प्रथमसूत्रे पाठभेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


ब्रह्मसूत्रेषु अथातो ब्रह्मजिज्ञासा इति प्रथमं सूत्रम् । अत्र पाठस्वरुपविषये अस्ति महति विप्रतिपत्तिः । सर्वेषां भाष्यकाराणां मतानुरोधेन् अथातो ब्रह्मजिज्ञासा इत्येव सूत्रपाठः । परन्तु श्रीमन्मध्वाचार्याणां व्याख्यानुरोधेन ओम् अथातो ब्रह्मजिज्ञासा इति सूत्रपाठः । नैतत्परे सहन्ते अतोऽत्र विमर्शः कर्तव्यः । श्रीमन्न्यायसुधायाम् ओङ्कारस्य अथादिशब्दवदेव सूत्रावयवत्वमव्याहतमिति विस्तरेण प्रतिपादितम् । सौधवाक्यार्थश्च प्रणवदर्पणे विमृष्टः खण्डितश्च । अतः प्रणवदर्पणनिरासपुरस्सरं सौधवाक्यार्थसमर्थनमिह क्रियते । अत्र प्रणवदर्पणसारः अनूद्यते – इह केचिदोङ्कारस्य सूत्रावयवतां कल्पयन्ति । तन्न ।

अप्रमाणतयायत्र यस्योच्चारममेव न ।
तस्यावयवता तत्र शशशृङ्गार्जवोपमा ॥

ब्रह्मसूत्राद्यन्तयोरोङ्कारोच्चारणे यदि किञ्चित् प्रमाणमुपलभेमहि तदा तस्यावयवत्वं कथञ्चित्कल्पयेमहि । यदा तदुच्चारणमेवाप्रामाणिकं तदा तस्यावयवत्वकल्पनं शशशृङ्गार्जववदपहासास्पदमेव । तथाहि-

प्रत्यक्षं वा अनुमानं वा नादृष्टार्थे प्रवर्तते
श्रुतिस्त्वनन्यथासिध्दा न दृश्यत--------॥ इत्यादि ।

प्रणवदर्पणाशयनिराकरणम्[सम्पादयतु]

  1. तन्मूर्खप्रलापत्वादुपेक्षणीयम् । सुधायामेव ‘यद्यपि’ इत्यादिना साम्प्रदायिकपाठानुरोधेन आद्यसूत्रपूर्वभागे ओङ्कारस्य स्त्वे प्रत्यक्षानुमानयोर्दर्शितत्वस्योक्तत्वात् । भवदभिमतोङ्कार सहितसूत्रपाठो नास्मत्सम्मतो भ्रान्तिमूल इति चेन्न । तादृशापाठस्याभ्रान्तिमूलत्वं सम्प्रदायपरम्परागतत्वमभ्युपेत्य असंहिततया निर्देशमात्रमवलम्ब्य प्रथमसूत्रावयवत्वे विवदमानं शिष्यं बोधयितुमेतद्ग्रन्थस्य प्रवृत्तत्वेन त्वदसम्मतेरकिञ्चित्करत्वेनोक्तग्रन्थस्यादुष्टत्वात् । अन्यथा बहुषु स्थलेषु आवयोः पाठभेदस्य सत्त्वात्तथा अस्मन्मते अद्वैतिमतेऽप्यसम्मतयोरेव ‘प्रतिज्ञाविरोधाच्च’ ‘अत एव खं ब्रह्म’ इति सूत्रयोरीक्षत्यन्तराधिकराणयोः क्रमात्पठित्वा भवद्भाष्ये व्याख्यानाद् भवदभाष्यकारादीनामप्रेक्षावत्वप्रसङ्गात् ।
  2. स्रवत्यनोङ्कृतं ब्रह्म परस्तात् च विशीर्यते इति श्रुतिरेव ओङ्कारस्य सूत्रघटकत्वे प्रमाणम् । अयमर्थः श्रुतेः –‘स्रवति’ आमघटनिक्षिप्तजलवत्स्रवति अपूर्वजनकं न भवति । ‘परस्तात्’ अन्त्यभागे । ‘अनोङ्कृतं’ ओङ्कारानुसन्धानरहितम् । ‘विशीर्यते’ हिस्यते । उत्पन्ना पूर्वविघातादिना फलनिष्पादकं न भवतीत्यर्थः ।

