फलकसम्भाषणम्:शिखरं गच्छतु
विषयः योज्यताम्Rinku Sharma
• अभिप्रेरणाधिगमयो: संवंध:
शिक्षणाधिगम प्रक्रियायां अभिप्रेरणाया: महत्वपूर्ण स्थानमस्ति। अभिप्रेरणाया: समुचित प्रयोगेण अध्यापक: शिक्षणाधिगम प्रक्रियायां सम्यग् रूपेण संपादनं कर्तुं शक्यते । यस्य बालकस्य कृते अभिप्रेरणा दत्ता स्यात् चेत् बालक: ज्ञानार्जनाय तत्परा: भवन्ति। तथा च ते शीघ्रतया, सरलतया, सहजतया, सुगमतया, अधिगमे दक्षा: भवन्ति तदतिरिक्त अ- अभिप्रेरित बालकानां कृते नवीन वस्तूनां ज्ञाने रुचि नास्ति । तथा ते अधिगमे काठिन्यं अनुभवन्ति । अध्यापक: आवश्यकतानुसारेण विविध अभिप्रेरकाणां प्रयोगेण बालानां रुचि वर्धनाय उद्देश्यानां च प्राप्तये च प्रोत्साहनों ददाति। अतः अभिप्रेरणां बिना अधिगम: सम्यग् न भवति। कक्षाशिक्षणातिरिक्त अन्य शैक्षिक परिस्थितौ अपि छात्राणां व्यवहार नियंत्रणाय अभिप्रेरणाया: महत्वपूर्ण स्थानं अस्ति। • अभिप्रेरणाया: अधिगमे महत्वम
1. अभिप्रेरणा व्यवहारस्य पथप्रदर्शनं करोति- अभिप्रेरणा व्यक्ते: व्यवहारे परिवर्तनं करोति। तेन व्यक्ते: आत्मसंतोष: भवति।
2. अभिप्रेरणा व्यवहारे शक्तिं संचरति - अभिप्रेरणा छात्राणां अधिगमे शक्तिं ददाति। दण्ड, पुरस्कारादि प्रेरणा: अधिगमे लाभप्रदा: वर्तन्ते।
3. ध्यान केंद्रीकरणे सहाय्यं ददाति - अभिप्रेरणा छात्राणां अभिप्रेरित्वा पाठ्यविषये ध्यानाकर्षणं कृत्वा केंद्रीकरणं करोति।
4. रुचि वर्धयति - अभिप्रेरणा विद्यार्थिनां रुचिं उत्पादयति।
5. चरित्र निर्माणे सहाय्यं ददाति- अध्यापक: विद्यार्थिनां उत्तमगुणान् आदर्शान् च प्राप्तये प्रेरणा ददाति।
6. सामाजिक गुणानां विकास:- अध्यापक: अभिप्रेरणया एव छात्रेषु सामुदायिक सामाजिक गुणानां विकास: करोति।
विद्यालयेषु यत्किमपि ज्ञानादिकं प्रदीयते, शिक्षणं वा क्रियते तस्य साक्षात्सम्बन्ध: अभिप्रेरणेन वर्तते। बालकानां मानसिकविकासे प्रेरणाया: अन्यतमं महत्वम वर्तते । सफलस्य शिक्षणस्य कृते अभिप्रेरणस्य तत्वमनिवार्यं भवति। वस्तुत: प्रेरणा हि समस्तानामधिगमक्रियाणां स्रोतोभूता वर्तते।
बालकानां शिक्षायां बुभुक्षा – पिपासा- प्रभृतीनां शारीरिकानाभिप्रेरकानां विशिष्टं स्थानं वर्तते। अत्र शारीरिकै: अभिप्रेरकै: सह अर्जिता:, सामाजिका: वैयक्तिकाश्च अभिप्रेरका: अपि स्वकीयं महत्वं बिभर्ति। यतोहि जनस्य शिक्षायामुदरपूर्त्या सह सामाजिकप्रतिष्ठाप्रभृतिप्रेरका: अपि सहायका: भवन्ति। शिक्षणे अभिप्रेरणस्य प्रयोगं शिक्षक: पुरस्कारदण्डयो: प्रशंसानिन्दयोश्च माध्यमेन विधाय परिणामज्ञापने अपि कर्तुं शक्नोति। कक्ष्यायां स छात्रेषु स्पर्धाया:, प्रतियोगिताया:, सहकारितायाश्च भावनाया अभ्युदयं कृत्वा अधिगमे प्रोत्साहनं दातुं शक्यते। एवमभिप्रेरणया शिक्षणे उत्साह: उत्पाद्यते। एतेन छात्रेषु शक्तिसंचालनं भवति तथा च शक्तिर्लक्ष्यप्राप्तिपर्यन्तं प्रचलति अभिप्रेरणा।
शिक्षणे अभिप्रेरणम्
शिक्षणे अधिगमे वा अभिप्रेरणमं महत्वपूर्णं भवति । वस्तुत: अभिप्रेरणमं शिक्षणे केंद्रभूतमं वर्तते। शिक्षक: सदैव छात्राणां कृते प्रेरणां दातुं प्रवृत्तो भवति। से कथम् अभिप्रेरणे शक्तो भवेत् ?
