पुनरुत्पत्तिः प्रेत्यभावः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पुनरुत्पत्तिः प्रेत्यभावः (न्यायसूत्रम् – १.१.१९ )

भाष्यानुसारेण एवं सूत्रार्थॊ विज्ञेयः । या ’पुनरुत्पत्तिः’ मरणानन्तरं जन्म स ’प्रेत्यभावः’ ’प्रेत्य’ मृत्वा ’भावः’ उत्पत्तिरिति सूत्रान्वयः ।

सूत्राशयस्तु विवृतः जयन्तभट्टेन – पुनरुत्पत्तिः कस्य ? आत्मनः शरीरस्य वा ? तत्रात्मनः पुनरुत्पत्तिरेव न विद्यते नित्यत्वात् । का कथा पुनःशब्दार्थस्य ? शरीरस्य तु उत्पत्तिरस्ति । न क्रियासमभिव्याहारेण । न हि मृतं शरीरं तदेव पुनरुत्पद्यमानं क्वापि दृष्टम् । तस्मात् पुनरुत्पत्तिः प्रेत्यभाव इति सूत्रमनर्थकम् । अत्रोच्यते । नित्यस्यॆवात्मनः मृतिजन्मनी अभ्यपेयेते । शरीरेन्द्रियादिसंयोग एव जन्म भवति । तद्वियोगश्च मृतिरुच्यते । जननमरणयोर्यः सम्बन्धः पॊनःपुन्येन भवन् स संसार उच्यते । एवं चास्थिरशरीरावस्थानं कस्य न दुःखदायकम् । तदुक्तं –

जरावियोगमरणव्याधयस्तावदासताम् ।
जन्मॆव किं न धीरस्य भूयोयूयस्त्रपाकरम् । इति ॥

देहेन्द्रियरचनाप्रकारः[सम्पादयतु]

येषां देहेन्द्रियाणां सम्बन्धादात्मा जनिमानित्युच्यते तेषां देहेन्द्रियादीनामुत्पत्तिः कथं भवति ? तत्रोक्तं सूत्रकृता – ’व्यक्ताद् व्यक्तानाम् प्रत्यक्षप्रामाण्यात्’ इति (न्या.सू.४.१.११) । ’व्यक्तानां’ शरीरादीनां मूर्तपदार्थानां ’व्यक्तात्’ – कारणीभूतात् मूर्तादेव भूतपदार्थादुत्पत्तिर्भवति । ’प्रत्यक्षप्रामाण्यात्’ । प्रत्यक्षसिद्धत्वात् । यथा व्याक्तात् मृत्प्दार्थात् व्यक्तस्य घटस्य उत्पत्तिर्द्दश्यते तथा शरीरस्यापि शुक्रशोणितादिभिरुत्पत्तिर्भवति इति सूत्रार्थः ।

तेनेदं विज्ञायते – नह्यव्यक्तस्वभावात्प्रकृतेः जगदुत्पत्तिः सम्भवति । कपिलाभ्युपगतायास्त्रिगुणात्मकप्रकृतेः कार्णत्वं प्रतिषिध्य परमानुकारणत्व – म्भ्युपेयते शरीराद्युत्पत्तॊ । तथाहि पार्थिवं – आप्यं – तॆजसं वायवीयं चेति चतुर्विधं कार्यं स्वावयवाश्रितमुपलभ्यते । यथा घटः सावयवः कपालाश्रितः । कपालान्यपि सावयवत्वात्तदवयवेषु । एवं तदवयवाः तदवयवान्तरेषु यावत् परमाणवो निरवयवाः । तत्र यावत्कार्यजातं स्वावयवाश्रितं तस्य प्रत्यक्षेण ग्रहणम् । ततः परमनुमानमेव मानम् ।

परमाणुसाधकानुमानम्[सम्पादयतु]

’सर्वं कार्यं स्वावयवाश्रितम् सावयवत्वात् परिदृश्यमानकार्यवत्’ एत्यनुमानेन परमाणुपर्यन्तमवयवाः कल्प्यन्ते । यदि परमाणुः सावयवः स्यात् तर्हि तदवयवा एव परमाणुशब्दवाच्या भवेयुः । यत्र अवयवव्यस्था नास्ति त एव परमाणवो भवन्ति । यदि नित्यः निरवयवश्च परमाणुः नाभ्युपेयते तर्हि अनवस्था अपररिहार्या । अवयवानन्त्यं च अप्रामाणिकमभ्युपेयं (मेरुसर्षपादीनां) इति नित्यो निरवयवश्च परमाणुराङ्गीकार्यः ।

