पचमढी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पचमढ़ी

पचमढ़ी
गिरिधाम
पचमढी उपत्यका
पचमढी उपत्यका
देशः भारतम्
राज्यम् मध्यप्रदेशः
मण्डलम् होशङ्गाबाद्
Elevation
१,१०० m
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)
पिन्
461881
Telephone code 917578
Vehicle registration MP-05
समीपनगरम् पिपरिया

गिरिकन्यायाः मरकताभरणम् (verdant Jewel of the hills) इति पचमढी गिरिधाम प्रसिद्धम् अस्ति ।पचमढी इत्यस्य लघुप्रकोष्ठः अथवा लघुगृहमित्यर्थः अस्ति । महाभारतानुसारं पाण्डवाः अत्र किञ्चित्कालं वास कृतवन्तः । मध्यप्रदेशस्य होशङ्गबादमण्डले पौराणिकतया ऐतिहासिकतया च प्रसिद्धं क्षेत्रमिदम् । क्रिस्ताब्दे १८५७ तमे वर्षे स्वतन्त्रतासङ्ग्रामे आङ्गलानां विरुद्धं पचमढीगोण्ड-आदिवासिजनाः आन्दोलनं कृतवन्तः । तदा अनेके जनाः अत्र हुतात्मानः अभवन् । अत्र गुहासु आदिवासिभिः लिखितानि चित्राणि सन्ति । पचमढीगुहाविषये क्याप्तन् ए फोर्सेत् महोदयः संशोधनं कृतवान् । क्रिस्ताब्दे १८६२ तमे वर्षेः एषः अत्र आगतवान् आसीत् । स्वानुभवं Highalands of central India पुस्तके लिखितवानस्ति । एतत्स्थानम् अतीव सुन्दरम् अस्ति । राष्ट्रगीते रवीन्द्रनाथ ठाकुरः यथा वर्णितवान् अस्ति तथा सुजला सुफला मलयजशीतला सस्यश्यामला इत्यादिगुणैः युक्ता भूमिः अत्र अस्ति । गुहाः प्रपाताः, शिलापर्वताः, घट्टप्रदेशाः, पर्वतशिखराणि दरिकन्दराः च अत्र सन्ति । धूमगढ इति स्थानं सागरस्तरतः ४४२५ पादमितोन्नते स्थानेऽस्ति । इतः सूर्यास्तोदयदर्शनम् अतीव आनन्दाय भवति । पुराणनुसारं जटाशङ्कर-भस्मासुरमोहिनी कथा सम्बद्धं स्थलमेतत् । अत्र एचेल् फाल्स् एक प्रमुखाकर्षणम् अस्ति । दिने अतीव सुन्दरमेतत् रात्रौ पीतरक्तवालुकाशिलाभिः प्रतिफलितेन प्रकाशेन विविधवर्णान् प्रतिफलत् अतीव सुन्दरं दृश्यते । अत्र सप्तकि.मी. वाहनमार्गः निर्मितः अस्ति । तत्र पादचारणं तरणं पर्वतारोहणम् इत्यादिकार्याणि कर्तुं व्यवस्था अस्ति । अत्र तरणप्रियाणाम् अतीवानन्दः भवति ।

धूमशकटमार्गः[सम्पादयतु]

मुम्बयी-हौराधूमशकटमार्गे इटार्सीनिस्थानतः ६७ कि.मी । समीपस्थं निस्थानं पिपरिया

वाहनमार्गः[सम्पादयतु]

होशङ्गाबाद्नागपुरपिपरियाछिन्दवाडाभोपालनगराणि सामान्यतः ५५ कि.मी दूरे सन्ति। एतेभ्यः नगरेभ्यः उत्तमा वाहानव्यवस्था अस्ति ।

वसतिः[सम्पादयतु]

सात्पूराफारेस्ट् लाड्ज्, हालिडे होम्स् इत्यादीनि सन्ति ।

कालः[सम्पादयतु]

अक्टोबरमासतः जूनमासपर्यन्तं दर्शनाय उत्तमः कालः ।

"https://sa.wikipedia.org/w/index.php?title=पचमढी&oldid=403417" इत्यस्माद् प्रतिप्राप्तम्