पर्यावरण-संरक्षणम्
सम्प्रति पर्यावरणं पूर्णम् असन्तुलितं जातमस्ति । अस्य संरक्षणम् आवश्यकमस्ति । परं किम् एकवारं यदि पर्यावरणं सुरक्षितं भविष्यति तर्हि सर्वाषां पर्यावरण-समस्यानां समाधानं भविष्यति इति चेन्न । भवन्तः पर्यावरणसमस्येति प्रकरणे पठितवन्तः यत् सर्वप्रमुखा समस्या अस्ति सामाजिकी,नैतिकी, प्राकृतिकी, जनसंख्या च । समस्याः एताः तदैव समधिगताः भविष्यन्ति यदा निरन्तर-प्रयासः भविष्यति । अतः आवश्यकं भवति यत् पर्यावरणस्य शिक्षा सर्वेभ्यः सामाजिकेभ्यः बाल- युवा-वृध्देभ्यश्च दातव्या । अस्याः शिक्षायाः प्रसारः विविधेषु अभिकरणेषु एव आधारितः अस्ति । अतः अत्र तेषामभिकारणानां विषये चिन्तितं वर्तते ।
बालेभ्यः
[सम्पादयतु]गृहस्य भूमिका – बालकानां प्रारम्भिकी शिक्षा गृहेषु एव भवति । अपि च पितरौ एव तान् पाठयतः । अर्थात् एवमपि कथयितुं शक्यते यत् गृहे निवस्यमानाः सर्वे ज्येष्ठाः बालकानामध्यापकाः भवन्ति । ज्येष्ठानां व्यवहारः एव तेभ्यः पाठ्यक्रमः भवति । आदर्शव्यवहार-संहितायाः निर्माणं गृहे एव भवति । उदाहरणं तु गृहेषु द्र्ष्टुं शक्यते यत् सभ्य-शिक्षितपरिवाराणां बालकाः सदाचरणं कुर्वन्ति तथा निम्नपरिवाराणां बालकाः एतन्न कुर्वन्ति । गृहे यदि ज्येष्ठाः पर्यावरणं न प्रदूषयन्ति तर्हि तेषां कनिष्ठाः अपि तथा न कुर्वन्ति । अर्थात् यदि गृहे ज्येष्ठाः पर्यावरणप्रदूषणनियन्त्रणाय एव सर्वाणि कार्याणि कुर्वन्ति, यथा –संसाधनानां समुचितः उपयोगः, जल –भू-वायु-ध्वनीनां वा प्रदूषणनियन्त्रणं तर्हि बालकः तथा एव करिष्यन्ति । अतः पर्यावरण- संरक्षणं तदैव सुनिश्चितं भविष्यति यदा गृहे स्थिताः जनाः पर्यावरण- संरक्षणे तत्पराः भविष्यन्ति, प्रारम्भतः एव वालकेभ्यः पर्यावरणस्य, प्रदूषणस्य, नियन्त्रणस्य ज्ञानं प्रदास्यन्ति । अतः गृहं भवति मुख्यमभिकरणं येनपर्यावरणं संरक्षितं भविष्यति ।
विद्यालयेभ्यः
[सम्पादयतु]महाविद्यालयानां भूमिका –गृहात्परं बालकेभ्यः पर्यावरण ज्ञानस्य कौशलस्य, मूल्यस्य, अभिवृत्तेश्च शिक्षा विद्यालयेषु महाविद्यालयेषु एव प्रदीयते अत्राध्यापकाः छात्रेभ्यः सर्वविध-ज्ञानं प्रदाय पर्यावरणं प्रति रुच्युत्पादनं कुर्वन्ति । परमेतदर्थमावश्यकमस्ति यत् ते अध्यापकाः पर्यावरणस्य, प्रदूषणस्य, प्रदूषणनियन्त्रणस्य च विषये पण्डिताः स्युः । अस्याः शिक्षायाः उपयोगः ते सर्वासु उपलब्धेषु परिस्थितिषु कुर्युः । प्रत्यक्षाप्रत्यक्षरुपेण च इदं ज्ञानं प्रयच्छेयुः । यदि अध्यापकाः कुशलिनः सन्ति, योग्याः सन्ति, प्रबुद्धाः सन्ति, पर्यावरणवेत्तारः सन्ति, प्रबोधकाः सन्ति तर्हि पर्यावरण संरक्षणे विद्यालयस्य भूमिका वर्धिता भविष्यति ।
