प्रमाणलक्षणम्
प्रमाणलक्षणग्रन्थस्य रचयिता मध्वाचार्यः भवति। अस्मिन् ग्रन्थे प्रमाणानां लक्षणानि, विभागाः, अन्येषां मतानां प्रमाणलक्षणानांच विमर्शा कृता अस्ति। प्रमाणं यथार्थं दर्शयति। प्रमाणे द्वे, एकं केवलप्रमाणम्, अपरम् अनुप्रमाणमिति। केवलप्रमाणं नाम यथार्थज्ञानम् इत्यर्थः। केवलप्रमाणं चतुर्धा विभक्तः, ईशज्ञानम्, लक्ष्मीज्ञानम्, योगिज्ञानम्, अयोगिज्ञानमिति। भगवद् विषयकज्ञानम् ईशज्ञानं भवति। इदम् अनादि, नित्यञ्च। लक्ष्मिज्ञानम्, अनालोचनया ईशं विना अन्यसर्वविषयकज्ञानं भवति। इदं नित्यम्, अनादिच भवति। भगवदधीनं भवति। योगिज्ञानं त्रिविधं भवति। ऋजुयोगिज्ञानम्, तात्विकयोगिज्ञानं तथा अतात्त्विकयोगिज्ञानमिति। ऋजुयौगिकाः ब्रह्म, एवं ब्रह्मपदवियोग्याः चेतनाः भवन्ति। एते अलोचनया लक्ष्मीनारयणम् विना अन्यविषयकज्ञानसहिताः पूर्णप्रज्ञाः भवन्ति। आलोचनां कृत्वापि विषयाणां सम्पूर्णज्ञानं न भवति यत् तत् ज्ञानं तात्त्विकयोगिज्ञानं भवति। इतराः चेतनाः अयोगिज्ञानयुक्ताः भवन्ति। ते सात्विकराजसतामसाः भवन्ति।
अनुप्रमाणं प्रत्यक्षम्, अनुमानम्, आगमश्च त्रिधा। निर्दोषैः इन्द्रियैः उत्पन्नं ज्ञानं प्रत्यक्षम्। निर्दोषयुक्तिः अनुमानम्। निर्दोषः शब्दः आगमः भवति। अन्यानि ऐतिह्यादीनि प्रमाणानि प्रत्यक्षे अन्तर्भवन्ति। अस्य ग्रन्थाय श्री पद्मनाभतीर्थस्य, श्री जयतीर्थस्य च व्याख्याने भवतः।