पवनमुक्तासनम्
दिखावट
पवनमुक्तासनं योगासनस्य एकम् आसनमस्ति ।
आसनकरणविधिः
[सम्पादयतु]- पृष्ठमवलम्व्य भूमौ शयनं करोतु ।
- हस्तद्वयं शरीरमुभयतः भूमौ स्थापयतु ।
- एकं जानु पुटीकृत्य हस्तद्वयेन दृढं गृह्णातु ।
- पूरकेण वक्षस्स्थलं प्रति जानु आकर्षतु ।
- मस्तकम् अल्पमुत्थाप्य नासाग्रं स्पृशतु ।
- अपरपादं ऋजुतया भूमौ स्थापयतु ।
- पञ्चनिमेषान् तस्यामवस्थायां तिष्ठतु ।
- शनैः शनैः रेचकेण पादम् ऋजुकृत्य भूमौ स्थापयतु ।
- निमेषमेकं विश्रम्य अपरजानु पूर्ववत् करोतु ।
- ततः परं जानुद्वयमेकस्मिन् समये वक्षस्स्थलं प्रति आकर्षतु ।
- पुनः भूमौ पादद्वयं स्थापयतु ।
लाभः
[सम्पादयतु]- यकृतः पाकस्थल्याः च उपरि अस्य आसनस्य प्रभावः सम्यक् भवति ।
- आसनमिदम् उदरस्य दोषयुक्तवायुं नाशयति ।
- अम्लदोषं विनाश्य कटिग्रन्थिं मृदु करोति ।
- कोष्ठकाठिन्यं , पाकस्थलीरोगाः च नश्यन्ति ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- "Pavanamuktasana / The Wind-Releasing Pose / Yoga Poses / A2ZYoga.com". आह्रियत 2011-04-11.