पशुपक्षियुद्धक्रीडा
पशुपक्षियुद्धक्रीडा मनोरञ्जनक्रीडा वर्तते । पुरा मेलासु तथा राजहर्म्येषु मनोरञ्जनाय पशूनां पक्षिणां च परस्परं युद्धक्रीडाः क्रियन्ते स्म कार्यन्ते स्म च । एतेषु सजातीयास्तथा परस्परं विरोधिनः पशुपक्षिणः प्रशिक्षणपूर्वकं सज्जयित्वा समुचिते काले प्रदर्शनरूपेण योद्ध्यन्ते स्म । पशुषु नकुलाः, वृषभाः, पक्षिषु तित्तिराः, कुक्कटाश्चाद्यापि योद्ध्यन्ते । एवमेव अन्येषामपि युद्धक्रीडाः प्रदेशविशेषेषु समायोज्यन्ते । परम् एतद्विषये प्रशिक्षणव्यवस्था युद्धनियमादिविषये विशिष्य ध्यानं नादीयत ।
पशुभिः सह युद्धक्रीडा
[सम्पादयतु]मानवस्य प्रारम्भिक-जीवनयात्राऽतीव सङ्घर्षपूर्णाऽवर्तत । वन्य-जीवने तेन वन्यैः प्राणिभिः सह सोहार्दं प्राप्य यज्ज्ञातं तत्परिष्कृत्य बुद्धिवैभवेन विशद्य च स्वीये जीवनेऽप्यवतारितम् एतेन सहैव क्रूरैर्हिस्त्रैः पशुभिः सह तेन सङ्घर्षोऽपि विहितः । स एव सङ्घर्षः साम्प्रतं क्रीडायां परिवर्तितः । सिंहेन, ऋक्षेण, वृषभेन, महिषेण च युद्ध-क्रीडा बलवतः पुरुषस्य शौर्यगाथां व्यनक्ति । बलप्रदर्शनाय विधीयमाना इमाः क्रीडा विश्वस्य बहुषु देशेषु प्रवर्तिताः सन्ति ।
१ सिंहयुद्धक्रीडा
[सम्पादयतु]इयं क्रीडा ‘यिजीन सैण्डो’ नामकेन-यस्याभिधानं ‘फ्रेडरिक विलियम्स युजीन सैण्डो’ अस्ति -वर्तमानयुगे विहिता । १८६७ तमे ई० वर्षे शार्मण्यदेशे समुत्पन्ने नानेन-अमेरिकायां भीषणेन सिंहेन सह युद्धप्रदर्शनम् आचरितम् अभूत् । सिंहस्य ह्स्तयोः चर्मणः प्रच्छदौ मुखे च दृढां जालिकां बदध्वा ५३० पौण्डमितेन सिंहेन युद्धमिदम् अक्रियत । भारते तु बालः भरतः बाल्ये एव सिंहेन सह क्रीडति स्म इति प्रसिद्धमेव ।
२ वृषभयुद्धक्रीडा (Bull Fighting)
[सम्पादयतु]स्पेन्-इस्पहानि -अमेरिका-भारतादिषु क्रीडा इयम् अद्यापि प्रचलति । शारीरिकस्य बाह्वोश्च बलप्रदर्शनम् एव अस्य उद्देश्यमस्ति । स्पेनादिदेशेषु वृषभेण सह योद्धारो ‘मातादोर’ (मैटाडोर) तथा वृषभसङ्घर्षः ‘तारोमाकी’ इति गद्येते । तत्रेयं ‘राष्ट्रिया क्रीडा’ विद्यते । उत्तराफ्रीकाया मूरयोद्धार एनां स्व्यकुर्वन् । मूरा आगता गताश्च । परं तारोमाकी स्पेनदेशे प्रवर्तत एव । सप्तदश्यां शताब्द्यां सामन्ता इमां क्रीडां