकृतादिन्द्रियादिति चेत्,न । दोषाः हि कारणानामौत्सर्गिककार्यजननसामर्थ्यं निघ्नन्ति । न तु विपरीतकार्यजननशक्तिमादधाति । न खलु दुष्टं कुटजबीजं वटं जनयति । किं नाम न जनयत्येव कुटजाङ्कुरम् । न च वक्तव्यं दावदहनदग्धानां वेत्रबीजानां कदलीकाण्डजननसामर्थ्यमुपलब्धमिति । पाकेन द्र्व्यान्तरोत्पत्तेस्तेषामबीजत्वात् ।
५. धियामनाश्वासबलात्
किञ्च प्रदर्शिताकारव्यभिचारे प्रत्ययस्य सर्वत्र व्यभिचारशङ्का दुर्वारा स्यात् । तथा च कथं बाह्यार्थापलापं निराकुर्मः । तथाहि-ज्ञानमेव खलु सर्वत्र वस्तुव्यवस्थापकं नान्यत् । तच्चेत् क्वचिद् व्यभिचारि तदा, तत्सर्वत्र शङ्कितव्यभिचारमेव । न च तच्छङ्कापङ्कसङ्क्षालनक्षमं किञ्चिदन्यद्विज्ञानात् । तच्च सकलमपि शङ्काकलङ्कसङ्कोचितप्रभावं न प्रभवतीत्युक्तम् । ततश्च कुतो बाह्यार्थप्रत्याशा । तस्मात् क्वचिदज्ञानस्यार्थव्यभिचारित्वे सर्वत्र तच्छङ्कायाः दुर्वारत्वेन सर्वत्र ज्ञानानां यथार्थ्यमभ्युपेयमिति ।
सर्वं ज्ञानं यथार्थमिति समर्थनम्
[सम्पादयतु]प्रतिक्षिप्तं ज्ञानस्यायाथार्थ्यम् । न तावता याथार्थ्यसिध्दिः । न ह्ययायार्थ्यप्रतिक्षेप एव याथार्थ्यमिति चेत् । उच्यते । इदं रजतमिति हि प्रत्ययः । अत्र द्वे ज्ञाने । इदमिति पुरोवर्तिद्रव्यग्रहणम् । दोषवशात् तद्गतस्य शुक्तित्वसामान्यविशेषस्याग्रहणात् द्रव्यमात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेणा रजतस्मृतिं जनयति । स्मृतिश्च अनुभूतवस्तुविषयीकरणस्वभावाऽपि (गृहीतग्रहणस्वभावाऽपि) दोषवशात् गृहीततत्तांशप्रमोषेण गृहीतिसरुपाऽवतिष्ठते (अनुभवसदृशीत्यर्थः) । यथानुभवः तत्ताऽनुल्लेखी तथा इदं रजतस्मरणमपि । तथा च रजतस्मृतेः पुरोवर्तिग्रहणस्य मिथः स्वरुपतो (ज्ञानेन) विषयतश्च (पदार्थात्) भेदाग्रहात् सन्निहित (समीचीन) रजतज्ञानसारुप्येणेदं रजतमिति भिन्नेऽपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । अत्र पुरोवर्तिद्रव्यज्ञानमनुभव इत्यविवादम् । रजतज्ञानं च न तावदिन्द्रियजम् । इन्द्रियस्य सन्निकृष्टेऽर्थे एव ज्ञान्जननसामर्थ्यात् । नात्र् विप्रक्रुष्टेन रजतेन सन्निकर्षोऽस्ति । अतः परिशेषादिदं स्मरणमेव । किञ्च विपर्ययमङ्गीकुर्वाणेनाऽपि विवेकाग्रहो ग्राह्य एवेति विवेकाग्रहादेव सर्वोपपत्तौ किं विपर्ययकल्पनया ।
नाप्यन्यथाख्यातौ प्रमाणमस्ति । नेदमिति विवेकज्ञानस्य भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधेनैव बाधकत्वमुपपद्यते । विवेकज्ञानस्य बाधकत्वोपपत्तौ अगृहीतविवेकस्य ज्ञानद्वयस्य भ्रान्तित्वमपि लोकसिध्दं सिध्दम् । तथा च प्रयोगः – विगीतप्रत्ययो यथार्थः प्रत्ययत्वात् सम्प्रैतिपन्नवत् इत्यादि । तस्मात् सर्वथाऽन्यथाख्यातेरुपपादयितुमशक्यत्वात् अख्यातिपक्ष एव श्रेयानिति ।
