प्लाक्षफलम्
Ficus carica – Common fig | ||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Drawing of the common fig foliage and fruit
| ||||||||||||||||||||
संरक्षणस्थितिः | ||||||||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||||||||
| ||||||||||||||||||||
द्विपदनाम | ||||||||||||||||||||
Ficus carica L. | ||||||||||||||||||||
पर्यायपदानि | ||||||||||||||||||||
| ||||||||||||||||||||
एतत् प्लाक्षफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् प्लाक्षफलम् अपि सस्यजन्यः आहारपदार्थः । इदं प्लाक्षफलम् आङ्ग्लभाषायां common fig इति उच्यते । एतत् प्लाक्षफलम् अकृष्टपच्यम् अपि । प्लाक्षफलम् देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् प्लाक्षफलं वस्तुतः मरुभूमौ सम्यक् वर्धते । तद्विना अन्यत्र अपि इदानीं वर्धयन्ति । इरान्, अफघानिस्तानम्, अरब्, भारतम् इत्यादिषु देशेषु प्लक्षवृक्षस्य वर्धनं महता प्रमाणेन वर्धयन्ति ।
एतत् प्लाक्क्षवृक्षे वर्षे द्विवारं फलोदयः भवति । एषः कश्चन विशिष्टः वृक्षः । परागस्पर्शं विना एव पुषितः, फलितः च भवति । वर्षद्वयस्य वयसि एव फलितः भवति अयं वृक्षः । एतत् प्लाक्षफलम् आम्लमिश्रितमधुररुचियुक्तम् । एतानि फलानि शुष्कीकृत्य संरक्ष्यन्ते । तादृशानां शुष्कफलानां, तस्य फलस्य चूर्णस्य च अपेक्षा सर्वत्र अस्ति । अस्य प्लाक्षवृक्षस्य पर्णानि महाकारकाणि । एते वृक्षाः ८ तः १० पादमितानि उन्नतानि भवन्ति । मार्च, मे, जुलै, सेप्टेम्बर् मासेषु फलिताः भवन्ति अपि ।
आयुर्वेदस्य अनुसारम् अस्य प्लाक्षफलस्य स्वभावः
[सम्पादयतु]- १ अस्य प्लाक्षफलस्य सेवनेन शरीरस्य भारः वर्धते ।
- २ प्लाक्षफलं चर्मरोगं निवारयति ।
- ३ प्लाक्षफलस्य सेवनेन शरीरस्य औष्ण्यं न्यूनं भवति ।
- ४ प्लाक्षफलं रक्तपुष्टिं करोति ।
- ५ एतत् प्लाक्षफलं मूत्तावरोधं निवारयति ।
- ६ अस्मिन् प्लाक्षफले शर्करापिष्टं, ससारजनकं, रञ्जकं, सुधा, 'ए' जीवससत्वम् इत्यादयः पोषकांशाः अत्यधिकप्रमाणेन सन्ति ।
- ७ एतत् प्लाक्षफलं शुष्कफलत्वेन यथा उपयुज्यते तथैव अवलेहस्य, जाम्, केक्, पेस्ट् इत्यादीनां निर्माणे अपि उपयुज्यते ।
- ८ एतत् प्लाक्षफलं रक्तस्रावम् अपि स्थगयति ।
- ९ प्लाक्षफलस्य सेवनेन शीतलारोगः अपि अपगच्छति ।