व्यावसायिक-क्रीडकेभ्यो दत्त्वा स्वयं संरक्षका अभवन् । तेष्वेव वर्षेषु फ्रान्सवासिनो ‘रोमेरो’ जनाः तारोमाकी क्रीडायां प्रसिद्धिंप्रापन । स्पेनादिदेशानां सर्वेषु महानगरेषु वृषभ-सङ्घर्षाय विशिष्टानि क्रीडाङ्गणानि निर्मितानि सन्ति, यानि ‘प्लाजाद् तारो’-‘वृषभमल्लक्षेत्र’नाम्ना सम्बोधयन्ति । स्पेनस्य राजधान्यां ‘मेड्रिड’ नगरे ईदृशं ‘प्लाजा’स्थानं सर्वतो विशालं वर्तते ।
क्रूराणां हठिनां बलिनां वृषभाणां संवर्धनकेन्द्रं ‘वसद्’ इति कथ्यते । कष्टसाध्य -प्रशिक्षणानन्तरं कार्यक्रमा आयोज्यन्ते । कार्यक्रमं ‘कोरिन्दा’ इति गदन्ति । अस्यां क्रीडायां चतुर्विधाः क्रीडका भागं गृह्णन्ति
- (१) एस्पादा (खडग धराः), यान् ‘मातादोर’वृषहन्तार इत्यपि कथयन्ति ।
- (२) बोदेरिलो (बर्छी लघुभल्लक-धराः)
- (३) पिकादोर (कुद्दालधरा अश्चारोहिणः) तथा
- (४) चुलो (सहायकाः) अश्चतर (खच्चर) सहिताः ।
इयं क्रीडाऽतीव बीभत्सरुपिणी भवति । यथा - प्रथमं शोभायात्रारुपेणापराह्णे क्रीडाध्यक्षः, पाम्परिकवेषधरा नगर -पालिका-कर्मचारिणस्तथा , चतुर्विधा अपि क्रीडकाः प्लाजाक्षेत्रम् आयान्ति । सर्वेषा मासनग्रहणानन्तरं युद्धारम्भो भवति । एकः क्रूरो वृषभ आयाति तस्य् स्कन्धे लोहशङ्कुना सह तत्स्वामिनः पताका निखाता भवति । कीलकस्य पीडया विक्षिप्तो वृषभो प्लाजा-भित्तेर्निकटे स्थितमश्वारोहिणं विलोक्याक्रमयति स पिकादोर-अश्वारोही कुद्दालेन सज्जस्तिष्ठति । यदा वृषभः श्रृङ्गभ्यामश्वस्योदरं भिनत्ति तदैव स कुद्दालेन तस्य शरीरे प्रहरति निखनति च । वृषभं पीडयितुं क्रोधयितुं श्रमयितुं चानेकेऽश्वा इत्थं मृत्युपथातिथयः क्रियन्ते । बहुधाऽश्वारोहिणोऽपि म्रियन्ते । तेषां रक्षणाय -चुलो -सहायका रक्त -कञ्चुक-वस्त्र -प्रदर्शनेन वृषभस्य ध्यानं विघट्टयन्ति । वृषभो यावतोऽधिकानश्वान हन्ति तावानेव बलिष्ठो मन्यते वृषभस्य बलवत्ता क्रूरत दिख्यापनार्थमेवेयं क्रिया विधीयते ।
