प्रमाणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेविगेशन पर जाएँ खोज पर जाएँ

प्रमाकरणं प्रमाणम् । अथवा प्रतीयते अनेन इति प्रमाणम् । नवविधप्रमानानि सन्ति । तत्र पुनः वेदान्तिनः षट् प्रमाणानि अङ्गीकुर्वन्ति । नैय्यायिकाः चत्वारि एव प्रमाणानि इति । एवम् अत्र अनेके विकल्पाः सन्ति ।

न्यायशास्त्रे प्रमाणानि[सम्पादयतु]

न्यायशास्त्रे प्रत्यक्षम्, अनुमानम्, उपमानम् शाब्दः इति प्रमाणचतुष्टयम् अभ्युपगच्छन्ति। न्यायशास्त्रे अनुमानप्रमाणविषये महान् विचारः प्रवृ्त्तः।

प्रत्यक्षप्रमाणम्[सम्पादयतु]

इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। साक्षात्कारिणी इन्द्रियजा च या सा प्रत्यक्षप्रमा इत्युच्यते । प्रत्यक्षं द्विविधम्- सविकल्पकं निर्विकल्पकं चेति। नामजात्यादियोजनात्मकं डित्थोथं ब्राह्मणोयं श्यामोयमिति विशेषणविशेष्यावगाहि ज्ञानं सविकल्पकम्। नामजात्यादियोजनाहीनं वस्तुमात्रावगाहि किञ्चिदिदम् इति ज्ञानम् निर्विकल्पकम्।

अनुमानप्रमाणम्[सम्पादयतु]

अनुमितिकरणम् अनुमानम् । यथा पर्वतो वह्निमान् धूमाद्। अनुमाने धूमज्ञानत्रयं भवति ।

  • यत्र यत्र धूमः तत्र तत्र वह्निः इत्याकारकव्याप्तिज्ञानम् ।
  • पर्वतः धूमवान् इत्याकारक पक्षधर्मताज्ञानम् ।
  • वह्निव्याप्यो धूमवान् अयं पर्वतः इत्याकारक लिङ्गपरामर्शज्ञानम् ।

अत्र तृतीयं ज्ञानं वर्तते लिङ्गपरामर्शः । व्याप्तिबलेन अर्थगमकं लिङ्गम् । यथा धूमः अग्नेः लिङ्गम् ।यत्र यत्र धूमः तत्र तत्र वह्निरिति साहचर्यनियमः व्याप्तिः ।तस्यां गृहीतायामेव व्याप्तौ धूमोऽग्निं गमयति । अतो व्याप्तिबलेन अग्न्यनुमापकत्वाद् धूमाग्नेर्लिङ्गम् ।“यत्र यत्र धूमः तत्र तत्र वह्निः”।

उपमानप्रमाणम्[सम्पादयतु]

उपमितिकरणम् उपमानम्। अतिदेशवाक्यार्थस्मरणसहकृतं गोसदृशविशिष्टपिण्डज्ञानम् उपमानम् । उदाहरणम्--

  • गवयमजानन्नपि नागरिको “यथा गौस्तथा गवयः” इति वाक्यं कुतश्चिदारण्यकपुरुषात् शृणोति इति सादृश्यज्ञानम् ।
  • वनं गत्वा वाक्यार्थं स्मरन् यदा गोसदृश्यविशिष्टं पिण्डं पस्यति तदा तद्वाक्यार्थस्मरणसहकृतं गोसदृश्यविशिष्टपिण्डज्ञानं भवति इति अतिदेशवाक्यार्तस्मरणम् । एतत् करणं भवति अपि च उपमानम् ।
  • यदा नागरिकः वने गोसदृशपिण्डं पश्यति तदा “अयं गवयपदवाच्यः” इति ज्ञानं भवति । एतद् संज्ञासंज्ञिसम्बन्धज्ञानम्/उपमितिः/फलं भवति ।

शब्दप्रमाणम्[सम्पादयतु]

आप्तवाक्यं शब्दः। आप्तस्तु यथार्थवक्ता। शब्दः(करणम्)- पदज्ञानम्- पदार्थोपस्थितिः- शाब्दबोधः(फलम्)वाक्यार्थज्ञानम् । आप्तस्तु यथाभूतस्य अर्थस्य उपदेष्टा पुरुषः। वाक्यं तु आकाङ्क्षायोग्यता सन्निधिमतां पदानां समूहः।

  • "गौरश्वः पुरुषो हस्ती" इति पदानि न वाक्यम्। परस्पराकाङ्क्षाविरहात्॥
  • "वह्निना सञ्चति". इति न वाक्यं योग्यताविरहात्॥
  • एकैकशः प्रहरे प्रहरे असहोच्चारितानि"गामानथ" इत्यादि पदानि न वाक्यम्।सत्यमपि परस्पराकाङ्क्षायां सत्यामपि परस्पर-अन्वययोग्यतायां परस्पर सानिध्याभावात्।

अर्थापत्तिप्राणम्[सम्पादयतु]

मीमांसकाः वेदान्तिनश्च “अर्थापत्तिप्रमाणम्” इति अतिरिक्तप्रमाणम् अङ्गीकुर्वन्ति । “अनुपपद्यमानर्थदर्शनात् तदुपपादकीभूतार्थान्तरकम्पनम् अर्थापत्तिः ।” (रात्रिभोजनं विना)अनुपपद्यमानस्य पीनत्वरूपार्थस्य दर्शनात् तत् पीनत्वस्य उपपादकीभूतस्य रात्रिभोजनरूपार्थान्तरस्य कल्पनम् अर्थापत्तिः।“ येन विना यदनुपपन्नं तत् तेन कल्प्यते इति अर्थापत्तिः।” रात्रिभोजनं विना पीनत्वम् अनुपपन्नम् अतः पीनत्वं रात्रिभोजनेन कल्प्यते।

  • अर्थस्य आपत्तिः अर्थापत्तिः इति षष्ठीतत्पुरुष समासः । प्रमा इत्यर्थः ।
  • अर्थस्य आपत्तिः यस्मात् अर्थापत्तिः इति बहुव्रीहि समासः । प्रमाणम् इत्यर्थः ।

पीनो देवदत्तो दिवा न भुङ्क्तॆ इति दृष्टे श्रुते वा रात्रिभोजनं कल्प्यते । इत्युक्ते देवदत्तस्य रात्रिभोजनं विनापि पीनत्वं न उपपद्यते । अतः अनुपपद्यमानस्य पीनत्वस्य दर्शनात् पीनत्वोपपादकीभूत अर्थान्तरस्य रात्रिभोजनस्य कल्पनम् अर्थापत्तिः ।

अनुपलब्धिप्रमाणम्[सम्पादयतु]

अभावोऽपि प्रमाणाभावः । नास्तीत्यस्यार्थस्यासन्निकृष्टस्य ।

सम्बद्धलेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रमाणम्&oldid=439396" इत्यस्माद् प्रतिप्राप्तम्