एवञ्च एतत्श्रुत्यनुरोधेन प्रथमसूत्राद्यन्तयोः सर्वसूत्राद्यन्तयोश्च द्वौ ओङ्कारौ पठनीयौ । इमौ च ओङ्कारौ सूत्रघटकपदान्तरैस्सहोच्चरितौ अपूर्वजनकौ भवतः । नानयोरन्वयप्रतियोगिसमर्पकत्वम् । अथापि ‘ओङ्कारश्चाथ शब्दश्च’ इत्यादि गारुडपुराणवचनानुसारेण अथादिशब्दसमकक्षः कश्चन ओङ्कारः अ ङ्गीकरणीयः । अस्य तु ओङ्कारस्य अन्वयप्रतियोगिसमर्पकत्वमपि अवश्यं वक्तव्यमेव । अस्मिन् पक्षे ओम ओम् अथातो ब्रह्मजिज्ञासा ओमैति सूत्रपाठः । ओम् ओम् नमो नारायणाय ओम् इति नारायणाष्टाक्षरमन्त्र इव आद्यन्तयोः उच्चरितयोरोङ्कारयोः स्रवणविशरणाभावसम्पादकतया अपूर्वजनकत्वम् । अपरस्योङ्कारत्व तु यथा अष्टाक्षरमन्त्रघटकत्वं तथेहापि द्वयोरोङ्कारयोः प्रतिसूत्रमाद्यन्तयोरुच्चरितयोः अपूर्वजनकत्वम् अन्यस्य तु सूत्रघटकस्य अन्वयप्रतियोगिसमर्पकत्वम् ।

यद्वा चन्दिकोक्तरीत्या स्विष्टकृदादिन्यायेन एकस्यैव ओङ्कारस्य दृष्टादृष्टोभयफलकत्वे सम्भवति नोङ्कारद्वयं प्रकल्प्यम् । एवञ्च पृथक् आदावुच्चरितः एक ओङ्कारः दृष्टादृष्टोभयफलकस्स्न् अपूर्वोत्पादकः अन्वयप्र्तियोगिसमर्पकश्च भवति । अस्मिन् पक्षे ओम् अथातो ब्रह्मजिज्ञासा इति सूत्रपाठः । अथातः शब्दसमकक्षस्यापि ओङ्कारस्य पृथगुच्चरणं सर्वसूत्रेष्वनुगतिसूचनार्थम् ।

तारस्वरुपप्रकाशानुरोधेन चन्द्रिकावाक्यार्थविमर्शः[सम्पादयतु]

एतेन चन्द्रिकोक्तं, सुधा स्मृतिप्रापितासाधारणोङ्कारविषयाः; सन्न्यायरत्नावली तु ‘स्रवति’ इति श्रुतिप्रापितसाधारणोङ्कारविषयेति तयोर्विषयविभागेन विरोधपरिहरण्मप्ययुक्तमेव प्रतिभाति । सुधावाक्येन चन्द्रिकोक्तार्थस्य कथमप्यलाभात् । तस्माच्चन्द्रिकासुधासन्न्यायरत्नावली परिमळादीनामाशयोऽन्य एव प्रतिभाति । तथा हि-

सूत्रादौ सूत्रकृता ‘ओम्’ इति शब्दमच्चार्य अनन्तरम् ‘अथातो ब्रह्मजिज्ञासा’ इति सूत्रं प्रणीतम्; ‘अथातो ब्रह्मजिज्ञासा’ इति सूत्रपाठस्य सन्न्यायरत्नावलावुक्तत्वात् । परं तु स ओङ्कारः आद्यसूत्रं करिष्यामीति चिकीर्षाधीनाद्यसूत्रघटकपदामुकूलकृत्यविषय एव । आद्यसूत्रप्रणयनात्प्राक् ओङ्कारमुच्चरयिष्य इतीच्छाधीनस्वमात्रविषायककृतिविषयत्वात् । अत एवाद्यसूत्राघटकः । न चैवं सूत्राद् बहिर्भावेनोङ्कारस्योच्चारणॆ सूत्राघटकोङ्कारापेक्षया सूत्रघटकातः पदस्य कथं तृतीयत्वं युक्तमिति वाच्यम् । सूत्रवचनवेलायामोङ्कारमारभ्य अथशब्दातिरिक्तशब्दान्तरोच्चारणाव्यवधा नेन तृतीयतयोच्चारणविषयत्वरुपतृतीयत्वस्यातः पदे ओङ्कारस्य सूत्रपूर्वकालिककृतिविष्यत्वेनाऽपि निर्वाहात् ।

