प्रातिशाख्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेविगेशन पर जाएँ खोज पर जाएँ

शाखां शाखां प्रति प्रतिशाखं प्रतिशाखं भवं प्रातिशाख्यम्। वैदिकं व्याकरणम्।

प्रातिशाख्यस्य स्थानं वेदाङ्गेषु महत्त्वपूर्णमस्ति, यतो हि-अस्य प्रसक्तिः शिक्षा छन्दो-व्याकरणेषु त्रिषु वेदाङ्गेषु प्रसरति । शिक्षायाः, छन्दसः, व्याकरणस्य च प्रभावो लौकिके क्षेत्रे त्वस्त्येव--किञ्च वैदिके क्षेत्रेऽपि-उपर्युक्तप्रयोजनसिद्धयर्थं भवति । एतत् प्रयोजनमुद्दिश्य उव्वटकृते ऋक्प्रोतिशाख्ये प्राप्यते । तत्रोक्तं यत् -

'शिक्षाछन्दोव्याकरणः सामान्येनोक्तलक्षणम् ।

तदेवमिह शाखायामिति शास्त्रप्रयोजनम् ॥

अत्रेदं तात्पर्यमस्ति यत्-शिक्षा, छन्द. व्याकरणञ्च सामान्यनियमानां वर्णनं करोति । त एव नियमास्तद्वैदिकी-शाखायां कथं सन्त्येतदेव प्रतिपादनं प्रातिशाख्यस्य मुख्यं प्रयोजनमस्ति ।

अत्रायं निष्कर्षः-'प्रातिशाख्यम्' व्याकरणस्यैको ग्रन्थः, यस्मिन् स्वरसन्धेस्त थान्यवर्णपरिवर्तनानां नियमानामुल्लेखो वर्तते । ये नियमा वेदस्य कस्यामपि शाखायां प्राप्यन्ते, येषु च स्वराघातसहितोच्चारणपद्धतिनिर्दिष्टा विद्यते ।

अपरञ्च 'प्रातिशाख्यम्' वेदस्य लाक्षणिको ग्रन्थः, येन वेदस्य बाह्यस्वरूपं निदिष्टं भवति ।

वेदाभ्यासः पञ्चधा भवति । तद्यथा-अध्ययनम्, विचारः, अभ्यासः, जपः अध्यापनञ्च । एतदेव स्मारयति महाकवेः श्रीहर्षस्येयमुक्ति:--"अधीतिबोधाचरण प्रचारणैर्दिशा चतस्रः प्रणयन्नुपाधिभिः” । अस्मिन् पद्ये जपस्याभावो दृश्यते । अस्तु । उपर्युक्तानां पञ्चानामध्ययनादीनां ऋक्प्रातिशाख्यसूत्रेषु यथाविधिवर्णनमुप लभ्यते ।

एषु अध्ययनन्तु वेदश्रवणस्य द्योतकमस्ति । विचारादयो मननपक्षस्य द्योतकाः सन्ति । विचारश्च द्वेधा प्रवर्तते-अर्थतः लक्षणतश्च । अस्य महन्माहात्म्यं प्रकटयतो निरुक्तकारस्य यास्कस्य समीचीनेयमुक्तिरस्मा नुवोधयति, तद्यथा -

'स्थायुरयं भारहरः किलाभूत् अधीत्य वेदं न विजानाति योऽर्थम् ।

योऽर्थज्ञ इत् सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा' ॥

अत्रायमाशय:-यो हि वैदिको वेदमधीत्य तदर्थं न विजानाति स उपहासास्पदो भारवाही स्थाणुरिव, शुष्कवृक्ष इव वृषभ इव वा भवति । यो हि पद-पदार्थ विजानाति, स एव समस्तं श्रेयस्त्वं प्राप्नोति । लोके परलोके च यशस्वी भवति ।

