फलकम्:योजकः:Vibhijain/Test
| श्रीपराशर उवाच
इत्युक्त्वान्तर्दधे विष्णुस्तस्य मैत्रेय पश्यतः । स चापि पुनरागम्य ववन्दे चरणौ पितुः ॥ तं पिता मूर्ध्न्युपाघ्राय परष्विज्य च पीड़ितम् । जीवसीत्याह वत्येति बाष्पार्द्रनयने द्विज ॥ प्रीतिमांश्चाभवत्तस्मिन्ननुतापी महासुरः । गुरुपित्रोश्चकारैवं शुश्रूषां सोऽपि धर्मवित् ॥ पितर्युपरतिं नीते नरसिंहस्वरूपिणा । विष्णुना सोऽपि दैत्यानां मैत्रेयाभूत्पतिस्ततः ॥ ततो राज्यद्युतिं प्राप्य कर्मशुद्धिकरीं द्विज । पुत्रपौत्रांश्च सुबुहूनवाप्यैश्वर्यमेव च ॥ क्षीणाधिकारः स यदा पुण्यपापविवर्जितः । तदा स भगनद्धयानात्परं निर्वाणमाप्तवान् ॥ एवंप्रभावो दैत्योऽसौ मैत्रेयासिन्महामतिः । प्रह्लादो भगवद्भक्तो यं त्वं मामनुपृच्छसि ॥ यस्त्वेतच्चरितं तस्य प्रह्लादस्य महात्मनः । शृणोति तस्य पापानि सद्यो गच्छन्ति सङ्क्षयम् ॥ अहोरात्रकृतं पापं प्रह्लादचरितं नरः । शृणवन् पठंश्च मैत्रेय व्यपोहति न संशयः ॥ पौर्णमास्याममावास्यामष्टम्यामथ वा पठन् । द्वादश्यां वा तदाप्नोत गोप्रदानफलं द्विज ॥ प्रह्लादं सकलापत्सु यथा रक्षितवान्हरिः । तथा रक्षति यस्तस्य शृणोति चरितं सदा ॥ |
एतद सुभाषितम्स्य प्रभव ऋग्वेद अस्ति।