फलकम्:Jashwanthbv

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया वेदगणितपद्धतिः । शून्यं, दशांशपद्धतिः, सङ्खयाः, मूल्यम् इत्यादयः बहवः अंशाः भारतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः । "पैथगोरियन्" सिद्धान्तः इति यत् इदानीं पाठ्यते (कर्णवर्गः = पादवर्गः + लम्बवर्गः) स च सिद्धान्तः पैथगोरस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरूपितः आसीत् । भास्कराचार्येण लीलावत्यां

"तत्कृत्योगपदं कर्णः दोष्कर्णवर्गयोर्विवरात् । मूलं कोटिः कोटिश्रुतिकृत्योः अन्तरात् पदं बाहुः "॥ अध्य समग्रे प्रपञ्चे उपयुज्यमानाः अङ्का (1,2,3,....) शून्यं (०) दशमानपद्धतिश्च भारते वर्षे अन्वैष्यन्त। रोमन् पद्धत्या संख्यानां लेखने महत् कष्टं सकलैरनुभूयते स्म। अतः तत् त्यक्त्वा सर्वे देशाः भारतान्विष्टां पद्धतिमेव स्वीचक्रुः। इयं पद्धतिः अरबाणां द्वारा यूरोपं प्राप। अतः इमां 'अरबीया पद्धतिः' , 'अरबीयाः अङ्काः' इति केचन भ्रान्त्या व्यवहरन्ति। अङ्कगणितम्: अङ्कगणितं, पातटीगणितमिति च arithmetic इत्याख्यं शास्त्रं संस्कृते व्यवह्रियते। पाटीगणितग्रन्थेषु आचार्यभास्करस्य लीलावती मूर्धन्या। तत्र दशगुणनया शतसहस्रादिसंख्यानां गणना कथं प्रवर्तत इति इत्थं सूचितम्-भास्कराचार्यः न केवलं गणितशास्त्रवित्, अपितु श्रेष्ठः कविरपि। अतः सः क्लिष्टाः गणितसमस्या अपि सरलया शैल्या प्रकृतिरम्यां दृश्यावलीं उपवर्णयन् प्रस्तौति।एकं उदाहरणम् अत्र दीयते- प्राचीनगणितम्: आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया वेदगणितपध्दतिः । शून्यं, दशांशपध्दतिः, सङ्ख्याः मूल्यम् इत्यादयः बहवः अंशाः भरतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः । पैथगोरियन् सिध्दान्तः इति यत् इदानीं पाठ्यते (कर्णवर्गः उ पादवर्गः अ लम्बवर्गः)स च सिध्दान्तः पैथगोरसस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरुपितः आसीत् । भास्कराचार्येण लीलावत्यां –

'तत्कृत्योर्योगपदं कर्णः दोष्कर्णवर्गयोर्विवरात् ।' 'मूलं कोटिः कोटिश्रुतिकृत्योः अन्तरात् पदं बाहुः ॥' इति उच्यते ॥ पिङ्गलाचार्यः छन्दः शास्त्रे मेरुप्रस्तारम् अधिकृत्य यत् प्रतिपादयति तदेव पास्कल्नामकेन अन्विष्टम् इति वयं पाठ्यपुस्तकेषु पठामः ॥ अहो, विचित्रा अस्माकं विद्याभ्यासरीतिः !