एतत्कृते केचन प्रस्तावा: प्रस्तूयन्ते। • बालकेंद्रितं दृष्टिकोणं- शिक्षणं तु बालकस्यैव भवति । शिक्षकास्तु शिक्षणे सहायतां कुर्वन्ति। अत एव यत्किंचिदपि शिक्ष्यते,तद्बालकस्य योग्यतासु, रुचिसु, पूर्वानुभवेषु चाधारितं स्यात्। शिक्षक एतज्जानीयात् यत् शिशु: नूतनानुभवं प्राप्तुं शक्तो वर्तते न वा इति। तस्य सामर्थ्यं परीक्ष्ये व शिक्षक: शिक्षणे उद्यतो भवेत्। • नतनज्ञानस्य सम्बंध: पूर्वज्ञानेन स्थापनम्- अनुभवस्तु महान् गुणो वर्तते। पूर्वानुभवं नूतनज्ञानस्य आधारो भवितुं अर्हति। नूतनस्य ज्ञानस्य सम्बंध: पूर्वज्ञानेन स्थाप्यते चेदधिगमो रुचिकरो जायते। एतेन छात्र: अभिप्रेरितो भूत्वा शिक्षणे साफल्यं प्राप्नोति। • लक्ष्याणामुद्देश्यानांच निश्चय:- उद्देश्यमनुद्दिश्य न मंद: अपि प्रवर्तते इति न्यायेन शिक्षणोद्देश्यानां शिक्षायाश्च लक्ष्याणां परिज्ञानमपरिहार्य भवति।निश्चितानां लक्ष्याणामुद्देश्यानांच प्राप्तये उपयुक्ता: प्रयासा: क्रियन्ते। अत एवोद्देश्यानां लक्ष्याणां च परिज्ञानं श्रेयस एव भवति।
• अधिगम प्रक्रियायां अभिप्रेरणाया: कार्याणि
अभिप्रेरण अधिगमप्रक्रियायां त्रिधा कार्यं करोति
1. अभिप्रेरण व्यवहाराणां शक्तिं प्रददाति।– अभिप्रेरण बालकेषु शक्तिं उत्पादयति,तथा तो क्रियाशीलं कारयति। शारीरिकाभिप्रेरका: यथा वुभुक्षा, पानं, कार्यं च बालकेषु क्रियाशीलतां उत्पादयति। 2. अभिप्रेरण व्यवहारस्य निश्चित दिशा प्रददाति- अभिप्रेरण बालकानां व्यवहारे अपेक्षित दिशा निर्देशनं करोति । इदं बालकानां व्यवहारस्य लक्ष्यं निर्देशयति। 3. अभिप्रेरणे व्यवहार: चयनात्मक: भवति- इदं बालकानां एकस्य निश्चित व्यवहारस्य चयने सहाय्यं ददाति।
फलकम्:शिखरं गच्छतु के बारे में चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। फलकम्:शिखरं गच्छतु में सुधार कैसे करें, इस बारे में अन्यों के साथ चर्चा आरंभ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।