पारिवारिकसमस्याः संस्कृतञ्च

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयं लेखः २००१ तमे वर्षे सम्पन्ने विश्वसंस्कृतसम्मेलने प्रस्तुतेषु प्रबन्धेषु अन्यतमः अस्ति । अस्मिन् लेखे समाजेन सम्मुखीक्रियमाणायाः पारिवारिकसमस्यायाः परिहरणे संस्कृतं कथं सहायकं स्यात् इत्येतस्मिन् विषये चिन्तनं कृतमस्ति ।

विश्वस्मिन् विश्वे अध्यात्मपरायणा त्यागमूला समन्वयात्मिका सहिष्णुतासंयुता भारतीयसंस्कृतिः विशिष्टतमा इति । ‘वसुधैव कुटुम्बकम्’ यत्र विश्वं भवत्येकनीडम् ‘मित्रस्य चक्षुषा सर्वाणि भूतानि समीक्षे,’ ‘संगच्छध्वं संवदध्वम्-’ "सर्वे भवन्तु सुखिनः" इत्येतादृश्याः विश्वबन्धुत्वभावनायाः उदात्ता उदारा च परिकल्पना अस्याः सर्वतिशायि महत्वं प्रख्यापयति । व्यक्तेः समन्वितभावनायां समग्रसमाजस्य समन्वितचेतनायां प्रस्फुटितायां विश्वं समस्तां विभेदसीमाम् अतिक्रम्य एकः सङ्घटितमानवपरिवारः सञ्जायते । सम्प्रति सर्वे देशाः भूमण्डलीकरणाय प्रयतन्ते । विविधराष्ट्रेषु ऎक्यं विचारसाम्यं सहभागित्वं समन्वयं सहिष्णुतां पारस्परिकसद्भाववृत्तिञ्च प्रतिष्ठापयितुं विश्वनेतारः प्रवर्तन्ते । परमत्यधिकं कष्टप्रदं यद् व्यक्तिनिर्माणपराणां समाजीकरणस्य प्रथमपाठशालाभूतानां परिवाराणां संरक्षणाय सद्विकासाय च औदासीन्यम् एव अभिलक्ष्यते ।

सम्प्रति लोककल्याणकांक्षिणः विचारप्रवणाः चिन्तातुरा यत् लोकतः परिवारभावना विलुप्यमानेव प्रतीयते । पुरा कदाचित् परिवारव्यवस्थापनाय एव विवाहप्रथाः समाजेन आविष्कृताः । समग्रसंसारे नवसृष्टिसंरचनाक्रमे विधातृप्रदत्तायाः समुत्पादनशक्त्या सदुपयोगाय स्त्रीपुंसयोः पारस्परिकाकर्षणमयीं नैसर्गिकीं प्रवृत्तिं मर्यादीकृत्य प्रजातन्तुसन्तानाय स्वीकृता सम्मानिता च । अद्यत्वे भौतिकसुखसुविधासम्पन्नेषु विज्ञानतकनीकलब्धप्रतिष्ठेषु कतिपयेषु राष्ट्रेषु जीवनमूल्यानि भौतिकताभाराक्रान्तानि । वैभवविभुत्वातिरेकेण मधुराः मानवीयसम्बन्धाः ध्वस्ताः । भोगपरायणत्वात् धनार्जनयन्त्रतां गतं जीवनम् । अष्टादशवर्षदेशीयाः बालाः मातुः पितुः दूरे गत्वा स्वतन्त्रं स्वच्छन्दं जीवनं यापयन्ति । पतीनां पत्नीनाञ्च वासांसीव परिवर्तनेन जीवने अस्थिरता असुरक्षा च व्याप्नुतः । भग्नपरिवाराणां कुण्ठाग्रस्ताः बालाः समाजस्य कृते अभिशापाः भवन्ति । विद्यालयेषु मादकद्रव्यसेवनम्, अविचिन्त्य सहपाठिषु गोलिकाचालनम्, अल्पे वयसि विवाहं विनैव गर्भधारणं सामान्यं जातम् । वेतनभोगिन्यः समाजसेविकाः तेषां बालकानां पालनपोषणं कुर्वन्ति ये स्वच्छन्दजीवने अवाञ्छितभाराः इति मत्वा परित्यक्ताः । तत्र युवकाः युवत्यश्च तथाकथितमुन्मुक्तं जीवनं यापयन्ति । अनेन विवाहेन विना प्राप्तेन मातृत्वेन अमेरिकास्वीडनादिदेशेषु विधिक्षेत्रे नानाः समस्याः समुत्पादिताः । तत्रत्या वृद्धाः रुग्णास्तु नरकतुल्यं जीवनं यापयितुं विवशाः ।

