सामग्री पर जाएँ

पृथिव्याः वायुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Limb view, of the Earth's atmosphere. Colours roughly denote the layers of the atmosphere.

वायुः प्रणीनां प्राणस्याधारः वर्तते । मनुष्यः सामान्यतः प्रतिदिनं २२००० बारं श्वंसग्रहणं कृत्वा १६ की.ग्रा. आक्सिजन नामक- वायोः उपयोगं करोति । वायुमण्डले आक्सिजन – वायोः भण्डारं वर्त्तते । सामान्यरुपेण वैज्ञानिकाः वायुमण्डलस्य पञ्चधा विभागं कुर्वन्ति । यतोहि प्रायः पृथिव्यां १०,००० किलोमीटरं यावत् वायुमण्डलं वर्त्तते । परमुच्चता क्रमेण विभिन्नेषु स्तरेषु अस्य रचना विभिन्ना वर्त्तते ।

अधोमण्डलम्

[सम्पादयतु]

वायुमण्डलस्य अधोमण्लमिति नामकः भागः पृथ्वीतः ८-१७ की.मी. ऊर्ध्वपर्यन्तं भवति । अस्मिन् भागे वायुमण्डलस्य ८० प्रतिशतं संहिता, जलवाष्पञ्च भवति । ऋतुपरिवर्तनादिकस्य प्रभावः अस्मिन् भागे एव भवति । चक्रवातः,वायुसन्तापः ,मेघगर्जनं, विद्युल्लता चास्मिन् भागे एव भवति ।

समतापमण्डलम्

[सम्पादयतु]

अधोमण्डलात् ४० की.मी. उर्ध्वं यावत् अयं भागः भवति । अस्य भागस्योपरि एव ओजोन् (o3) अस्ति, यं पृथिव्याः सुरक्षाकवचमस्ति । इदमेव कवचं सूर्यस्य अल्ट्रावायोलेट- किरणेभ्यः पृथ्वीं रक्षति । यैः किरणैः त्वचा- क्यान्सरं भवति । अस्मिन् भागे वातावरणस्य प्रभावः न भवति । तापस्याधिक्यमपि भवति ।

मध्यमण्डलम्

[सम्पादयतु]

पृथ्वीतः ८०-९० की.मी. पर्यन्तं समताप –मण्डलस्योपरि इदं मण्डलम्स्ति + अस्मिन्नेव मण्डले सूर्यकिरणस्य ऊर्जायाः ओजोन इत्यनेन सह संघर्षः भवति ।

आयनमण्डलम्

[सम्पादयतु]

मध्यमण्डलात् ३००-४०० की.मी पर्यन्तम् आयनमण्डलं भवति । इदं हि अन्तरिक्षीय- विकरणेभ्यः जीवमण्डलं रक्षति । रेडियोतरङ्गान् अवशोषणं परावर्तनञ्च प्रभावयति ।

बाह्यमण्डलम्

[सम्पादयतु]

मध्यमण्डलात् १००० की.मी. यावत् भवतीदं मण्डलम् । अत्र मुख्यत्वेन हाइड्रोजन हीलियम् नामकं गैशं भवति । इतः परं १०,०००की.मी. यावत् मात्रं हाड्रोजन अनुत्वेन भवति ।

क्र.सं मूलधातवः प्रतिशतम्
नैट्रोजन् ७८.००
आक्सीजन् २०.९५
आर्गन् ००.९३
कार्बनडाइ-आक्साइड ००.०४
नियोन, हाइड्रोजन, हीलियम्,

क्रिप्टोन, जेनोन,ओजोन्, धूलिः जलवाष्णञ्च

००.०८

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]