पञ्चगणी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


पञ्चघनी –पर्वतसमूहदृश्यवैभवम् पुणेतः महाबलेश्वरगमनसमये १९ कि.मी दूरे एतत् अस्ति । पञ्चपर्वतानां समूहदर्शनम् अत्र कर्तुं शक्यम् । अत्र तरुवृक्षाः अपि विशिष्टाः सन्ति । हिन्दीभाषायाः चलनचित्राणां चित्रीकरणं सदा अत्र भवति । सागरस्तरतः १३३४ मीटर् उन्नतप्रदेशात् कोङ्कणसमुद्रतीरदर्शनम् अत्यन्तं सुन्दरं भवति । वनसौन्दर्यं, पर्वतशिखराणि, प्रकृतिवैभवं च अत्र दर्शनीयम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=पञ्चगणी&oldid=390215" इत्यस्माद् पुनः प्राप्तिः