प्राभाकरमतनिरासः
[सम्पादयतु]अत्रोच्यते । अन्यदन्यात्मना विषयीकुर्वत् ज्ञानमन्यथाख्यातिरित्यङ्गीक्रियते । तथा हि – इन्द्रियदोषेण शुक्तिरेवात्यन्तासद्रजतात्मना अवगाहते । न च करणदोषस्य कारणत्वे करणसम्बन्धिनस्तस्य कथं शुक्तिकापरिणामहेतुत्वमिति वाच्यम् । परिणामपक्षानङ्गीकारात् । शुक्तौ रजते च चाकचक्यतारुपसमानधर्मसद्भावात् शुक्तिं दृष्टवतः इन्द्रियदोषेण तत्र सादृश्याद् भवति रजतप्रतीतिः । असादृश्यादेव् न च भवति रज्जुप्रतीतिः । असतो न प्रतीतिरिति चेत्, कथं तर्हि असद्वैलक्षण्यं परः प्रतीयात् । वैलक्षण्यज्ञानं प्रति प्रतियोगिभूतासतः विज्ञानस्यावर्जनीयत्वात् । तस्मादसदपि प्रतीयत इति वाच्यमेव । तथा च शुक्तिरेवात्यन्तासद्रजतात्मनाऽवगाहत इत्युक्तं युक्तमेव ।
ननु कथं तर्हि रजतज्ञानं शुक्तिविषयकं भवितुमर्हति । ज्ञानस्यान्यालम्बत्वे पटज्ञानं घटविषयकं कुतो न स्यात् । कथं च तदाऽनाश्वासप्रसङ्गः परिहरणीय इति चेत्, उच्यते । यत्सन्निकृष्टकरणेन यदज्ञानं जन्यते स तस्य विषय इति विषयत्वपरिष्कारः । तत्र समीचीनज्ञानस्थले रजतसन्निकृष्टचक्षुषा चायमानम् ‘इदं रजतम्’ इति ज्ञानं रजतविषयकमेव । भ्रमस्थले तुशुक्तिविषयकम् । न चाव्यवस्था । इन्द्रियदोषस्य नियामकस्योक्तत्वात् ।
किञ्च विषयत्वं रजतस्यापि नास्माकं भ्रमस्थलेऽसम्प्रतिपन्नम् । तथा हि- तत्र यत्सन्निकृष्टकरणेन इत्याद्युक्तविषयत्वाभावेऽपि व्यावर्तकत्वरुपविषयत्वस्य विद्यमानत्वात् । रजतं तत्र तिष्ठतु मा वा रजतज्ञानं रजतेतराद् व्यावृत्तिधीं जनयतीति सर्वसम्प्रतिमन्नम् । तथा च रजतस्य यत्सन्निकृष्टेत्याद्युक्तविषयत्वाभावेऽपि व्यावर्तकत्वरुपविषयत्वसद्भावात् रजतज्ञानस्य रजतविषयकत्वमप्युपपद्यत एव ।
न च विपर्ययजनने कारणाभावः । इन्द्रियादेरेव तद्भेतुत्वात् । समीचीनज्ञानजनकस्य इन्द्रियादेः दोषकलुषितत्वदशायां विभ्रमजनकत्वोपपत्तेः । दृष्टं हि यथा अरोगनिदानस्यान्नस्य विषलेशसंयुक्तस्य रोगनिदानत्वं, मृतिहेतोर्विषस्य जीवनदोषधीविशेषसंयुक्तस्य प्राणकारणत्वं तथेहापि दुष्टसहकारिविशेषसमवहितस्य इन्द्रियस्य विपरीतज्ञानोत्पादकत्वं नाप्रमाणकम् । ए तेनैव धियामनाश्वासभयोऽपि दूरोत्सारितो वेदितव्यः । नियतयथार्थः खलु साक्षी चैतन्यरुपः ज्ञानं तद्याथार्थ्यं च स्वयमेव गृह्णातीति अस्माकं सिध्दान्तः । एवञ्च अनाश्वासनिरसनोपायसद्भावात् मानसेऽर्थे संशयविपर्ययजननेऽपि साक्षिगृहीतेऽर्थे सुखादिषु संशयाद्यननुभवाच्च युक्त एव उक्तोऽर्थः । तस्मात् अन्यथास्वरुपमवश्यमभ्युपेयम् इति स्थितम् ।