सामग्री पर जाएँ

पितृपक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पितृपक्षः / महालयपक्षः

भाद्रपदमासस्य कृष्णपक्षः पितृपक्षेण व्यवह्रियते . अन्यासु भाषासु एतस्य अन्यानि नामानि सन्ति - पित्रि पोखो, सोरः श्राद्धा, कनगत्, जितिया, महालयपक्षः, अपरपक्षः. उत्तरभारते नेपाल्-राष्ट्रे च आश्वयुजमासस्य कृष्णपक्षस्य प्रतिपद्तः अमावस्यपर्यन्तं पितृपक्षेण व्यवह्रियते. पितृभ्यः आअर्यमाणः पक्षः इत्यनेन कारणेनैव अयं पक्षः पितृपक्षः इति कथ्यते.  पितृपक्षान्तअमावस्या सर्वपितृ-अमावस्या, महलय-अमावस्या नाम्ना अपि ज्ञायते .  

पितृपक्षे सर्वे जनाः स्वपितृमरणतिथ्यानुसारं तासु तिथिसु  श्राद्धतर्पणादिकर्मान् करिष्यन्ति. एतस्मिन् पक्षे प्रतिदेने वा एकस्मिन् मरणतिथियुक्तदिने वा श्राद्धकर्माणि सर्वे आचरेयुः . एतस्मात् पितरः संवत्सरं यावत् तुष्टाः भवैष्यन्ति इत् स्कान्दपुराणकथनम्.

पौराणिककथा

एषः आचारः अति प्राचीनः। वैदिककालादेव क्रियमाणः अस्ति । ऋग्वेदस्य बहुषु ऋक्सु पितॄणां मृत्योः च प्रषंसा कृता वर्तते। वंशजानां धनधान्यशक्तिसमृद्ध्यै पितरः आहूयन्ते। ऋग्वेदस्य एकायां दीर्घायाम् ऋचि (१०.१४.१) वर्णितायां पितृपूजायां यमवरुणौ अपि उल्लिखितौ। पितरः त्रिषुवर्गेषु विभाजिताः। वरावरमध्यमाः इति (कृ. १०.१५.१ एवं यजु. सं. १९४२)। एवम् वर्गीकरणस्य आधारः प्रायः मृत्युक्रमे पितृविशेषस्य स्थान: स्यात् । ऋग्वेदस्य (१०.१५) द्वितीये छंदसि सुस्पष्टितम् यत् वंश्स्य सर्वप्रथमः दिवंगतेषु अंतिमः पिता तथा अंतरिक्षवासीपिता च श्रद्धेयाः सन्ति।

त्रयः विभिन्नाः लोकाः विवृताः यान् तीर्त्वा मृतात्मानां यात्रा संपूर्णा भविष्यति। ऋग्वेदस्य (१०.१६) ऋचि अग्निः प्रार्थितः यत् सः मृतान् पितृलोकं प्रापयेत्। अन्यदपि प्रार्थितम् यत् अग्निः वंशजानां दानदिकं सर्वमं पितृगणँ प्रापयेत्। यस्मात् ते भीषणयरूपवतः न भवेयुः । एतरेयब्राह्मणे उक्तम् अग्निः रज्जुना सदृशः यया स्वर्गं प्राप्तुं शक्यते मनुष्येण । स्वर्गे पितरः चिन्तारहिताः शक्तिशालिनः अनन्दमयाः च भवन्ति। पृथिव्यां तेषां वंशजाः सुखसमृद्धिप्राप्तिहेतवे पूजादिकं पिण्डदानं च कुर्वन्ति। वेदेषु पित्रॠणां भयानकरूपधारणायाः अपि कल्पना कृता। पितरः प्रार्थिताः यत् ते विशजानां समीपम् आगत्य असानं पुजां च स्वीकृत्य प्रसनाः भवेयुः । परलोके मर्गद्वयमेव विद्यते। देवयानं पितृयानं च। पितृगणः प्रार्थितः यत् ते देवयानमर्गे मर्त्यानां साहय्यं कुर्युः (वाज. सं. १९.४६)।

संहितासु ब्राह्मणेषु च बहुत्र मृत्योः उल्लेखः कृतः । जन्मनः त्रयः प्रकाराः उक्ताः। प्रथमः प्रकारः साधारणं जन्म । पितुः मृत्योः पश्चात् पुत्रे, तस्यानन्तरं पौत्रे जीवस्य या निरंतरता वर्तमाना भवति सः द्वितीयः प्रकारः । मृत्योः पश्चात् प्राप्तम् पुनर्जन्म तृतीयः प्रकारः । कौशीतक्यां लिखितं यत् मरणानन्तरमं केचन जीवात्मनः चन्द्रलोकं प्राप्नुवन्ति अपि च तेषां कर्मज्ञानुसारेण पृथिव्यां पशुपक्षिकीटमानवरूपेषु पुनर्जन्म प्राप्नुवन्ति। अन्ये देवयनेन अग्निलोकं प्राप्नुवन्ति।

सनातनधर्ममतानुसारेण पितृवंशावल्यां स्थितानां अन्तिमत्रयाणाम् आत्मनः पितृलोके भवन्ति. यदा वंशजस्य कस्यचित् मरणानन्तरं मृतस्यात्मा पितृलोकं प्रतिगच्छति. अपि च तस्य प्रपितामहस्यात्मा स्वर्गमवगाहते. स्वर्गं प्रतिगताय पितरात्मने पिण्डप्रदानं न दीयते. पितृलोकस्य अधिपतिः यमः इति विश्वासः.

एषः अपि विश्वासः वर्तते यत्, यदा सूर्यः कन्याराश्यां प्रविषति, तदारभ्य एकमासपर्यन्तं परलोकगताः पितरः पितृलोकात् अवतीर्य वंशजानां गृहे वत्स्यन्ति इति.   अस्मिन् मासे प्रथम पक्षे श्राद्धकर्माणि क्रियन्ते.

कथनमेकम् एवमपि अस्ति. पुरा यदा महभारतयुद्धे दानवीरस्य कर्णस्य मृतिः जातः तस्यात्मने पितृलोके भोजनस्थाने स्वर्णमण्यादयः दत्ताः. यदा तस्य कारणं ज्ञातुम् ऐच्छत्, तदा इन्द्रेनोक्तं यत् - आजीवनम् अन्येभ्यः स्वर्णं धनं च दानरूपेण दीयमानेन तेन न कदापि पितृभ्यः पिण्डप्रदानं दत्तम् इति. कर्णः प्रत्युत्तरम् अवदत् यत् सः  न कदापि अजानात् यत् पितरः के इति.  तदा इन्द्रस्य अनुज्ञां प्राप्य भूलोकम् आगत्य पितृकर्मादिइन् आचरत् पक्षं यावत् ।

प्रामुख्यता

पुत्रैः अवश्यमेव श्राद्धकर्मादयः आचरणीयाः. एतस्मात् पितॄणां स्वर्गप्राप्तिः भवेदिति विश्वासः गरुडपुरानानुसारेण. ये न आचरन्ति तेषां पितॄणाम् आत्मानः सदैव पितृलोके स्थास्यन्ति इत्यपि मन्यन्ते. अतः प्रत्येकेन जनेन पितरः देवाः सर्वभूतानि अतिथयः परितोषयेयुः . तुष्टाः ते अयुरारोग्यैश्वर्यादीन् , सुखसमृद्धिं. सः जनः मोक्षं च प्राप्नुयात्.     

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=पितृपक्षः&oldid=463414" इत्यस्माद् प्रतिप्राप्तम्