सम्प्रति केचन भारतीयाः अपि संस्कृतं प्रति, स्वसंस्कृतिं प्रति, संस्कारान् प्रति च उदासीना जाताः । भौतिकताप्रधानायाः पाश्चात्यसंस्कृतेः चाकचक्यविमोहितानां तेषां मते आधुनिकवैज्ञानिकजीवनेन सह संस्कृतिप्राणभूतानां संस्काराणां नास्ति किमपि सामञ्जस्यम् । तैः संस्कारसम्पादनम् औपचारिकतानिर्वाहमात्रम् एव सञ्जातम् । परिणामतः भारतेऽपि अद्य अत्र आतङ्कवादो विद्यते । तत्र साम्प्रदायिकविवादः प्रवर्तते । सर्वत्र हिंसानादः श्रूयते । भारते विवर्धमानाः वीरप्पनाः हर्षदमेहताः केतनपारेरवाः सुशीलशर्माणः आतङ्कवादिनः बलात्कारिणः पारिवारिकपरिवेशपरिव्याप्तां शिथिलतामेव संसूचयन्ति - फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तनाः इव ।

ते हि नो दिवसाः गताः यदा मातृपितृपितामहादीनां शुश्रूषया आशीर्वादावाप्तिः परमश्रेयसे मन्यते स्म । अद्य तु अनेकेषां समृद्धानां सुसज्जितगृहेषु तेषां कृते स्थानाभावः जायते । ते वृद्धगृहेषु प्रेष्यन्ते अथवा कुत्रचित् गृहस्य उपेक्षिते कोणे जीवननिःश्वासान् गणयन्ति । अद्यत्वे मातृपितृभगिनीभ्रातृन् पृथककृत्य पतिपत्नीपुत्रपुत्रीणामेव परिवारः इति कल्पितः । पतिपत्न्यात्मके परिमिते परिवारेऽपि विघटनात्मको रोगो दिनाऽनुदिनं वेगेन संक्रममाणः अभिलक्ष्यते कुत्रचिद् यौतुकाभिलाषिभिः वधूषु कृतोत्पीडनात्, क्वचिन्नारीकल्याणभावनया निर्मितानां सहानुभूतिपूर्णसर्वकारीयानां नियमोपनियमानां दुरुपयोगात् क्वचित् सहिष्णुतायाः अभावात् क्वचिच्च पुरुषाणां महिलानामपि विवाहेतरप्रेमसम्बन्धप्रवर्धनात् । समानाधिकारात्मकं नारीजागरणस्वातन्त्र्यान्दोलनं प्रचलितेऽपि परिवारनियोजनव्याजेन प्रयुज्यमाना कन्याभ्रूणहत्या न केवलं वर्तमानकालिकी पारिवारिकसमस्या अपि तु अनेकासां भाविभयावहसमस्यानामपि जननी । परिवारप्रथासंरक्षणार्थमेव पितृत्वस्य समुद्घोषणा भारते प्रचलति स्म । परन्तु सम्प्रति नारी जनकस्य नाम अनुद्घोषयन्ती प्रगतिशीलताया विशिष्टं गौरवमवाप्तुं कामयते । परिवर्तितेऽस्मिन् काले परत्रेह च शर्मभूता सन्ततिः दम्पत्योः अन्तःकरणतत्त्वस्य आनन्दग्रन्थिभूतम् अपत्यमपि न काम्यते । सम्प्रति एका नवाभिनवा विस्मयावहा धारणा उद्भूता परमाधुनिके प्रबुद्धतरे युवसमाजे । ’DINK' इति ’Double Income No Kids' द्विगुणितः आयः सन्ततिविमुक्तिश्च । अद्यत्वे स्वार्थपरता संवर्धते । व्यक्तिनिष्ठता विवर्धते । भौतिकमहत्त्वाकांक्षाः पूरयितुं मृगतृष्णा तरुणायते । परन्तु परिवारे परिव्याप्तं पावनं स्नेहबन्धनं शैथिल्यं भजते । यदा दूरभाषा-अन्तर्जालादिभिः अन्तरालाः दूरीकृताः परिवारेषु अन्तरालाः दरीदृश्यन्ते । ‘संविभक्तं हि दुःखं सह्यवेदनं भवति ’ । परन्तु पारिवारिकजनैर्परिवृत्तोऽपि अन्तर्गूढघनव्यथं पुटपाकप्रतीकाशं स्वदुःखम् एकाकी एव सहते । असहामानः आत्मघातं करोति । दिनानुदिनं समाचारपत्रेषु आत्महत्यासमाचारान् पाठं पाठं कस्य मनो न दूयते । परिवारसदस्याः अपरिचिताः इव जायन्ते । सुखदुःखयोरद्वैते दाम्पत्येऽपि द्वैतमायातम् तत्राऽपि द्वन्द्वः प्रवर्तते । परिवारे परिव्याप्ताः सुरक्षासंवेदना सहानुभूतिसहिष्णुतासेवापरायणतादयः लुप्तप्रायाः । कलहायमानम् अहमहमिकाप्रधानं पारिवारिकपर्यावरणम् असुरक्षाघृणाकटुतादिभिः प्रदूषितम् । सर्वे स्वार्थसम्पादननिरता अधिकारचेतनाभिभूताः कर्तव्यपराङ्मुरवा जायन्ते ।