ततः परं द्वितीयावर्तने भल्लकधरः (बादेरिलो )आयाति । हस्तर्योः १ १/२ फुटमितप्रलम्बौ भल्लकौ शोणकर्गदावेष्टितौ नीत्वा स २०-३० गजदूराद् वृषभमाक्रान्तुं प्रेरयति, पदास्फोटनपूर्वकं स्वान् हन्तुं तर्जयति तदा वृषभ आक्रमते सच तदैव तस्य ग्रीवायां प्रहृत्य भल्लकौ प्रवेशयति । यदि वृषभस्तेन क्षुण्णः सन् नैराश्यं भजते तदा भूयस्तमुत्तेजयितुं प्रज्वलन्तः प्रस्फोटका(पटाखे) स्तद ग्रीवायां स्थाप्यन्ते । ते भल्लकहरा अतीव साहसिका दुर्दान्ताश्च भवन्ति । रक्तकञ्चुकवस्त्रं हस्ते धृत्वा ते कम्पयन्तो वृषभमाकर्षयन्ति समीपमागतवति च तस्मिन् तं वञ्चयित्वा व्यर्थं भ्रामयित्वाऽथवा श्रृङ्ग-ग्रहणपूर्वकं तत्पृष्ठमारुह्य पीडयन्ति ।
ततस्तृतीयावर्तनाय वाद्यं वाद्यते । तस्मिन्नावर्तने खडगधरोऽध्यक्षस्य पुर आयाति, तदहस्तेन खडगं लध्वी रक्तवर्णामयीं पताकां (मुलेता) वामहस्ते तथा दक्षिणहस्ते शिरश्छादिकां (टोपी) नीत्वा विधिवद् वृषभस्य् बलिं कस्मैचिद्वि शिष्टाय जनाय शब्दाडम्बरमुच्चरन्नर्पयति । ततश्च शिरच्छादिकां दर्शकेषु प्रक्षिप्य वृषभस्य पुर उपतिष्ठते । पुनः पुनस्तां रक्तवर्णीं पताकिकां प्रदर्श्य वृषभमुत्तेजयन् स पूर्वं कानिचित् कौशलानि प्रदर्शयति पश्चाच्च क्रीडाङ्गणगतं वृषभं स्वाखडगेन व्यापादयति । रक्तस्य धाराः प्रस्फुटन्ति वृषभशवमश्ब्तरा बहिर्नयन्ति । पुनर्द्वितीयो वृषभो मुच्यते पूर्ववदेव स क्रीडां कुर्वाणोऽन्ते तमपि हन्ति । एवं प्रायः एकस्मिन्नत्सवे प्रायः पञ्च षडवा वृषभा व्यापाद्यन्ते । मारकः सगर्वं दर्शकाणां पुर आगच्छति, जना जयघोषं कुर्वन्ति, पुष्पाणि वर्षयन्ति शिरश्छादिकाश्चोच्छालयन्ति ।
इत्थं ‘तारोमाकी’ क्रीडायां वैभवविलासाः (शोभायात्रामाध्यमेन) कर्मकाण्डं (बलिप्रदानेन) नृत्यस्य प्रस्फूरत्ताः (विविधप्रक्रियया वृषभवञ्चनेन) तथा नाटाकस्य् गाम्भीर्यं (मृत्योः साक्षात्करणेन) पुरः स्फुरिता भवन्ति । अत एवेयं क्रीडा पराक्रमस्य सनातनं गौरवं बिभर्ति ।
(क) जल्लिकट्टक्रीडा भारतस्य तमिलनाडुप्रदेशे मकर-सङ्क्रमणपर्वणो द्वितीये दिवसे ‘माटटु, पोंगल’ (पशुमहोत्सवो )_ भवति, तस्मिन् ‘जल्लिकट्ट’- ‘वृषभेण सह सङ्घर्षकीडा’ऽपि भवति, यस्यां कियांश्चिद् द्रव्यराशिरेक्स्मिन् क्षौमे वस्त्रे संवेष्टय तं ग्रामस्य सर्वतो दुर्घर्षस्य वृषभस्य श्रृङ्गयोर्बध्यते तस्य भावार्थोऽयं भवति यद् " यदि साहश्चेद् वृषभेनानेन सह युदध्वा द्रव्यराशिरयं गृह्यतामिति ।" प्राचीनकाले ‘जल्लिकट्टि’ विजेतैव ग्राममुख्यस्य कन्यां परिणयति स्म ।
आधारः
[सम्पादयतु]अभिनवक्रीडातरंगिणी