निष्कर्षश्चायमत्र---प्रातिशाख्यस्य परिधिः पूर्वोक्तानि श्रीणि वेदाङ्गानि स्वस्मिन् समायोजयति, तथा च तद्विशिष्टशाखायां सम्भावितानां विशेषनियमानां विवरणं प्रस्तौति । महर्षिणा पाणिनिना स्वरवैदिके.-'ऋचि तुनुघमक्षुतकुत्रोरुष्याणाम्' [१]  इत्यस्मिन् सूत्रे ऋक्क्षु, तु, नु, घ, मक्ष, तङ्, कुत्र, उरुप्य इत्येतेषां पदान! व्यञ्जने परभागे स्थिते दीर्घविधानं कृतमस्ति । अयन्तु सामान्यो नियमः परञ्च । प्रातिशाख्यस्य विधानानुसारमस्यां शाखायां दीर्घविधानं सर्वस्मिन् काले न भवति शब्दा ह्रस्वभावे एव तिष्ठन्ति । फलत: 'आ तू न इन्द्र मघवन्' [२] इत्यस्मिन् यत्र 'तु' इत्यस्य दीर्घभावस्तत्रैवान्यत्र तत्तु प्रय: प्रलया ते" इत्यस्मिन दीई स्याभावो दृश्यते । अनेनैव प्रकारेण शिक्षायाः छन्दसश्च नियमानां विषये ज्ञातव्यः । इति विधानानुसारं प्रातिशाख्यमेतेषां त्रयाणां वेदाङ्गानां नियमानां विशेषरूपेण सञ्चालन करोति । अपरः पक्षश्चास्ति यत् प्रातिशाख्यस्य सर्वतन्त्रस्वतन्त्रा सत्ताऽस्तीति । शिक्षायां छन्दसि व्याकरणे च येषां नियमानां विधानं कृतमस्ति तद्भिन्ननियमाना विधानमस्मिन् प्रातिशाख्ये शास्त्रे विद्यते । एतादृशा विषयाः सन्ति—क्रमः, क्रम हेतुः, पारायणादयश्च । प्रातिशाख्यं कस्यापि शास्त्रस्याङ्गे स्वीकृते-अस्य पूर्णताया: हासो भवति । परञ्चास्ति तच्छास्त्रमनिन्द्यमार्ष पूर्ण वेदाङ्गं यत् स्वसत्तायै कस्यापि शास्त्रस्यापेक्षां न करोति ।

प्राचीने भारते संस्कृतभाषाया व्याकरणमेभ्यः प्रातिशाख्येभ्य: प्रारभ्यते । प्रातिशाख्यस्य शास्त्रेषु स्वतन्त्रा सत्ता विद्यते । प्रातिशाख्यग्रन्थेषु व्याकरणसमथिता नामनेकानां विषयाणां प्रतिपादनमस्ति । अपि चैषु ग्रन्थेषु प्राचीनानां वैयाकरणानां नामान्युपलभ्यन्ते । वैदिके काले व्याकरणशास्त्रस्याभ्युदयस्य पर्याप्त सूचकमिदं प्राति शाख्यं शास्त्रम् ।

महर्षिणा शौनकेन ऋक्प्रातिशाख्ये एतादृशाः सूक्ष्मातिसूक्ष्मा नियमा निर्दिष्टाः, यद्बलेन वयं कथयितुं समर्थाः स्मः यत्-ऋग्वेदस्य मूलपाठे अद्यापि विकृते काले न कापि क्षतिरवलोक्यते । एतत् प्रातिशाख्यस्यैव वैशिष्टयम् ।

