प्रकृतिचिकित्सा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रकृतिचिकित्सा चिकित्सापद्धतिषु अन्यतमा । अस्यां पद्धतौ प्रकृतिशक्त्या चिकित्सा क्रियते । अस्यां चिकित्सायां शस्त्रचिकित्सायाः औषधस्य च अल्पम् उपयोगं कुर्वन्ति। एषा पद्धतिः विश्वस्य अनेकाः चिकित्सापद्धतीः आश्रिता अस्ति । यथा, भारतस्य आयुर्वेदचिकित्सा युरोप्-देशस्य नेचर्-क्योर् इत्यादयाः चिकित्साः आश्रिताः । प्राकृतिकचिकित्सा प्रणालिचिकित्सायाः एकः रचनात्मकविधिः अस्ति । प्रकृतौ अधिकविद्यमानानानि तत्वानि उपयुज्य रोगस्य समूलनाशनमेव अस्याः चिकित्सायाः लक्ष्यं भवति । नकेवलं एषा चिकित्सापद्धतिः किन्तु मानवस्य शारीरान्तर्भूता महत्वपूर्णा शक्तिः उत प्रकृतितत्वानां एका जीवनशैली । अस्यां चिकित्सापद्धतौ मूलानि, शाखाः, फलानि च विविधरोगाणां नाशकाः भवन्ति इति। अल्पमूल्येन एनां चिकित्सां प्राप्तुं शक्नुमः ।

इतिहासः[सम्पादयतु]

बेनेडिक्ट् लस्ट्

प्राचीनग्रीक्-देशस्य वैद्यकीयशास्त्रस्य पितामहः “हिप्टोक्रिटिस्” अस्याः चिकित्सायाः प्रथमः चिकित्सकः इति अभिप्रायः । स्काट्ल्याण्ड्-देशे “थामस् आलिन्सन्” १८८० तमे संवत्सरे पाकृतिकाहारस्य व्यायामान् च समर्थितवान् । अमेरिकादेशस्य वायव्य-फेसिफिकप्रदेशीयाः प्रकृतिचिकित्सकेभ्यः सनिप्रकाटर् इति व्यवहरन्ति । जान् स्कील् प्रकृतिचिकित्सा इति पदप्रयोगं १८९५ तमे संवत्सरे प्रथमतया कृतवान् । समनन्तरं प्रकृतिचिकित्सायाः पितामहः इति प्रसिद्धः अमेरिकादेशस्य “बेनेडिक्ट् लस्ट्” अस्याः चिकित्सायाः प्रिसिद्धिं कारितवान् । “लस्ट्” अमेरिकादेशे प्रकृतिचिकित्सा शालां १९०१ तमे संवत्सरे स्थापितवान् । प्रारम्भे अस्याः चिकित्सायाः प्रचुरावस्था आसीत् । एनां चिकित्सां १९४० तमे संवत्सरे न्यायाङ्गेन निषेधः कृतः आसीत् । केवलं पञ्चराज्येषु अस्याः चिकित्सायाः प्रयोगार्थां अवकाशः कल्पितः आसीत् । अमेरिकादेशस्य आरोग्यसंस्था १९६८ तमे संवत्सरे एषा चिकित्सा वैद्यकीयशास्त्रस्य आधाररहिता अस्ति इति निरूपिता । एवं, रोगज्ञानार्थं प्ररिहारसूचनार्थं च अपेक्षितज्ञानं छात्रेभ्यः दातुम् एषा चिकित्साशिक्षणपद्धतिः असमर्था इति च नीरूपिता । किन्तु गच्छताकालेन अस्याः चिकित्सायाः अभिवृद्धिः जाता। सद्यः नवशालासु “अमेरिकन् नेचरोपतिक् मेडिकल् अक्रिडिटेषन् बोर्ड”-द्वारा अधीतछात्रेभ्यः प्रमाणपत्रं पदवीं यच्छन्ति ।

सिद्धान्ताः[सम्पादयतु]

