पत्नी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पत्नी

जनी-जाया –भार्या –दारा –वधू- पत्नीत्यादिषु पर्यायवाचिशब्देषु पत्नीशब्दस्य व्यवहारो न भवति । पत्या साकं यज्ञकर्मणि या सहधर्मिणी भागं गृह्णाति सैव पत्नीशब्दवाच्या भवति । यज्ञसाधनत्वात् फलग्रहीतृत्वाद्वा यस्याः यज्ञसंयोगो भवति सा पत्नी इत्युच्यते । पाणिनिसमये यज् जातेः यज्ञाधिकारः नासीत् तेषां भार्यायै पत्नीशब्दस्य व्यावहारो नैव कृतः आसीत् । किन्तु पतञ्जलिसमये एतादृशी स्थितिः नासीत् । भार्यायाः सामान्यबोधकः शब्दः पत्नी आसीत् । सर्वासां कृते पत्नीशब्दस्य व्यवहारः प्रचलित आसीत् । अतएव पतञ्जलिना उक्तम् – पत्युर्नो यज्ञसंयोगे यज्ञसंयोग इत्युच्यते तत्रेदं न सिध्दयति । इयमस्य पत्नी । अथ तर्हि स्यात् ? पत्नीसंयाज इति यत्र यज्ञसंयोगः – एवमपि तुषजकस्य पत्नीति न सिध्द्यति । उपमानात् सिध्दम् । पत्नीव पत्नी । ( ४/१/३३)

अस्यायमाशयो यत् त्रैवर्णिकानामेव सभार्याणां यज्ञेऽधिकारो न शूद्रस्य । अग्निसाक्षिपूर्वकपाणिग्रहण- निमित्तसादृश्यात् शूद्रस्य पत्नी इति प्रयोगः सिध्द्यति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पत्नी&oldid=409383" इत्यस्माद् प्रतिप्राप्तम्