अस्यां परिस्थित्यां परिवारसमस्याः सम्यगवगत्य तासां कारणं निवारणञ्च् सम्यग्विचिन्त्य एतादृशं किमपि सदौषधं कांक्ष्यते येन परिवारेषु सङ्क्रममाणो विघटनात्मकोऽयं रोगो शमनमुपेष्यति । अत्र हि संस्कारसंस्कृतपुरुषार्थचतुष्टयसंयुता वर्णश्रमव्यव्स्था व्यवस्थापिता प्रेमसौहार्दत्यागतपस्यादिसम्पन्ना भारतीयसंस्कृतिरेव सेवनीया । एवंकृते वेदसङ्कल्पितस्य आदर्शपरिवारस्य स्थापना पुनः भविष्यति ।

अनुव्रतः पितुः पुत्रो, मात्रा भवतु संमनाः ।
जाया पत्ये मधुमतीं, वाचं वदतु शान्तिवाम् ॥
मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत् स्वसा ।
सम्यंच सव्रता भूत्वा, वाचं वदत भद्रया ॥

जगति मानवस्य परिष्करणं, सुविचाराणां संक्रमणं कुप्रभावाणाम् अपाकरणं सर्वविधदोषाणां निराकरणञ्च संस्कारैरेव विधीयते । संस्कारैरेव मानवः सर्वाविधसमुन्नतः सम्पध्यते । अतएव भारतीयसंस्कृतौ मानवव्यक्तित्वविकासाय संस्काराणां व्यवस्था विहिता । यत्र् सर्वो विधिः जीवनमार्गदर्शकैः सत्कर्तव्यसमुपदेशकैः मन्त्रैः सम्पद्यते । विवाहसंस्कारेऽग्निं साक्षीकृत्य वरकन्ये समेषां समक्षं घोषयतः -

"समज्जन्तु विश्वे देवाः समापो हृदयानि नौ यथा हि विभिन्नेभ्यः कूपेभ्यः नदीभ्यः सागरभ्यो वापि समाहृता आपः परस्परं मिलित्वा कदाऽपि विधिना पृथक्-पृथक् कर्त्तुं न शक्याः तद्वदेवाधुना पाणिगृहीत्योः आवयोरेकीभूतानि हृदयानि न कथञ्चनापि विच्छेद्यानि । भारतीयसंस्कृतौ मानवजीवनं पुरुषार्थचतुष्टयम् परमपुरुषार्थे परिणमयति । धर्मस्तत्र जीवनाऽऽधारः । मोक्षश्च जीवनोद्देश्यम् । अर्थकामौ हि जीवनस्य गतिभृतौ । न तौ ह्यत्र धर्मविरुद्धौ स्वीक्रियेते कदाचन ।-

"अप्यर्थकौ तस्यास्तां धर्म एव मनीषिणः"

कामोऽपि धर्माऽविरुद्ध एवाङ्गीकरणीयो -"धर्माविरुद्धः कामोऽस्मि । इत्यं सर्वत्र धर्मस्याऽपरिहार्थतामङ्गीकृत्य मोक्षञ्च लक्ष्यीकृत्य अर्थकामपरा व्यापारव्यापृतिः स्वीकरणीया ।

वर्णव्यवस्थाऽपि मानवजीवनस्य लक्ष्यमभिलक्ष्यैव विहितं विभजनम् । आश्रमव्यावस्था व्यक्तिशः व्यक्तित्वं व्यवस्थापयति । वर्णविभागश्च समग्रत्वेन सामाजिकत्वं प्रतिष्ठापयति । एतद्व्यवस्थानुरूपम् अनासक्तभावनया स्वकर्तव्यानि सम्पादयन् मानवः शाश्वतिकानन्दसंस्थितिमाप्नोति । भारतीयजिन्तनस्य सर्वस्वं लोककल्याणभावनायाः मूलमन्त्रः अनासक्तभावोऽन्यत्र दुर्लभः । अनेन स्वस्य विस्तारमातन्वन् मानवः समत्वदृष्टिमाप्नोति -

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥

एवं मानवस्यान्तरिकविकासं सम्पाद्य समस्तमानवसमाजमेकस्मिन् सम्बन्धसूत्रे आबद्ध्य वसुधैव कुटुम्बकम्’ इति भावना चरितार्था भवति । स्वस्य विस्तारभावनायाः आरम्भः परिवारव्यवस्थामूलभूतेन प्रणयेन भवति । एवं स्वं विस्तारयन् जनः सर्वसमत्वं सर्वात्मभावञ्च सम्प्राप्य जीवनलक्ष्यं प्राप्नोति ।

आधारः[सम्पादयतु]

विश्वसंस्कृतसम्मेलनम् 5-9 एप्रिल् 2001 प्रथमः भागः प्रथमः खण्डः
प्रबन्धप्रस्तुतिः - डा धर्मा

सम्बद्धाः लेखाः[सम्पादयतु]