प्रकृतिचिकित्सा सहजतया क्रियमाणा चिकित्सा । कृतकौषधान् , विकिरणचिकित्साम्, जैविकौषधान् च एषा चिकित्सापद्धतिः नानुमन्यते । अस्याः चिकित्सायाः षड् (६) सिद्धान्ताः सन्ति ।

  1. क्रियमाणचिकित्सया हानिः न भवेत् । अत्यन्तं परिणामयुक्ता अपायरहिता चिकित्सा भवेत् । (primum non nocere).
  2. प्रत्यकस्मिन् मनुष्ये विद्यमानां स्वयं परिहार्यमाणां स्वाभाविकां शक्तिं ज्ञात्वा, ताम् एव वर्धनीया । (Vis medicatrix naturae, a form of vitalism)
  3. न केवलं रोगलक्षणानि वारणीयानि किन्तु रोगं ज्ञात्वा रोगोत्पादकानि कारणानि वारणीयानि । (Tolle Causam).
  4. रोगीभ्यः रोगस्य विषये स्पष्टकल्पना देया । उत्साहः वर्धनीयः एवं स्वास्थ्यरक्षणे स्व स्व दायित्वं निरूपणीयम् । (Doctor as Teacher)
  5. प्रत्येकस्य व्यक्तेः आरोग्यलक्षणान् प्रभावान् च ज्ञात्वा चिकित्सा देया भवति । (Treat the Whole Person).
  6. प्रत्येकस्य अरोग्याय पूर्ववर्तिता देया । रोगं वयक्तिकतया निवारणीया एवं समुदायस्य स्तरे अपि रोगस्य निवारणार्थं पूर्ववर्तिता देया । (Health Promotion, the Best Prevention)

चिकित्सा पद्धतयः[सम्पादयतु]

(मृदा) मृद् चिकित्सा[सम्पादयतु]

मृद् महत्वपूर्णं औषधम् भवति । शरीरे विद्यमानविकाराः विजातीयपदार्थान् च मृदि विद्यामानं पृथिवी तत्वं वारयति । पृथिवी तत्वं क्रिमिनाशकं भवति ।

मृद् पट्टिकाप्रयोगः[सम्पादयतु]

उदरविकारे , शिरोवेदानायाम्, मधुमेहे, उच्चरक्तचापज्वेरे, चर्मादि रोगेषु च मृद् पट्टिकाप्रयोगः क्रियते । अङ्गानुसारं विभिन्न मृद् पट्टिकां निर्माय तत्तत्त अङ्गपीडां वारयन्ति ।

बस्ति[सम्पादयतु]

उपचारात् पूर्वं बस्तिप्रयोगं कुर्वन्ति । अनेन कोष्टशुद्धिः भवति । अस्यां चिकित्सायां गुदामार्ग, मूत्रमार्ग, अपत्यमार्ग, व्रणमुखादि मार्गेण च औषधयुक्तद्रवपदार्थान् प्रवेशयन्ति ।

जलचिकित्सा[सम्पादयतु]

वातरोगः, उदररोगः, आम्लपित्तादि रोगवारणार्थं जलचिकित्सा क्रियते । बाष्पस्नानम् , कुञ्जलस्नानम्, नेतिस्नानम्, कटिस्नानम्, पादस्नानम् इत्यादीनि अस्यां चिकित्सायाम् अन्तर्भवन्ति ।

सूर्यरश्मिचिकित्सा[सम्पादयतु]

सूर्यस्य प्रकाशेण एनां चिकित्सां कुर्वन्ति । अनया चिकित्सया शरीरे उष्णोत्पत्तिः भविष्यति, तेन अङ्गाङ्गानि उत्तेजितानि भवन्ति । वातरोगः, कफरोगः, ज्वरः, श्वासरोगः, कासः, हृदयरोगः, चर्मरोगाश्च अनया चिकित्सया निवारिताः भवन्ति ।

बाह्यानुबन्धः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रकृतिचिकित्सा&oldid=480598" इत्यस्माद् प्रतिप्राप्तम्