प्रातिशाख्यानां शिक्षाधर्मिता- अस्मिन् विषये शिक्षासंग्रहप्रस्तावनायामाचार्य पादैस्त्रिपाठिभिरुक्तं यत्-वेदानां स्वरूपरक्षायां शिक्षा-व्याकरणादीनां यावन्महत्त्व मस्ति न तत ईषदपि अल्पं प्रातिशाख्यानां महत्त्वम्, प्रत्युत अस्मिन् अंशे प्राति शाख्यानि शिक्षा व्याकरणादिभ्यो विशेष्यन्ते एव, यद् व्याकरणादीनि प्रायो वेदे सामान्ये विषयकाणि प्रातिशाख्यानि तु शाखाविशेषमवलम्ब्यैव प्रवृत्तानि ।

ऋक्प्रातिशाख्यम्[सम्पादयतु]

प्रातिशाख्यग्रन्थेषु ऋक्प्रातिशाख्यं प्राचीनतायाः प्रामाणिकतायाश्च विषये स्वमहत्त्वपूर्ण स्थान निर्धारयति । परिषदि प्रचारितत्वात्- इदं प्रातिशाख्यं पार्षद पारिषदं सूत्रं वेति नाम्ना प्रख्यातमस्ति । विष्णुमित्रेणास्य पार्षदस्य रचयिता शौनकः स्वीकृतः । प्रातिशाख्यमिदं शिक्षाविषयप्राधान्यात् शिक्षाशास्त्रमिति नाम्नाऽपि व्यवह्रियते।

अस्मिन् प्रातिशाख्ये ऋग्वेदस्यकमात्रोपलब्धायाः शाखायाः शैशिरीयोपशाखायाः साङ्गोपाङ्गं विवेचनमस्ति, तेनास्य रचयितुः शौनकस्य भाषाशास्त्रीयमध्ययनं प्रमाणितं भवति ।

वाजसनेयि प्रातिशाख्यम्[सम्पादयतु]

मुनिना कात्यायनेन विरचितं शुक्लयजुर्वेदस्य प्रातिशाख्यं विद्यते । अयं कात्या यनोऽष्टाध्यायीवातिककाराद्भिन्नो वा -- इत्यस्मिन् विपयेऽधुनापि मतवादः प्रचलति । अस्मिन विषये आचार्यपादानामस्मद्परमगुरूणां श्रीमतां बलदेवोपाध्यायानां सुस्पष्टमस्ति यत-इमे प्रातिशाख्यकर्तारः कात्यायना वातिकाराद्भिन्नाः सन्तीति नास्त्य सन्देहावसरः, इमे तु महर्षेः पाणिनेरपि प्राचीनतराः सन्ति।

अस्मिन् प्रातिशाख्ये अष्टावध्याया गुम्फिता: सन्ति । येषु परिभाषा-स्वर संस्काराणां त्रयाणां विषयाणां विस्तृत सर्वाङ्गीणं विवेचनमस्ति ।

तत्र प्रथमेऽध्याये-वर्णोत्पत्ति-अध्ययन विधि-संजापरिभाषा-वर्णानामुच्चारणस्था नादीनां वर्णनं विद्यते ।

द्वितीयेऽध्याये--स्वर-नियमा: ।

तृतीयेऽध्याये—सन्धेनियमाः ।

चतुर्थेऽध्याये-सन्धेः, पदपाठस्य क्रमपाठस्य चापेक्षिता नियमाः क्रमशः प्रति पादिताः सन्ति ।

पञ्चमेऽध्याये—अवग्रहनियमा: । समासे द्वयोः पदयोः पृथग् ग्रहणमवग्रह उच्यते, यो हि ह्रस्वस्य स्वरस्येवंकमात्रिको भवति ।

षष्ठाध्याये-आख्यातस्योपसर्गस्य च नियमाः ।

सप्तमेऽध्याये-परिग्रहस्य नियमाः। परिग्रहस्यार्थो भवति--मध्ये इंति शब्द स्थापयित्वा पदस्य पुनरावर्तनम् ।

अष्टमेऽध्याये-वर्णसमाम्नायस्य विस्तृत विवेचनम् । तत्र वर्णमाला-अध्ययन विधिः, वर्णानां देवता, पद-चतुष्टयन्तेपाञ्च गोत्र-देवतादीनां प्रख्यापनम् ।

