प्रतापविजयम्
प्रतापविजयम् | |
---|---|
'राजा' रविवर्मणा निर्मितं प्रतापचित्रम् | |
लेखकः | मूलशङ्कर माणिकलाल याज्ञिक |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
प्रतापविजयस्य प्रणयनं १९२६ ख्रीष्टाब्दे सञ्जातम् । नाटकेऽस्मिन् नवाङ्काः सन्ति ।
कथावस्तु
[सम्पादयतु]मानसिंहः प्रतापं कथयति - अनेके सामन्ता अकबरस्य अधीनतां स्वोचक्रः । सम्प्रति अकबरस्य निखिल-सामन्त-प्रधानपदम् अलङ्करोतु भवानिति । प्रतापोऽब्रवीत् - ‘सूर्यवंशोद्भवो राजा कथमेवं विधास्यति’। भोजनसमयेऽपि मानसिंहो अपमानितः । क्रोधान्धो मानसिंहो दिल्लीं गच्छन्नेवमवादीत् - 'सद्यः समेत्य शमयामि तवावलेपम्' । सद्यो मानसिंहस्य प्रयासेन हल्दीघाटीस्थाने अकबरसेनया सह प्रतापस्य भीषणं युद्धमजनि।
द्वितीयाङ्के प्रतापस्य भल्लप्रहारेण मानसिंहस्य मृत्युः सूचितः । तृतीयाङ्के रङ्गपीठे अकारप्रभृतयो दृश्यन्ते । षण्मासपर्यन्तम् अन्वेषणेनापि प्रतापस्य निवासस्थानं न ज्ञातम् अकबरेण । प्रतापस्य निग्रहार्थं गुप्तचरा नियोजिताः सन्ति। चतुर्थोकेऽकबरस्य भेदनीतिः प्रपञ्चिता । कश्चिद् दूतः प्रतापामात्यं प्रलोभयति यद्, भवान् राज्यविहीनमासन्नमृत्युं प्रतापं विहायाकबरस्य शरणं गत्वा चिरकालपर्यन्तं राज्यसुखं भुञ्जताम्।
पञ्जमाके पृथ्वीराजस्य भगिन्या अमरसिंहेन सहानुरागस्य वर्णनमस्ति । प्रतापः स्वकीयशिशूनां दुःखम् असहमानः अकबरस्य शरणम् आजिगमिषुः वर्तते। किन्तु पृथ्वीराजस्य प्रबोधनेन नैवं कृतवान् । अष्टमाङ्के वन्यजीवनखिन्नः कुमारः कुम्भलगढ़-दुर्ग-प्रासादेवासम् अभिलषति । नवमाङ्के विजयमहोत्सवसमारम्भस्य वर्णनं विद्यते।
विशेषम्
[सम्पादयतु]शङ्करस्य शैली नाट्योचितसरलतां भजते । प्रकृतिचित्रणविषये कवेः दृष्टिः पारम्परिकी । याज्ञिकेन नाटके परमोच्चकोटिकं सङ्गीतमुपस्थापितम् । प्रस्तावनायां नटी गायति -
'सुखयति मधुररसा सरसी सारसहंसविहङ्गममिथुनं विहरति मृदुरहसि' इति।
प्रतापविजये प्राकृतस्य प्रयोगो न कृतः । सर्वाणि पात्राणि संस्कृतमाश्रित्य व्यवहरन्ति ।