पुराणलक्षणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
पुराण
पुराण
पुराण
पुराण
पुराण
पुराण

पुराणं पुरातनमाख्यानमुच्यते । संस्कृते पुराणशब्दश्चिरन्तनपर्यायः । पुराणेषु भूता वर्त्तमाना भाविनश्चार्या वर्ण्यन्ते । इतिहासे तु भूता एवार्था वर्ण्यन्त इति पुराणेतिहासयोरन्तरम् । प्राचीनास्तु पुराणमपीतिहासशब्देनाभिदधते । पुराणेषु पुराणलक्षणमित्यमुक्तम् –

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥

सर्गः सृष्टि, प्रतिसर्गः सृष्टेर्लयः पुनश्च सृष्टिः, वंशः सृष्ट्यादौ वंशावली, मन्वन्तराणि के के मनवः कदा कदा अजायन्तेति वर्णनानि, वंशानुचरितं सीर्यचन्द्रवंशयोर्विशिष्य वर्णनम्, इदं वस्तुतञ्चकं पुराणेष्वपेक्ष्यते ।

  1. सर्गः (जगतः उगमः)
  2. प्रतिसर्गः (अवनतिः पुन्स्सृष्टिः)
  3. वंशः (ऋषिदेवतादीनां जीवनम्)
  4. मन्वन्तरम् (मानवजातेः उगमः, मनूनां राज्यभारः)
  5. वंशानुचरितम् (सूर्यचन्द्रवंशीयराजानां चरित्रम्)

वस्तुतस्तु नैतान्येव वस्तूनि पुराणेषु वर्ण्यन्ते । इदं तु न्यूनतमं वर्णनीयम्, पुराणेष्वितोऽधिकान्यपि तानि तानि वस्तूनि वर्ण्यन्ते । उदाहरणार्थमग्निराणमेव गृह्यताम् । तत्र हि सर्वाण्यपि ज्ञातव्यवस्तूनि वर्णितानि, येन तत् भारतीयज्ञानकोषः’ इत्यभिधीयते । कस्यापि मानवसमाजस्य इतिहासस्तावन्न पूर्णो मन्यत्, याक्तस्य सृष्टेः प्रारम्भकालत इतिहासोन प्रस्तूयते पाश्चात्त्यशिक्षाप्रभाविता विद्वांसो नैतदनुमोदयन्ति स्म, अत एव ते पुराणानि सत्यानि न स्वीकुर्वन्ति स्म, परं सम्प्रति दृष्टिकोणपरिवर्तनं जातम् । एच्. जी. वेल्स महोदयः 'औट् लैन् आफ़् दि हिस्टरी नामके स्वग्रन्थे पौराणिकी प्रणालीमनुव्सृतवान् । अनया सुसंस्कृतया दृष्ट्या भारतीयमितिहासं जिज्ञासमानानां कृते पुराणानि निधय इव ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पुराणलक्षणम्&oldid=409415" इत्यस्माद् पुनः प्राप्तिः