प्रलम्बकूर्दनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अस्य कूर्दनप्रकारस्य चत्वारो भागाः सन्ति । यथा

धावनमार्गः[सम्पादयतु]

प्रलम्बकूर्दनारम्भो धावनादेव भवति । अयं मार्गः ३०-४० मीटरमितो भवति यश्च परीक्षणचिह्नैर्विभज्यते । प्रथमः परीक्षणबिच्नुस्तत्स्थानं विध्यते यतः कूर्दको धावनमारभते । द्वितीय उच्छलनबिन्दुः १५-२० मीटरपूर्वं भवति । इमे उभे चिह्नकूर्दकस्योत्पतनकर्त्रा पदेन स्पृष्टे भवितव्ये । धावनकाले द्वितीये परिक्षाण्चिह्न कूर्दकेन स्वस्थपूर्णया गत्याऽऽगन्तव्यं येनग्रिमेषु सञ्चारेषु स आत्मानं गतिशीलं कुर्व्न्नुत्प्लवनस्य स्थितावानयेत् । अन्तिमास्त्रयः पदसञ्चारा उत्तमाय कूर्दकाय महत्त्वपूर्ण भवन्ति । तदानीं स तरण्स्थितौ भवति शरीरे च सारल्यं तिष्ठति । अन्तिमा पदगतिः पूर्वतन्या गत्या स्वल्पा भवति यतः शरीरस्य गुरुत्वाकर्षणकेन्द्रमुच्छलनवतः पादस्योपरि पूर्णतयाऽऽयाति तथओत्पतने सौविध्यं भवति ।

उच्छलनम्[सम्पादयतु]

Long Jump Nationals

उच्छलनसमये तदबिन्दौ चेमाः शक्तयः सम्भूय कार्यं किर्वन्ति तथा भूमौ युगपद गच्छन्ति समानान्तरञ्चैकं चतुर्भुजं निर्मान्ति । अयं समानान्तरचतुर्भुज एकस्थां शक्तौ विपरिणमते येनास्याः समाना विपरीता च शक्तिः शरीरस्य गुरुत्वाकर्षणकेन्द्रादूर्ध्वभागं प्रति लभ्यते । एताः शक्तय इत्थं परिगण्यन्ते -

  1. धावनात् प्राप्ता समतलगतिशक्तिः।
  2. पृथ्व्यास्तलेन गत्यवरोधशक्तिः ।
  3. शरीरस्य भारस्तथा गुरुत्वाकर्षणशक्तिः
  4. वलितस्य पादस्योपर्युत्थानस्य तथा हस्तस्य सक्तिः ।
  5. जानोर्विस्तृतेः शक्तिश्च ।

उच्छलनबिन्दौ कूर्दको धावनगतेः प्राप्तं समतलवेगं सम्भवतः शक्तौ परिवर्तयति । इदं तदैव सम्भाव्यते यदा सोऽन्तिमेषु त्रिषु पदगमनेषु पूर्णतया सावधानो भवेदय चोत्प्लवनशालिनं पादं वेगेन शक्त्या च सरलं कर्तुं शक्यनुत । एतत्समये समुत्पतयालोर्जानोर्वेगेन शक्तया च सरलीभावः, हस्तयोरुर्ध्वदिशि शक्तिपूर्वकमुत्यापनं तथा समुत्पतिष्णोः पादस्य पार्ष्णितः पदतलं प्रति स्खलनस्य स्थितौ समन्वय आवश्यको भवति । उच्छलितुर्वक्षसस्तदोन्नमनमप्यावश्यकमस्ति ।

वायौ स्थितिः[सम्पादयतु]

वायौ स्थितिः

इदं सर्वामान्यं मतं विध्यते यत् 'पथ्व्याः सम्बन्धसमाप्त्यनन्तरं वेगशक्तिर्न वर्धते’; अतोऽधिकाधिकं दूरतोपलब्धयेऽधिककालं यावद् वायौ स्थिरीभाव एका विशिष्टा क्रिया वर्तते । एतस्याः सम्पादनाय केचन विधयः सन्ति, यथा -‘हिचकिकसेल-हेग' -प्रभृतयः ।

भूमावागमनम्[सम्पादयतु]

भूमावागमनम्
यथा यथा कूर्दकः कूर्दनस्थल्यां पतनं प्रारभते तस्योदरस्य मांसपेशीनां शक्तेः कार्यं प्रवर्तते । इमा मांसपेश्यो यावत्यः शक्तिमत्यो भविष्यन्ति तावतीभिरेव शक्तिभिः कूर्दकः स्वौ पादौ पुरः प्रसारयितुं शक्ष्यति तथाऽधिकादधिकमन्तरे स्वकूर्दने सम्मेलयितुं प्रभविष्यति । इदमन्तरं १ फुट्पर्यन्तं सारल्येन वर्धते । भूमावागमनकाले यथैव कूर्दकस्य पार्ष्णियुगलं स्थलीं स्पृशति तदा हस्तयोः पूर्णया शक्त्या स स्वीयं समस्तं शरीरं पादयोरुपरितनभागाद्ग्रे नयति । तत्र चेमाः क्रियाः सहायिकाः सम्पद्यन्ते -
  1. चिबुकस्य वक्षः प्रति नयनम्
  2. स्फिग्भ्यामग्रे नमनम्
  3. जान्वोः सङ्कोचः
  4. ह्स्तयोः पुरतो गत्या पृष्ठभागं प्रति वलनम्

इत्यं नित्याभ्यासरताः प्रलम्बकूर्दनविधौ प्राप्तप्रावीण्याः प्रत्यहं स्वस्थाः सन्तो जीवनस्य सर्वास्ववस्थासु सफला भवन्ति ।

आधारः[सम्पादयतु]

अभिनवक्रीडातरङ्गिणी

"https://sa.wikipedia.org/w/index.php?title=प्रलम्बकूर्दनम्&oldid=314700" इत्यस्माद् प्रतिप्राप्तम्