एभिरुपर्युक्तैविवरणैर्ज्ञायते यत्-वाजसनेयिप्रातिशाख्ये मुख्यरूपेण षण्णां विषयाणां विवेचनं प्रस्तुतमस्ति । यथा- (१) वर्णविचारः, (२) स्वरविचारः, (३) सन्धिविचार:, ( ४ ) पदपाठविचारः, ( ५ ) क्रमपाठविचारः, वेदाध्ययनविचारश्च ।

भाषाविज्ञानदृष्टया-वाजसनेयिप्रातिशाख्यस्य महत्त्वपूर्णं वैशिष्टयं विद्यते । अस्मिन् मुनिना कात्यायनेन यत्प्रतिपादितं तत् विशदं, तलस्पर्शी-भाषाविज्ञान समन्वितमस्ति । इमे महान्तः स्वविषयस्य विशेषज्ञा विशिष्टा विद्वांस आसन् । तैश्च स्वतुलनात्मिकया दृष्टया बहूनां प्राचीनाचार्याणां मतान्यालोच्य तन्निरूपणं कृतम् । कात्यायनप्रातिशाख्यस्य द्वे व्याख्ये प्रकाशिते स्तः । अनयोरेकं उव्वटकृतं मातृवेदसंज्ञकं भाप्यमपरञ्चानन्तभट्टविरचितं 'पदार्थप्रकाशक'नामकं भाष्यमिति । प्रतिज्ञासूत्रं भाषिकसूत्रञ्च स्वल्पकलेवरात्मकं सूत्रद्वयं कात्यायनप्रातिशाख्यस्य परि शिष्टरूपं ज्ञातव्यम् । तद्विवरणं यथा संक्षेपेण--

प्रतिज्ञासूत्रे शुक्लयजुर्वेदस्य स्वरादिनियमानां विवरणमस्ति । अस्य सूत्रस्य व्याख्यातारः सन्ति-अनन्तदेवयाज्ञिकाः, ये खलु अनन्तदेवभट्टस्य वापरं नाम इति प्रतीयते । अस्य व्याख्यायामुच्चारणस्य वर्णानां सम्बन्धस्य पारस्परिकस्य च विषये नूतनं विज्ञापनं प्राप्यते । शुक्लयजुर्वेदे मूर्धन्यषकारस्योच्चारणं कवर्गीय'ख'सदर्श तरी च 'य'कारस्योच्चारणं चवर्गीय 'ज' कारवत् भवति । परञ्च द्वयोरुच्चारणमेकाका नास्ति, प्रत्युत तत्सदृशमेव भवति । उच्चारणमिदं 'ष'-'ख'कारयोर्मध्यवर्तियकार जकारयोश्च मध्यत्तित्वं विशिष्टरूपेण भवति ।

भाषिकसूत्रे[सम्पादयतु]

प्राधान्येन शतपथब्राह्मणस्य स्वरसञ्चारनियमानां विधानमस्ति सहैव कतिपयानां सम्प्रत्यनुपलब्धानां ब्राह्मणग्रन्थानामपि स्वरसञ्चारस्य सङ्केतो. पलभ्यते । वेदस्य स्वरविधानस्य विधिवद् ज्ञानायास्य ग्रन्थस्य विवरणं नितान्तमप युक्तं प्रामाणिकञ्च सेत्स्यति । अत्राप्यनन्तदेवस्य व्याख्योपलभ्यते ।

तैत्तिरीयं प्रातिशाख्यम्[सम्पादयतु]

