परशुरामेश्वरमन्दिरम्
परशुरामेश्वरमन्दिरम् ओडिशाप्रदेशस्य भुवनेश्वरनगरे स्थितं हिन्दुमन्दिरं, यत् ओडिशाप्रदेशस्य प्राचीनतममन्दिरेषु अन्यतमम् अस्ति । इदं सर्वोत्तमसंरक्षितेषु पुरातनोत्कलमन्दिरेषु च अन्यतमम् अस्ति, क्रि.श. ७ शताब्द्याः ८ शताब्द्योर्मध्ये शिलायुगे अभवत् । एतत् मन्दिरं भगवते शिवाय समर्पितम् अस्ति । एतत् नगरशैलीनां मन्दिरं क्रि.श. ६५० तमे वर्षे निर्मितम् अस्ति। इदं च मन्दिरम् १० शताब्द्याः पूर्वम् ओडिशाप्रदेशस्य मन्दिराणां सर्वैः लक्षणैः युक्तम् अस्ति ।
परशुरामेश्वरमन्दिरे विमानगर्भगृहं अतिरिक्तस्थानं विद्यते । अस्मिन् मन्दिरे जगमोहन: इति विशेषः भागः अस्ति, यः पूर्वमन्दिरेषु नासीत् । शैवमन्दिरत्वेऽपि प्रायः शाक्तदेवानां बह्व्यः प्रतिमाः दृश्यन्ते । भुवनेश्वरस्य एतत् प्रथमं मन्दिरं यत्र सप्तमातृकाणां प्रतिमाः सन्ति | एतत् मन्दिरं भारतस्य पुरातत्त्वविभागेन रक्षितम् अस्ति । जून-जुलाई मासेषु महत्त्वपूर्णोत्सव: आचरितः परशुरामाष्टमी अस्मिन् मन्दिरे समायोज्यते । इदं प्रमुखपर्यटनस्थलम् इति मन्यते ।
इतिहासः
[सम्पादयतु]इदं परशुरामेश्वरमन्दिरं प्राचीनतममन्दिरेषु अन्यतमम् विराजमानमस्ति । [१] केषाञ्चन इतिहासकाराणाम् अनुसारेण शतघनेश्वर-भारतेश्वर-लक्ष्मणेश्वर-मन्दिरस्य निर्माणानन्तरं ८ शताब्द्याः प्रथमार्धे अस्य निर्माणम् अभवत् । इतिहासज्ञेन कृष्णचन्द्रपाणिग्राही इत्यनेन क्रि.श. ६५० मन्दिरनिर्माणकालः इति कथ्यते । फर्गुसनस्य मतानुसरेण एतत् ५०० तमे वर्षे निर्मितम् अस्ति । अधिकांशः शोधकर्तारः अस्य ७ शताब्द्याः मध्यभागे इति वदन्ति ।
एतत् मन्दिरं शैलोत्भवद्वारा निर्मितम् । एतत् कुटुम्बं शैववंशीयाः च आसीत्, यथा ते शाक्तोपासनामपि कुर्वन्ति, अस्मिन् मन्दिरे अनेकानि शाक्तमूर्तयः दृश्यन्ते । १९०३ तमे वर्षे अस्य पुनर्निर्माणं कृतम् । मूलरूपं समानं कृत्वा केवलं छदस्य, परिवर्तनं कृतम् । पूर्वतटे स्थित्वा अन्येषां मन्दिराणां इव १२-१३ शताब्द्योर्मध्ये मुस्लिम-आक्रमणानां प्रभावः अत्र न अभवत् । अधुना भारतस्य पुरातत्त्वविभागेन अस्य परिपालनं क्रियते ।
संरचना:
[सम्पादयतु]उत्कलीयमन्दिराणां द्वौ भागौ स्तः; विमानगर्भगृहं जगमोहनं च यस्मात् भक्ताः विग्रहस्य दर्शनं कुर्वन्ति। अयं जगमोहनविग्रह: प्रथमवारं परशुरामेश्वरमन्दिरे निर्मितः इति दृश्यते । पूर्वमन्दिरेषु जगमोहनः न दृश्यते । तथा च अग्रिमे मन्दिरे नाट्यमण्डप: तथा भोगमण्डपः इत्यादयौ द्वावपि भागौ स्तः।
आधारः
[सम्पादयतु]- ↑ उद्धरणे दोषः : अमान्या
<ref>
शृङ्खला;temple
इत्यस्य आधारः अज्ञातः