न तु मां शक्यसे द्रष्टुम्...
पठन सेटिंग्स
(न तु मां शक्यसे - 11.8 इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
- दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टमः(८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]न तु मां शक्यसे द्रष्टुम् अनेन एव स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ८ ॥
अन्वयः
[सम्पादयतु]अनेन स्वचक्षुषा एव मां द्रष्टुं न शक्यसे । ते दिव्यं चक्षुः ददामि । ऐश्वरं मे योगं पश्य ।
शब्दार्थः
[सम्पादयतु]- अनेन = एतेन
- स्वचक्षुषा एव = स्वनेत्रेण एव
- मां द्रष्टुम् = माम् अवलोकितुम्
- न तु शक्यसे = न समर्थः भवसि
- ते = तुभ्यम्
- दिव्यम् = अलौकिकम्
- चक्षुः = नेत्रम्
- ददामि = यच्छामि
- ऐश्वरम् = ईश्वरसम्बन्धि
- मे योगम् = मम सामर्थ्यम्
- पश्य = अवलोकय ।
अर्थः
[सम्पादयतु]एतेन नेत्रेण एव मां द्र्ष्टुं त्वं समर्थः न भवसि । अतः तुभ्यम् अलौकिकं नेत्रं यच्छामि येन ईश्वरस्य मम असाधारणं सामर्थ्यं पश्य ।