तैत्तिरीय( शाखया )संहितया सम्बद्धमिदं प्रातिशाख्यं प्रश्नद्वये खण्डद्वये विभक्तमस्ति । प्रत्येकस्मिन् प्रश्ने द्वादश अध्यायाः सन्ति । इत्थं सूत्रात्मकोऽयं ग्रन्थ चतुर्विंशत्यध्यायेषु विभक्तोऽस्ति । विषयाणां प्रतिपादनं सुव्यवस्थितं प्रामाणिकञ्च विद्यते।

तत्र प्रथमे प्रश्ने-वर्णसमाम्नायस्य, शब्दस्थानस्य शब्दोत्पत्तिप्रकारस्य, विविध स्वर-विसर्गसन्धीनां, मूर्द्धन्यविधानादिविषयाणां सुस्पष्टं विवेचनमस्ति ।

द्वितीये प्रश्ने, नकारस्य णत्वविधानस्य, अनुस्वारस्य-अनुनासिकस्य, अनु नासिकभेदस्य, स्वरितभेदस्य, संहिता-स्वरूपादेरनेकोपादेयविषयाणाञ्च प्रतिपादनमत्र विद्यते । स्वसंहितया सम्बद्धत्वात् सम्पूर्णान्युदाहरणानि तैत्तिरीयसंहितागतान्येव सन्ति ।

अस्य भूयस्यो व्याख्यासम्पदः सन्ति । प्रकाशितासु तिसृषु व्याख्यासु माहिषेयकृत 'पदक्रमसदन'नामकं भाष्यमतीव प्राचीनतमं विद्यते । यतो ह्यस्य द्वितीयेन व्याख्या कारेण 'सोमयार्य' इत्याख्येन स्वत्रिभाष्य रत्ने माहिषय-आत्रेय-वररुचीनां प्राचीनाना व्याख्यानामुपयोगः कृतः । तासु व्याख्यासु–माहिषेयभाष्यमिदं सर्वप्रथमं स्थान धारयति । तस्मिन् निर्दिष्टानि समस्तान्युद्धरणानि अत्रोपलभ्यन्ते । ‘पदक्रमसदन अन्वर्थकमिदं नाम । ... वेदविदां मतेन वैदिकपाठस्य द्वौ भेदौ भवतः, प्रथमः प्रकृतपाठः द्वितीयश्च विकृति पाठः । तत्र प्रथमे प्रकृतपाठे संहिता-पदक्रमपाठाश्च भवन्ति । तथा च शिखा-माला घनाद्यष्ट विकृतिपाठा भवन्ति । एषु प्रातिशाख्यानां प्रतिपाद्यो विषयः प्रकृतिपाठ स्तथा तत्सम्बद्धं स्वरसन्धिविवेचनं भवति । अनया दृष्टया माहिषेव भाष्यस्य ‘पदक्रम सदन' इति नाम सार्थकमस्ति । भाष्यमिदं संक्षिप्तं लघुकायमुपादेयञ्चास्ति । सोम यार्यस्य 'त्रिभाष्यरत्नम'स्मादर्वाचीनमस्ति । गोपालयज्वाविरचितं वैदिकाभरणन्तु अनयोयोरपेक्षया रचनाकालदृष्टया नवीनमस्ति । एतास्तिस्र व्याख्याः प्रामाणिकाः प्रमेयबहुलाः, व्याकरणस्यान्तस्तत्त्वसमुद्घाटका नितरामुपयोगिन्यश्च विद्यन्ते ।

सामवेदीयं प्रातिशाख्यम्[सम्पादयतु]

विद्वांसः समीक्षकाः कथयन्ति यत्-सामवेदस्यानेकानि प्रातिशाख्यानि प्रकाशि तानि सन्ति , तेष्वेतानि मुख्यानि सन्ति । तद्विवरणञ्च यथा समासेन- .

