पृथुमृद्विका, सिंहश्च
पृथुमृद्विका, सिंहश्च इति काचित् कथा वर्तते।
कथा
[सम्पादयतु]पुराकाले कदाचित् भीषणशैत्यस्य वातावरणे सकलमपि जगत् हिमाच्छादितम् अभवत्। बहुभ्यः दिनेभ्यः आखेटं न प्राप्तवान् कश्चन सिंहः अतीव बुभुक्षितः कमपि ग्रामं प्रविष्टः। आखेटस्य अन्वेषणे अटन् सः दूरे वातायनात् बहिः दीपप्रकाशं प्रसार्यमाणं कुटीरम् अपश्यत्। तत्र किमपि भोजनाय प्राप्स्यामि इति विचिन्त्य सः वातायनस्य अधो भागे अतिष्ठत्। ततः कुटीरात् कस्यचित् शिशोः रुदनस्वरः तेन श्रुतः। ऊं... आं... ऊं... आं... इति। चिरकालं यावत् रुदितः शिशोः ध्वनिं श्रुत्वा सः कुटीरं प्रविष्टुं प्रायतत। सः कुटीरं प्रवेष्टुम् उद्यतः एव आसीत्, तस्मिन्नेव काले तेन कस्याश्चित् महिलायाः रवः श्रुतः। "शान्तो भव बाल! पश्य शृगालः आगच्छन्नस्ति। अरे! कियान् बृहन् सः? तस्य मुखं तु बृहत् वर्तते। तं दृष्ट्वा महत् भयं समुत्पद्यते" इति सा शिशुम् उद्दिश्य वदन्ती आसीत्। परन्तु शिशोः उपरि तस्याः शब्दानां कोऽपि प्रभावः न प्रतिभाति स्म। सः तु रोदनं नास्थगयत्।
अतः माता पुनः उक्तवती यत्, तत्र पश्य! भल्लुकः समागच्छति। भल्लुकः बहिरेव स्थितः। मा रुद, अन्यथा सः अन्तः प्रवेषिष्यति इति। तथापि तेन रोदनं न स्थगितम्। अतः बहिः वातायनस्याधः स्थितः सिंहः विचारयति यत्, सः तु कश्चन अद्भुतः बालकः! कदाचित् तमहं द्रष्टुं शक्नुयाम्। सः न तु शृगालात्, भल्लूकात् वा बिभेति इति। एवं विचिन्त्य बुभुक्षावशः सः सहसा उत्थाय अन्तः प्रवेष्टुं तत्परः। यतो हि बालकः रूदन्नेव आसीत्, अतः माता पुनः उक्तवती यत्, अरे! अरे! पश्य तत्र सिंहः आगतः। अस्माकं वातायनस्य बहिरेव स्थितः सः इति। सिंहस्य मनसि कौतुकं जातं यत्, सा कथं ज्ञातवती? भवतु तत्परन्तु सः शिशुः मम नाम श्रुत्वाऽपि भीतः न जातः? इति। बालकस्य अविरतं रोदनं तस्य मनसि भयम् उदपादयत्। तस्य शौर्यस्य विषये साश्चर्यं विचिन्त्य घूर्णिम् अनुभवन् सः मूर्च्छितोऽभवत्।
ततः यदा तस्य मूर्च्छा व्यपगता, तदा सः चिन्तयति यत्, एतावता तु मया कोऽपि तादृशः प्राणी न दृष्टः, यः मम नाम्नः न बिभेति। परन्तु एषः विचित्र एव। न कस्मादप भीतो दृश्यते। सिंहात् अपि न इति। यदा सः चिन्तातुरः सन् किङ्कर्तव्यमूढः आसीत्, तदैव मातुः ध्वनिः तेन श्रुतः। सा उक्तवती यत्, अयि बाल! शान्तो भव। स्वीकुरु इमां पृथुमृद्विकाम् इति। पृथुमृद्विकां प्राप्य बालः समनन्तरमेव तूष्णीम् अभवत्। बालस्य रोदनध्वनौ स्थगिते सति वातावरणम् अतीव शान्तं जातम्। सिंहस्य चिन्ता पृथुमृद्विका इति श्रुत्वा अवर्धत। तस्य अनुमानानुसारं तत्किमपि भयङ्करं वस्तु स्यात्, येन शिशोः रोदनं स्थगितम्।
तस्मिन्नेव काले वातायनात् तस्य उपरि किमपि पतितम्। सोऽचिन्तयत्, निश्चयेन एषा एव पृथुमृद्विका अस्ति इति। वास्तव्येन तस्योपरि कश्चन चौरः, यः गोहरणाय समागतः आसीत्, सः अकूर्दत। अन्धकारत्वात् सः गां मत्वा सिंहस्योपरि एव कूर्दितः। भीतः तु चौरः अपि, यदा सः गोः न अपि तु सिंहस्य उपरि आरूढः इति अजानत्। भयातीरेके सिंहोऽपि द्रतुगतिना गिरिकां प्रति अधावत्। चौरः जानाति स्म यत्, यदि सः सिंहात् पतिष्यति, तर्हि सः तं खादिष्यति एव इति। अतः सोऽपि कठोरतया सिंहम् अगृह्णात्। किञ्चित् कालोत्तरं सूर्योदये सति प्रकाशः विर्स्तीर्णः। चौरः कस्यचित् वृक्षस्य शाखां धृत्वा झटिति वृक्षम् आरूढवान्। पृष्ठात् पृथुमृद्विकायाः पतने सति सिंहोऽपि शान्ततया एकत्र अतिष्ठत्। तस्य मनसि पृथुमृद्विकायाः भयानकजीवत्वेन अवधारणा समुद्भूता आसीत्। अतः सः भगवन्तं प्रार्थयन् उक्तवान् यत्, भोः! ईश्वर! मम रक्षायै तव कोटिशः कृतज्ञताः इति। ततश्च बुभक्षया आर्तोऽपि सः गिरिकायाः कन्दरां प्रति गतः।