सामाजिकसंस्थानां भूमिका – सर्वेषु स्तरेषु जनाः गृहात् विद्यालयात् वा परं स्वकीयं समयं समाजे पारस्परिकसम्बन्धनिर्माणाय ददति, भवतु ते छात्राः ग्रामिणश्च । यथा ते क्रीडाक्षेत्रं, मनोरञ्जनस्थलं, सभास्थलं, मन्दिरं, धर्मस्थलम् आपणमित्यादीनि स्थलानि तु गच्छन्ति एव । तत्र गत्वा विभिन्नेषु सामाजिककार्यक्रमेषु भागमपि गृह्णन्ति । तत्र काश्चनः पर्यावरणसम्बन्धिताः परिस्थितयः अपि आगच्छन्ति एव । ताषां परिस्थितिनां समाधानं ते स्व-विवेकेन वयस्कानां सहयोगेन च कुर्वन्ति । फलतः अनया प्रक्रियया ते पर्यावरणस्य, पर्यावरण समस्यानां, ताषां समाधानानां च ज्ञानमर्जयन्ति । अपि च प्राप्त पर्यावरणविषयकज्ञानस्य कथमुपयोगः भवति इति प्रायोगिकं ज्ञानं ते प्राप्नुवन्ति । यथा- जलानां समुचितोमुपयोगः, ग्राम्यस्वच्छता इत्यादयः ।
अन्येभ्यः
[सम्पादयतु]- सञ्चारमाध्यमस्य भूमिका –सर्वविधकार्यक्रमाणां प्रचारकः भवति सञ्चारमाध्यमः । अनेन अशिक्षिताः, शिक्षिताः, छात्राः कर्मचारिणः, अधिकारिणश्च पर्यावरणसम्बधितं ज्ञानं प्राप्नुवन्ति । सञ्चारस्य साधनानि भवन्ति, समाचारपत्रं, पत्र –पत्रिकाः, आकाशवाणी, दूरदर्शनं, वार्ता, भाषणानि, चलचित्रं च । सेवाकालिकस्य प्रशिक्षणस्य कृते संचारसाधनानि महत्वपूर्णानि भवन्ति ।
- शोधसंस्थानां भूमिका-पर्यावरणस्य क्षेत्रे उपलब्धानामेकत्रितानां वा सामग्रीणां जनेभ्यः वितरणेमवशोधसंस्थायाः दायित्वं न भवति अपितु स्वदेशस्य स्थित्यनुसारेण पर्यावरणस्य विशिष्टज्ञानानामन्वेषणं, समस्यामधीत्य समाधानान्वेषणं तथा तस्य प्रसारणं चास्याः संस्थायाः दायित्वं भवति । अतः राष्ट्रियस्तरे, प्रान्तीयस्तरे, क्षेत्रीयस्तरे च शोधस्यावश्यकता वर्तते । सोधसंस्थायाः दायित्वं भवति यत् सा क्षेत्रेऽस्मिन् शोधकार्यं कारयेत् ।
- विभिन्नानां विशिष्टसंस्थानां भूमिका- समग्रे विश्वे काश्चन एवं विधाः संस्थाः सन्ति याः पर्यावरणं शिक्षां च प्राणैक शरीरद्वयं मत्वा कार्यं कुर्वन्ति । इमाः पर्यावरणस्य विविधाङ्गानां ज्ञानप्रदानस्य नूतनसूचना- प्रदानस्य च कार्यं कुर्वन्ति । आभिः संस्थाभिः जनाः विविधपर्यावरण-समस्यानां समाधानानाञ्च ज्ञानं प्राप्नुवन्ति ।