न्हानालाल
न्हानालाल | |
---|---|
कविवरः न्हानालाल | |
जन्मस्थानम् | कर्णावतीनगरम् गुजरातराज्यम् |
जन्म | १६-३-१८७७ |
मृत्युः | ९-१-१९४६ |
न्हानालाल गुजरातीभाषायाम् 'अछान्दस'काव्यस्य जनकः । न्हानालाल प्रख्यातः गुजरातीसाहित्यकारः आसीत् । ‘गुजरातस्य महाकविः’ इति तस्य नामान्तरम् । सः फारसीभाषाम् अपि जानाति स्म । सः गान्धीप्रेरितायाम् असहायक्रान्तौ राष्ट्रभक्त्या सह शासकीयां वृत्तिं तत्याज ।
जन्म परिचयश्च
[सम्पादयतु]न्हानालालकवेः जन्म १६-३-१८७७ तमे वर्षे कर्णावतीनगरेऽभूत् । न्हानालालकवेः पिता दलपतरामः डाह्याभाई त्रिवेदी (नर्मदयुगस्य महान् कविः) आसीत् । कविः यदा एकादशवर्षीयः आसीत् तदा एव तस्य मातुः निधनम् अभवत् । न्हानालालः मोरबीनगरे प्रधानाचार्यस्य काशीराम-देववर्यस्य गृहे गतवान् । १८८३ तमं वर्षं तस्य कृते परिवर्तनवर्षम् अभवत् । सः मुम्बई नगरस्य त्रिषु महाविद्यालयेषु तत्त्वज्ञानस्य शिक्षणं प्राप्त स्नातकः अनुस्नातकश्च अभूत् । अभ्यासेन तस्य साहित्यपुष्टिः अभवत् । अभ्यासक्रमस्य फारसीभाषा कालानन्तरं यवननाटकानां सर्जने उपयुक्ता अभवत् । 'टेनिसन' तस्य स्नेहविवाह-स्त्री-पुरुष-सम्बन्धविषयकभावनां, 'मार्टिनः' च धर्मभावनां पुपोष । तस्य समग्रे सर्जने कवित्व-इतिहास-तत्त्वज्ञानानां सङ्गमः दृश्यते । तत् विश्वविद्यालयीयं शिक्षणम् अवलम्बते । तस्य भक्तिः, धर्मदृष्टिः, शुभभावना इत्यादिषु स्वामिनारायणस्य संस्कारस्य छाया दृश्यते । बहुषु महाविद्यालयेषु सेवां कुत्वा सः राजकोटस्य न्यायाधीशस्य पदमपि अलञ्चकार । जलियावाला-उद्यानस्य हत्याकाण्डेन उद्भूतेन मन्युना सः १९२० तमे वर्षे दीर्धम् अवकाशं स्वीकृत्य, अन्ते १९२१ तमे वर्षे शासकीयां वृत्तिम् अत्यजत् । ततः प्रारभ्य सः कर्णावत्यां निवासं चकार । अत्र सः स्वमानेन जीवितुं राजनीतेः दूरे स्थित्वा लेखैः सरस्वत्याः सेवां कृतवान् । राजकोटनगरे कवेः जीवनम् उल्लासमयम् आसीत् । कर्णावत्यां तत् तपस्यामयम् अभवत् । तस्य अवसानं ९-१-१९४६ तमे वर्षे कर्णावत्यामेवाभूत् ।
कृतयः
[सम्पादयतु]- पधनि - न्हाना न्हाना रास (१-२-३), चित्रदर्शनानि, प्रेमभक्तः, भजानावलिः
- नाट्य-काव्यम् - जया अने जयन्त, इन्दुकुमार, विश्वगीता, शाहेनशाह अकबर, जहांगीर-नूरजहान, मिथ्याभिमानी
- चरित्रम्-कवीश्वरः दलपतरामः
- अन्याः वसन्तोत्सव, हरिसंहिता महाकाव्यम्, साहित्यमन्थन, कुरुक्षेत्र ।
प्रदानम्
[सम्पादयतु]- १. बालकाव्यानि
- २. भक्तिगीतानि
- ३. प्रसङ्गकाव्यानि
- ४. महाकाव्यानि
- ५. नाटकम्
- ६. कथाः
- ७. नवलकथा
- ८. चरित्रम्
- ९. अनुवादः
- १०. कथाकाव्यानि