(क) पुष्पसूत्रम[सम्पादयतु]

ऋषिणा पुष्पेण प्रणीतत्वादिदं प्रातिशाख्यं पुष्पसूत्रमिति नाम्नाऽभिधीयते । अस्मिन् दश प्रपाठकाः सन्ति । अस्योपरि उपाध्यायस्याजातशत्रोः कतं भाष्यं प्रकाशितमस्ति । प्रस्तुतमिदं प्रातिशाख्यं गानसंहितया सम्बन्धितमस्त्यत एवास्मिन् स्तोमस्य बहुलांशेन विवेचनमस्ति । अपि च तादृशानां स्थलविशेषाणां मन्त्राणाञ्चोल्लेखाः सन्ति, येषु स्तोभानां विधानमपवादो भवति । सङ्गीतोपयोगि सामग्रीणां सङ्कलनेन सू त्रमिदं नितरामुपयोगितां विति । अस्मिश्च मुख्य रूपेण वेय गाने अरण्ये गेयगाने च प्रयुक्तानां साम्नामूहह्न मन्त्रेषु कथं केन वा रूपेण भवती त्यस्य विशदं विवेचनमस्ति ।

हरदत्तरभिताया: सामवेदीयसर्वानुक्रमण्या: आधारमाधृत्य पुष्पसूत्रस्य फुल्ल सूत्रस्य वा रचयिता सूत्रकारो वररुचिः । अस्य पुष्पसूत्रस्योपरि उपाध्यायस्याजात शत्रो मकस्य कस्यापि ग्रन्थकारस्य व्याख्या उपलभ्यते ।

(ख ) ऋक्तन्त्रम्[सम्पादयतु]

पुस्तकमिदं सामवेदस्य कौथुमशाखायाः प्रातिशाख्यमस्ति । अस्मिश्चान्यप्रातिशाख्येषु वर्ण्यविषयैस्सह एषां विषयाणामपि अतिशयेन साम्य मस्ति । ग्रन्थस्य पुष्पिकायामिदं 'ऋक्तन्त्रव्याकरणम्' इति नाम्ना निर्दिष्टमस्ति । अशीत्युत्तरद्विशतसूत्रेषु पञ्चप्रपाठकेष्वध्यायेषु वा विभक्तमिदं ऋक्तन्त्रम्। अस्य रचयितारः सन्ति सुप्रसिद्धा वैयाकरणाः शाकटायननामधेयाः । येषां निर्देशा यास्कस्य पाणिनेश्च ग्रन्थेषुपलभ्यते । अक्षरोदयज्ञानवैशिष्टयमत्र वणितमस्ति । तत्पश्चाच्च व्याकरणस्य विशिष्टानां पारिभाषिकशब्दानां लक्षण निर्देशः प्राप्यते । वर्णाक्षराणामुच्चारणस्थाननिरूपणानन्तरं सन्धेविवरणं वैशद्येन प्रतिपादितमस्ति । पदान्ताक्षराणां विविधपरिवर्तनानां निरूपणं सन्धेः प्रसङ्गे महत्त्वाधायकम्पादेय ञ्चास्ति । तदुदाहरणञ्च यथा—अन्तिमनकारस्य विसर्जनीये परिवर्तनं यथा--ऋतून + अनु = ऋतुरनु, रेफविशिष्टशब्दानां विसर्गस्य रेफे परिवर्तनम् —प्रातरग्नि, प्रातर्जुपस्व इत्यादौ । इत्थमत्र व्याकरणस्य गूढतथ्यानां विवेचनमुपलभ्यते ।

अतो निश्चीयते यदिदं प्रातिशाख्यं स्वमूलस्वरूपे पाणिनेः पूर्वमासीदिति । तस्मात् परिभाषाविधाने सूत्राणां रचनायाञ्च यद्यष्टाध्याय्यामेतस्य विपुल: प्रभावो दृश्यते तदा नात्राश्चर्यस्य किमपि कारणमवशिष्टमस्ति । यास्केनापि एतस्य विशिष्टमतानां निर्देशो विहितः स्वमहनीये ग्रन्थे ।

