पितासि लोकस्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पितासि लोकस्य - 11.43 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रिचत्वारिंशत्तमह्ः (४३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

पिता असि लोकस्य चराचरस्य त्वम् अस्य पूज्यः च गुरुः गरीयान् न त्वत्समः अस्ति अभ्यधिकः कुतः अन्यः लोकत्रये अपि अप्रतिमप्रभाव ॥ ४३ ॥

अन्वयः[सम्पादयतु]

त्वं चराचरस्य अस्य लोकस्य पिता असि पूज्यः गुरुः गरीयान् च । अप्रतिमप्रभाव ! लोकत्रये अपि त्वत्समः न अस्ति अभ्यधिकः अन्यः कुतः ।

शब्दार्थः[सम्पादयतु]

त्वम् = भवान्
चराचरस्य = स्थावरजमस्य
अस्य = एतस्य जगतः
पिता असि= जनकः असि
पूज्यः = अर्च्यः
गुरुः च = गुरुः शास्त्रोपदेष्टा
गरीयान् = गुरुतरः
अप्रतिमप्रभाव = अप्रमेयमहिमन् !
लोकत्रये अपि = भुवनत्रये अपि
त्वत्समः = भवत्सदृशः
न अस्ति = न विद्यते
अभ्यधिकः = अतिशयानस्तु
अन्यः = परः
कुतः = कथम् ?

अर्थः[सम्पादयतु]

भवान् स्थावरजमस्य एतस्य लोकस्य जनकः असि । अर्च्यः आचार्यः गुरुतरः च असि । अप्रमेयमहिमन् ! भुवनत्रये अपि भवत्सदृशः न विद्यते । कथं पुनः भवतोऽत्यधिकः ?

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पितासि_लोकस्य...&oldid=418660" इत्यस्माद् प्रतिप्राप्तम्