पुराणेषु जलनैर्मल्यवायुनैर्मल्यचिन्ता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


वायुजल- नैर्मल्यरक्षणमाद्यकर्तव्यम् । वायु- जलदूषणं शिक्षार्हापराधः । नगरग्रामनैर्मल्यदूषकशिक्षार्थं पृथगेव न्यायालयः स्थाप्यते इति एफ्. एम्. सल्दाना नामधेयस्य उच्चन्यायलयन्यायाधिशस्य उद्धोषणां के प्राज्ञा न जानन्ति । वयमिदानीं नगरवासिनः परिशुध्दजल-वायुविहीनाः धोरापरिहार्यरोगरुग्णा अहर्निशं दुः खतप्ताः ।

सर्वत्रापीदानीं त्रिविधमालिन्यं दरीदृश्यते – (1) शब्दमालिन्यम् (Pollution of sound)
(2) जलमालिन्यम् (Pollution of Water)
(3) वायुमालिन्यम् (Pollution of Air) चेति ।
रोगनिदानभूतानामनिलजनकानामुद्यमानां स्थापनम्, नगरे तत्र तत्राव्यवस्थया विष- रोगनिदानभूतानि वस्तूनि सरसि नद्यां वा परित्यज्य वायुजलदूषणं सर्वेषामानुभविकम् । एतन्निवारणार्थं निसर्गदूषकाणां शिक्षा च देया नैर्मल्यं च सम्पादनीयम् । नात्रास्ति विप्रतिपत्तिलेशः ।

पञ्चसहस्रवर्षेभ्यः प्राक् भगवान् श्रीकृष्णोऽस्यां भूम्यामवततारेति निश्चप्रचम् । तेन जलदूषण- वृक्षनाशनप्रक्रिया खण्डिताऽसीत् इति हरिवंशे श्रीमद्भागवते च श्रूयते । अनेनेदं विज्ञायते निसर्गशोधनार्थं कश्चन प्रयत्नः प्रागपि महद्भिः कृतः, क्रियमाणश्च वर्तते । भागवतमहापुराणे चैवं कथा श्रूयते कालन्दीनद्याः नातिदूरे कश्चन सरः आसीत् । तत्र कालीयनागप्रभृतयो सर्पान्यवसन् । अहिदूषितसरसः जलमतीव विषापूर्णं विषानिलप्रसरणा- दिना सर्वप्राणिजीवननाशकं चान्वभूयत । विषपूरितजलपानेन कृष्णानुबन्धिनः पशवश्च मृतिमापुः । सरस उपरि उड्डयितुमसमर्था विषानिलसेवनेन विनष्टदेहबलाः पक्षिणः सरस्येव निपत्य प्राणान् परितत्यजुः । अत एव भगवान् श्रीकृष्णः कालियसर्पसर्पणेन जलशोधनाय मनश्चक्रे । भगवदाग्रहपात्रश्च कालियनागराट् सरस्तत्याज । ततः परं सरस्सर्वेषामवगाहन- स्नानपानयोग्यमभवदिति भागवते श्रूयते-

अथ गावश्च गोपाश्च निदाघातपपीडिताः ।
दुष्टं जलं पपुस्तस्यास्तृषार्ता विषदूषितम् ।
निपेतुर्व्यसवः सर्वे सलिलान्ते कुरुद्वह ।
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः ।
तस्या विशुध्दिमन्विच्छन् सर्पं तमुदवासयत् । -भागवतम् १०.१५ ४७-५१, १०.१६.१

तदा कालीयनागराजेन नदीजलं विषपूर्णमासीदनिलं च । इदानीं पुनर्देशे विद्यमाना रोगनिदानभूतदुर्गन्धयुतवस्तुप्रक्षेपकाः दुर्गन्धविषानिलोत्पादकाश्च उद्यमाः (Big Industries) सर्वत्र दृश्यमाना ‘कालियसर्पं स्मारयन्ति । एतन्निवारणार्थं पुनरपि श्रीकृष्ण एवावतरेदिति मन्यामहे । अनया च कथयेदं विज्ञायते । पुराणेषु तत्काले सम्भाव्यमाननिसर्गदूषकप्रक्रिया महात्मभिर्वारिता । दोषोन्मुक्ताश्च नागरा सुखेन न्यवसन्तेति ।

वृक्षारोपणं सर्वदा कार्यम्[सम्पादयतु]

वृक्षारोपणं सर्वदा कार्यम् । वृक्षच्छॆदिनां महती शिक्षा कार्या । वृक्षाः परोपकारायैव जीवमानाः । पशुपक्षिणां मनुष्याणां च शुध्दमेव वायुं प्रसरन्तः फल-पुष्पाद्यन्नदानेन पोषकाश्च । नगरे सर्वत्र वृक्षच्छॆदनं नभः स्पर्शिगृहादिनिर्माणं तेन च परिशुध्दानिलाभावेन नानारोगवृध्दया समेषां सन्तापश्चानुभविकः । इयमवस्था खण्डिता श्रीकृष्णेन । ‘घोषोऽयं नगरायते’ इति –

प्रक्षीणतृणकाष्ठं च गोपैर्मथितपादपम् ।
घनीभूतानि यान्यासन् काननानि वनानि च ।
तान्याकाशनिकाशानि दृश्यन्तेऽथ यथासुखम् ॥
विक्रीयमाणैः काष्ठैश्च वनसम्भवैः ।
उच्छिन्नसञ्चतृणैः ‘घोषोऽयं नगरायते

स्थावरेषु वृक्षेषु वनस्पतिषु चैतन्यमस्तिं । ‘गीतात् पुष्पफलावाप्तिः स्पर्शात् कार्श्यं रसात् स्थितिः ’ इत्यादिना वनस्पत्यादीनां प्राणसञ्चारः प्रतिपादितः भगवता मध्वाचार्येण । स्थावरेषु प्राधान्येन षटजातयः, तेभ्यः प्रयोजनं च निरुपितं महाभारते –

स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः ।
वृक्षगुल्मलतावल्यस्त्वकसारासृणजातयः ।
पुष्पैः सुरगणान् वृक्षाः फलैश्चापि तथा पशून् ।
छायया चातियिं तात पूजयन्ति महीरुहः ।
वृक्षदं पुत्रवत् वृक्षा तादयन्ति परत्र च । इति । -महाभारते अनुशासनपर्वणि अ. ५८ श्लो. १३-२८

निराकृतः खण्डितश्च सर्वोपजीव्यवृक्षछेदः भागवते । प्राचेतसां प्राचीनबर्हिषां वृक्षनाशनं दृष्ट्वा राजा सोमस्तेषां प्रक्रियां विदूष्य द्रुमाभिवृध्दयर्थं यत्नः कार्य इत्युपदिदेश चेति भागवते षष्ठस्कन्धे श्रूयते –

मा द्रुमेभ्यो महाभागा दिनेभ्यो द्रोग्घुमर्हथ ।
विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ॥
अहो प्रजापतिपतिर्भगवान् हरिरव्ययः ।
वनस्पतीनोषधीश्च ससर्जोर्जमिषं प्रभुः ॥
अन्नं चराणाम्………….. इति ।

तस्मात् वायु-जलादि प्राणिप्राणननिदानवस्तूनां वायुजलादीनां, नैर्मल्यसम्पादनं, वृक्षारोपणादि च पुराणेषु श्रुतं सार्वकालिकं सर्वोपयोगि चेति निश्चप्रचम् ।