ऋक्तन्त्रव्याकरणस्य रचयितुर्विषये मतद्वयं विद्वन्मण्डले विराजते। तत्र प्रथमे पक्षे शाकटायनः, द्वितीये पक्षे च 'औद् व्रजिः' । अत्र विदुषां सम्मतं मतमस्ति यदेको व्यक्तिगतनाम्ना द्वितीयश्च गोत्रजनाम्नेति समन्वयः । अन्यच्च-गोभिल गृह्यसूत्रस्य व्याख्यातुर्भट्टनारायणस्य 'राणायनीयानाम् ऋक्तन्त्रप्रसिद्धा विसर्जनी यस्याभिनिष्ठानाख्या' इति कथनानुसारेण ऋक्तन्त्रस्य सम्बन्धो राणायनीयशाखया सह स्वीक्रियते । कथनस्याभिप्रायोऽयमत्र राणायनीयशाखान्विताया सामसंहिताया मूला धारं स्वीकृत्य ग्रन्थोऽयं विनिर्मित इति । अस्यैव सक्षेपीकरणं कृत्वा केनाप्याचार्येण 'लघु ऋक्तन्त्रम्' इति नाम्ना विरच्य प्रख्यायितम् ।

अथर्ववेदीयं प्रातिशाख्यम्[सम्पादयतु]

वैदिकवाङ्मयेऽथर्ववेदस्य प्रातिशाख्यद्वयं प्रख्यातमस्ति । तत्र प्रथमत्वेन चचिती शौनकीया चतुरध्यायिकाऽस्ति । पाश्चात्यविदुषा डॉ० ह्विटनीमहाशयेनेयं शौनकीया सानुवादा प्रकाशिता। चतुर्वध्यायेष विभक्तमिदं प्रातिशाख्यम् । ह्विटनीप्रकाशि ग्रन्थे शौनकस्य नामनिर्देशात् तन्नाम्नैव नामकरणमभूत् । सत्यन्त्विदमस्ति यत् । नामलेखकयोर्मध्ये महदन्तरं तिष्ठति ।।

सम्पूर्णानन्दसंस्कृतविश्वविद्यालये---सरस्वतीभवने सुरक्षिते हस्तलेखे कौत्स. व्याकरणमिति नाम्ना विज्ञापितमिदं प्रातिशाख्यग्रन्थलेखकेन । तत्र पुष्पिकायां वर्तते 'इत्यथर्ववेदे कौत्सव्याकरणे चतुरध्यायिकायां ... 'पाद इति'। कोऽयं कौत्सः, महाभाष्यचचितः पाणिनेः शिष्यः उत अन्य: ? किं द्वावप्यभिन्नावेव ? समीक्षण मपेक्षते एष विषयः ।

अथर्ववेदप्रातिशाख्यम्[सम्पादयतु]

अथर्ववेदप्रातिशाख्ये—प्रातिशाख्यविषयका केचन एव विषयाः समाख्याताः सन्ति । सन्धेः, स्वरस्य पदपाठस्य च नियमा अत्र प्रदर्शिताः सन्ति । येषु स्वरवर्णन मधिकेन विस्तरेणास्ति । प्रातिशाख्यमिदं पारिभाषिकशब्दानां तथा प्रयोगो न करोति यथाऽन्यप्रातिशाख्येषु नियमत उपलब्धा भवन्ति । शाकल्याचार्य परित्यज्य न केषामप्यन्येषामाचार्याणामुल्लेखोऽत्र मिलति । उभावपि ग्रन्थौ पारस्परिकसहयोगे नाथर्ववेदस्य समग्रान् विषयान् निरूपयतः = प्रस्फुटीकुरुतः ।।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. ६।३।१३३
  2. ऋक्० ४।३२।१
"https://sa.wikipedia.org/w/index.php?title=प्रातिशाख्यम्&oldid=470484" इत्यस्माद् प्रतिप्राप्तम्