प्राण किशन सिकन्द

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
प्राण् किशन् सिकन्दः

प्राण् किशन् सिकन्दः (Pran Krishan Sikand) (जननम् १२ फेब्रवरि १९२०) हिन्दीचलच्चित्रक्षेत्रस्य प्रसिद्धः अभिनेता । १९४० तः १९९० पर्यन्तं तेन बहुषु चलनचित्रेषु अत्युत्तमः अभिनयः प्रदर्शितः । १९४० तः ४७ पर्यन्तं नायकपात्रेषु, १९४२ तः १९९१ पर्यन्तं खलनायकपात्रेषु २००७ पर्यन्तं विभिन्नेषु साहायकपात्रेषु च तेन अनुपमः अभिनयः कृतः ।

सः ३५० चलनचित्रेषु अभिनीतवान् । खन्दान् (१९४२), पिल्पिलिसाहेब् (१९५४), हलकु (१९५६) चित्रेषु तेन नायकपात्रं निरूढम् । जिस् देश् मे गङ्गा बेह्ती है (१९६०), उप्कार् (१९६७), शाहिद् (१९६५), आन्सू बन् गये फूल् (१९६९), जानि मेरा नाम् (१९७०), विक्टोरिया नं २०३ (१९७२), बी-इमान् (१९७२), झञ्जीर् (१९७३), डन् (१९७८), दुनिया (१९८४) इत्येतेषु चित्रेषु तेन अत्युत्तमः अभिनयः प्रदर्शितः अस्ति ।

प्राणेन बहवः प्रशस्तयः सम्माननानि च प्राप्तानि सन्ति । फिल्म्फेर्-उत्तमसहायकाभिनेतृप्रशस्तिः १९६७, १९६९, १९७२, जीवनसाधनप्रशस्तिः १९९७, 'विलन् आफ् दि मिलेन्नियम्' २००० च तेन प्राप्तम् । २००१ तमे वर्षे भारतसर्वकारेण पद्मभूषणप्रशस्तिः, २०१२ तमस्य वर्षस्य दादासाहेब् फाल्के प्रशस्तिः च तेन प्राप्ते स्तः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्राण_किशन_सिकन्द&oldid=474957" इत्यस्माद् प्रतिप्राप्तम्