बकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बकः दीर्घपादयुक्तः, दीर्घग्रीवायुक्तः कश्चन पक्षिविशेषः। विविधजातिषु बकानां पञ्चदश प्रभेदाः विद्यन्ते। बकाः ग्रीवां बहिः नुदन्तः डयन्ते। अण्टार्क्टिकां दक्षिण अमेरिकां च अतिरिच्य विश्वे सर्वत्र बकाः निवसन्ति। ते लघुजन्तून् मीनान् च खादन्ति। कदाचित् बकाः दूरदेशं प्रयान्ति। जलमूलस्य पार्श्वे नीडं निर्माय वसन्ति। वर्षे अण्डद्वयम् उत्पादयन्ति[१]। मानवस्य कारणतः अद्य बकाः अपायस्थितौ वर्तन्ते।

प्रकृतिः[सम्पादयतु]

रक्तशिराः बकः

बकः विश्वे उन्नततमः डयमानः पक्षी वर्तते। रक्तवर्णीयशिरसः बकस्य भारम् १२ के.जि परिमितं भवति। पुरूषस्त्रीपक्षिणोः तथा महान् भेदः न दृश्यते परन्तु पुरुषपक्षी आकारे बृहत्तरः भवति। [२] बकस्य कशेरुः श्वासकोशेन सम्बद्धः भवति, येन दूरं डयितुं साहाय्यं भवति।[३]

निवासस्थानानि[सम्पादयतु]

अण्टार्क्टिकां दक्षिण अमेरिकां च अतिरिच्य विश्वे सर्वत्र बकाः निवसन्ति। पूर्व-एशिया बकानां मुख्यम् आवासस्थानं वर्तते, यत्र बकानां सप्त प्रभेदाः दृश्यन्ते। आफ्रिकायां पञ्चषाः बकानां प्रभेदाः दृश्यन्ते। आस्ट्रेलिया-यूरोप्-उत्तर-अमेरिकाखण्डेषु बकानां प्रभेदद्वयं विद्यते।.[२] यत्र आद्रतायुक्तः विशालः प्रदेशः भवति तत्र वसन्ति। केचन बकाः आद्रयुक्तप्रदेशे उशित्वा शावकान् भोजयितुं तृणयुक्तप्रदेशं गच्छन्ति। गर्भधारणावधौ बकाः आर्द्रतायुक्तप्रदेशे एव तिष्ठन्ति। कतिचनप्रभेदास्तु तृणयुक्तप्रदेशे एव नीडं निर्माय वसन्ति[२]

स्वभावः[सम्पादयतु]

आहारम् अन्विष्यन्तः बकाः

बकाः समूहरूपेण तिष्ठन्ति। खादनसमये परस्परं दत्त्वा खादन्ति। बकशावकाः कदाचित् आहारार्थं कूजनं कृत्वा सूचनां यच्छन्ति[४]। बकः सस्याहारं मांसाहारं च खादति। भूमौ अन्विष्य धान्यानि लघु कीटान् च खादन्ति। जलात् मीनान् च गृह्णन्ति[२]

उल्लेखः[सम्पादयतु]

  1. Archibald, George W. (1991). Forshaw, Joseph, ed. Encyclopaedia of Animals: Birds. London: Merehurst Press. pp. 95–96. ISBN 1-85391-186-0. 
  2. २.० २.१ २.२ २.३ Archibald, George; Meine, Curt (1996). "Family Gruidae (Cranes)". In del Hoyo, Josep; Elliott, Andrew; Sargatal, Jordi. Handbook of the Birds of the World. Volume 3, Hoatzin to Auks. Barcelona: Lynx Edicions. pp. 60–81. ISBN 84-87334-20-2. 
  3. Gaunt, Abbot; Sandra L. L. Gaunt; Henry D. Prange; Jeremy S. Wasser (1987). "The effects of tracheal coiling on the vocalizations of cranes (Aves; Gruidae)". Journal of Comparative Physiology A 161 (1): 43–58. doi:10.1007/BF00609454. 
  4. "craneworld.de". craneworld.de. Archived from the original on 2012-07-20. आह्रियत 2012-07-29.  Unknown parameter |dead-url= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=बकः&oldid=446126" इत्यस्माद् प्रतिप्राप्तम्