न्यायामृतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


न्यायामृतमिदं तावत् व्यासतीर्थस्य कृतिः। अद्वैतविमर्शात्मकायाः अस्याः कृतेः प्रसिद्धिः एतस्याः वैशिष्ट्यं द्योतयति। व्यासत्रयमेव प्रसिद्धं द्वैतदर्शने न्यायामृतं,तर्कताण्डवं चन्द्रिका चेति। श्रीमध्वः कल्पवृक्षश्च जयाया कामधुक् स्मृतः। चिन्तामणिस्तु व्यासार्यः मुनित्रतमुदाहृतम्॥ इति वाक्येनैव ज्ञायते व्यासतीर्थस्य वैशिष्ट्यम्।द्वैतवाङ्मये मध्वाचार्यः कल्पवृक्षश्चेत् जयतीर्थमुनिः कामधेनुः ,व्यासतीर्थः चिन्तामणिः इति वर्णितमस्ति।मैसूरुप्रान्तीयः एषः ब्रह्मण्यतीर्थेन सन्यासदीक्षां स्वीकृत्य कञ्चीनगरे न्याय-व्याकरण-मीमांसादिशास्त्रा अधीत्य,मुळुबागिलु मध्ये वेदान्ताययनं कुर्वन्ति।वादितिमिरमार्ताण्डह् इति प्रसिद्धः एषः कृष्णदेवरायस्य संस्थाने राजगुरुः आसीत्। न्यायामृतं तावत् अद्वैतदर्शनस्य विमर्शात्मकः ग्रंथः।अस्मिन् ग्रंथे शंकराचार्यस्य शिष्यं पद्मपादाचार्यमारभ्य चित्सुखकारपर्यन्तं सर्वेषां ग्रन्थानां विमर्शः कृतः।अस्मिन् ग्रन्थे चत्वारः परिच्छेदाः सन्ति। ते च

परिच्छेदः प्रकरणम् विषयः
प्रथमः ७७ मिथ्यासाधकानुमान-शृतिविमर्शः
द्वितीयः ३३ अखण्डार्थवादः
तृतीयः श्रवणमननादुसाधनं
चतुर्थः मोक्षस्वरूपं

न्यायामृतस्य वैशिष्ट्यम्[सम्पादयतु]

न्यायामृतस्य वैशिष्ट्यं स्वयं व्यासतीर्थेनैव निरूपितमस्ति। ते च

  • विक्षिप्तसङ्ग्रहः
  • उक्तस्य उपपादनम्
  • अनुक्तकथनम्

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=न्यायामृतम्&oldid=409378" इत्यस्माद् पुनः प्राप्तिः