गणितशास्त्रग्रन्थकारेषु आर्यभटः, वराहमिहिरः, भास्करः, महावीरः,श्रीधरः, द्वितीयः भास्करः इत्यादयः गणनार्हाः। आर्यभटः आर्यभटः (४७६ - ५५०) एक: महान् गणितज्ञः, ज्योतिर्विदः च आसीत्। तस्य जन्म अश्मकदेशे अभवत्। सः कुसुमपुर्याम् अपठत् अवसत् च। यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम् अलिखत्। केषाञ्चन वर्षाणाम् अनन्तरं सः आर्यभटीयसिद्धान्तम् अलिखत्। सः गुप्तकाञ्चनकाले अवसत्। एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्दशी आसीत् इति। आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घनमूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, कालविभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति। 'मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते’ इति स्वग्रन्थे उक्तवान् अस्ति एषः । अस्मिन् चत्वारि खण्डानि सन्ति। भास्करः एतत् पुस्तकम् अश्मकतन्त्रम् इति कथयति। गणितज्योतिषविषययोः लिखित: ग्रन्थ:। तत्र वराहकल्पस्यास्य सप्तमे मन्वन्तरे वर्तमानाष्टाविंशच्चतुर्थुगस्य कल्पादेः खखषट्वर्गमिते (३६००) सौराब्दे गते त्रयोविंशतिवर्षे आचार्यार्याभट: पुरातनानि कालक्रियागोल- लौकिकगणित – प्रतिपादकानि शास्त्राणि कालदैर्घ्यायत्तसम्प्रदायविच्छेदग्रन्थवैकल्यादि जनितेन दृग्गणितविसंवादेनाकिञ्चित्करण्यालोच्य समदृग्गणितं ज्योतिश्शास्त्रं चिकीर्षुः तादृशज्योतिर्ज्ञानबीजलाभाय ज्योतिश्छक्रग्रहादेरादिवक्तारं भगवन्तं स्वयम्भुवम् अमलैस्तपोभिराराधयामास । ततः प्रसन्नो भगवांस्तस्मै तादृशमतीन्द्रियम् अतिरहस्यभूतं कालक्रिया गोलज्ञानबीजमुपदिदेश । तानि च ग्रहादिमध्यमानयने प्रमाणराशिः । युगरविमासाश्च युगरव्यब्दोपदेशाद् वर्षस्य च द्वादशमासत्वेन लोकसिध्दत्वाद्, युगरव्यब्दद्वादशगुणनयैव सिध्दयन्ति । रविशशियोगस्य चान्द्रमासत्वाद् रविशशिभगणविशेष एव चान्द्रमासा भवन्ति ।एकस्य चान्द्रमासस्य त्रिंशत्तिथ्यात्मकत्वेन प्रसिध्दत्वात् ते त्रिंशदगुणिता युगतिथयः स्युः अवमदिनस्य शशिसावन दिनन्तरत्वाद् युगसावनयुगचन्द्रदिनान्तरं युगावमदिनानि । आन्द्रसौरमासान्तरस्य अधिकमासत्वप्रसिध्द्या युगाधिमासानयनमपि स्पष्टम् । एवम् एतैः परिकरभूतैरिष्टकालत्रैराशिकेन गत सौरमासतिथिषु याताधिकावमादीनि संसाध्य गतमासतिथिषु तद्योगशोधनेन कलियातदिनानि ज्ञातुं शक्यन्ते । तानि च इच्छाराशिः । फलराशिश्च इष्टग्रहादेर्युगभगणाः । एवमेतैस्रैराशिकगणितेन ग्रहमध्यमाः सिध्यन्ति । उच्चमध्यमे ग्रहमध्यमे च ज्ञाते उच्चमध्यमसमो ग्रहमध्यम एव स्फुटः । वराहमिहिरः वराहमिहिर: कश्चित् भारतीय: ज्योतिषी गणितशास्त्रज्ञ: च आसीत्। एषः उज्जयिनीनगरे राज्ञ: विक्रमादित्यस्य अस्थाने आसीत् । खगोलं, ज्योतिषं गणितं चेति ज्योतिश्शास्त्रस्य त्रयः विभागाः । खगोलं ग्रहचलनादिकं ज्ञापयति । मानवजीवने ग्रहादीनां प्रभावं निरुपयति ज्योतिषम् । एतेषां फलं निर्णयति गणितम् । एषः अवन्तिनिवासी आसीत् , आदित्यदासः एतस्य पिता आसीत् इति च ज्ञायते । पञ्चसिद्धान्तिका, लघुसंहिता, वाराहीसंहिता, बृहज्जातकम् इत्येते ग्रन्थाः एतेन रचिताः सन्ति । तत्र बहुज्जातकं सुप्रसिद्धम् ।अतः एषः ग्रन्थः ‘लघुविश्वकोषः’ इत्येव परिगण्यते । पूर्वकृतीनाम् आधारेण ग्रन्थं रचितवान् एषः तत्र तत्र आधारग्रन्थान् अपि उल्लिखति ।पञ्चसिद्धान्तिकाग्रन्थे एतस्मात् पूर्वकालिकस्य भारतीयज्यौतिषस्य विषयाः सङ्गृहीताः । अत्र ग्रहाणां चलनस्य, अक्षांश- रेखांशयोः विषयस्य च निरुपणं विद्यते । ग्रन्थेऽस्मिन् रोमन्खगोलविज्ञानसम्बद्धः रोमकसिद्धान्तः, अलेग्साण्ड्रियादेशस्थपाल्महोदयेन निरुपितः पौलिशसिद्धान्तश्च अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=फलकम्:Jashwanthbv&oldid=288937" इत्यस्माद् प्रतिप्राप्तम्