तत्र परमाणुः द्वचणुकश्चाणुपरिमाणवन्तॊ । त्र्यणुकादारभ्य प्रत्यक्षयॊग्यता भवति । महत्त्वोद्भूतरूपयोः प्रत्यक्षत्वप्रयॊजकयोस्तत्र सत्वात् । अणुपरिमाण-विशिष्टयोः परमाणुद्वयणुकयोः कारणत्वं नास्ति । तदुक्तं – ’पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम्’ इति । परिमाणसामान्यं स्वाश्रयारब्धद्रव्यपरिमाणारम्भकं द्रुष्टम् । यथा कपालपरिमाणादिकम् । अणुपरिमाणस्य तु स्वाश्रयारब्ध-द्रव्यपरिमाणारम्भकत्वं नास्ति । परिमाणसामान्यस्य स्वसमानजातीयोत्कृत्त्व-मपरिहार्यम् । तर्हि द्वयणुकपरिमाणस्य किमसमवायिकारणमिति चेत् परमाणुगतद्वित्त्वसङ्खयॆवेत्यवेहि । एवं त्र्यणुकपरिमाणं प्रत्यपि द्वयणुकगत-त्रित्वसङ्खयॆव कारणमिति बोध्यम् । तथा च यतः परमणुर्नास्ति तादृशाः परमाणवः अभ्यौपेयाः निरवयवाश्च ते ।

परमाण्वभ्युपगमे युक्तिरेवंविधा भवति –

अत्र त्रयी गतिः १. घटादेः कार्यस्य निरयवत्वं २.अवयवानन्त्यं ३.परमाण्वन्तता वा इति । आद्ये घटादीनां सावयवत्वोपलम्भात् प्रत्तक्षबाधः । द्वितीये मेरुसर्षपयोरवयवानन्त्यात् तुल्यपरिमाणत्वप्रसङ्गः । तस्मात् परमाण्वन्ततॆव युक्तिमती । जडेषु पमाणुषु स्वतः क्रियया असम्भवात् ईश्वर एव परमाणुषु सङ्घातकारणीभूत इति परमाणुषु कार्यसिद्धिरङ्गीकार्या । ते च क्रमेण कार्यमुत्पादयन्ति । परमाणुद्वयसंयोगे द्वयणुकमुत्पद्यते । ततः द्वयणुकत्रये त्र्यणुकोत्पत्तिः । एवं कपालादिक्रमेण घटरूपकार्योत्पत्तिः ।

शरीरविषये मतान्तराणि[सम्पादयतु]

अनुत्पत्तिधर्मकत्वान्नित्यमेव शरीरमिति केषाञ्चिन्मतं प्रत्यक्शबाधितम् ।

आकस्मिकत्वमपि न युक्तम् । कारणनियमोपलम्भात् । अनिमित्त-भावोत्पत्तेरदर्शनाश्च । एतेन अभावाद् भावोत्पत्तिरपि प्रतिषिद्धा वेदितव्या । अनारब्धावयविरूपकार्याः परमाण एव लोकयात्रां निर्वहन्तीति बॊद्धा मन्वते । परमाणूनामतिसॊक्ष्म्यादप्रत्यक्षत्वाश्च कल्पनॆषा न पारमार्थिकी । शब्दविवर्तवादोऽप्यप्रमाणकत्वादुपेक्ष्यः । प्रमाणाभावादेव ब्रह्मपरिणामपक्षोऽपि भर्तृप्रपञ्चादीनामङ्गीकारानर्हः । अनादिकालीनमिदं विश्वमिति स्वभाववादि-मतमपि उक्तदिशा परमाण्वादिद्वारा सृष्टेः समर्थनान्नाङ्गीकर्तुमुचितः ।

अतश्च पक्षान्तरदुर्बलत्वात्
यथोदितः सिद्ध्यति भूतसर्गः ।
तं यस्तु पश्यन्नपि निह्नुवीत
तस्मॆ नमः प्ण्डितशेखराय ॥
अनादॊ संसारे स्थिरमिदमहो मूढमनसां
जनित्वा जन्तूनां मरणमथ मृत्वापि जननम् ।
इयं सा दुःखानां सरणिरिति सञ्चिन्त्य कृतिना
निधातव्यं चेतो जननमरणोच्छेदिनि पदे ॥

सम्बद्धाः लेखाः[सम्पादयतु]