ननु तत्तत्सुत्रकारैरादावोङ्कारोच्चारणं कृतमित्यत्रैव प्रमाणाभाव इति चेन्न । सूत्रकर्तृणा-मुक्ताचारस्योक्तस्मृत्यैव प्रापितत्वेन तेषां शिष्टत्वादेवादावोङ्कारोच्चारणकर्तृत्वानुमानात् । न हि तैस्तदोङ्कारोच्चारणं न कृतं न् कार्यमिति वा विशेषप्रमाणमुपलभ्यते येनेदमनुमानं बाधितं स्यात् । तत्सूत्रपाठकैरपाठस्त्वन्यथासिध्द इत्युपपादितम् ।

स्यादेतत् । यदि सूत्रप्रणयनप्राक्काले तत्कर्तृभिरादावोङ्कारः पठितव्य इत्यत्र किञ्चिदनन्यथा सिध्दं प्रमाणमस्ति । न चैवम् । ओङ्कारश्चाथशब्दश्च तस्मात्प्राथमिकौ क्रमात् (ब्र.सू.भा. १.१.१) इति वाक्यस्य वेदे ओङ्कारस्य प्राथमिकत्वेनोच्चारणं यथा तथा सूत्रे अथशब्दस्य प्राथमिकत्वमित्यर्थकत्वात् । ‘क्रमात्’ इत्येतदप्येतादृशक्रमार्थकम् । ‘तृतीयोऽत उदाहृतः’ इत्यस्यापि न साधकत्वं, विष्णुना सृष्टिकाले तृतीयतयोदाह्रुतत्वस्य तद्वाक्याल्लाभेऽपि सूत्रे तृतीयतयोदाहृततत्वस्यालाभात् ।

इत्थं चायमोङ्कारः सूत्रकृताऽभिप्रायविशेषेण प्रयुक्तः । अभिप्रायस्त्वित्थम्-‘स्रवति’ इत्या द्यर्थवादानुसारेणावश्यं पठनीय ओङ्कारोऽयमेव भवन् प्रथमसूत्रेणैकवाक्यतामापन्नः अदृष्टमात्रनिर्वाहको वा भवतु, प्रथमसूत्रान्वितस्वार्थबोधनद्वारा प्रथमसूत्रसाध्यविषयसिद्ध्यादौ अभ्युच्चययुक्तिसूचको वा भवत्वित्याकारकसमूहालम्बनरुपः यथा धूमेन वा आलोकेन वा वन्ह्यनुमितिर्जायतामित्याकारकः । अभिप्रायश्चेच्छारुपः ।

न चेकस्यैवएतादृशतात्पर्यविषयत्वमदृष्टचरम् ।‘ज्योतिश्चरणाभिधानात्’ इति (ब्र.सू.१.१.२४) सूत्रस्य पृथगधिकरणतया टीकायां व्याख्यातत्वेऽपि प्राचीनटीकाकारैः ‘ज्योतिः’ इत्यादिचतुस्सूत्र्या एकाधिकरणत्वेन व्याख्याततया टिकायां व्याख्यातत्वेऽपि प्राचीनटीकाकारैः ‘ज्योतिः’ इत्यादिचतुस्सूत्र्या एकाधिकरणत्वेन व्याख्याततया मतद्वयप्रामाण्यानुरोधेन

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रथमसूत्रे_पाठभेदः&oldid=409435" इत्यस्माद् पुनः प्राप्तिः