सामग्री पर जाएँ

बलासस्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बलासस्यम्

इदं बलासस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं समशीतोष्णप्रदेशे अधिकतया वर्धते । इदं ४ – ५ पादमितं वर्धते । अस्य बलासस्यस्य काण्डस्य उपरि सूक्ष्माणि रोमाणि भवन्ति । अस्य पर्णानि २.५ – ५ से. मी यावत् दीर्घाणि भवन्ति । अस्य पर्णस्य वृन्तं दीर्घं भवति । अस्य बलासस्यस्य पुष्पाणि पीतवर्णीयानि । अस्य फलानि ६ – ८मि.मी यावत् व्यासयुक्तानि गोलाकारकाणि च भवन्ति । अस्मिन् ०.०८५ % यावत् क्षारांशः भवति । सः क्षारांशः “एपिड्रिन्” इति उच्यते । तथैव अस्मिन् निर्यासांशः, अल्ब्युमिन् इत्यंशः च भवति । अस्य मूलम् औषधत्वेन उपयुज्यते ।

इतरभाषाभिः अस्य बलासस्यस्य नामानि

[सम्पादयतु]

इदं बलासस्यम् आङ्ग्लभाषया “कण्ट्रि मेलो” इति उच्यते । इदं बलासस्यं हिन्दीभाषया “बरियार्” इति, तेलुगुभाषया “चिट्टामुट्टिबेरु” इति, तमिळभाषया “पणियाक् तुत्ति” इति, मलयाळभाषया “विल्लूरय्” इति, बङ्गालीभाषया “बिडेल” इति, गुजरातीभाषया “बला” इति, कन्नडभाषया “कल्लङ्गडले” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य बलासस्यस्य प्रयोजनानि

[सम्पादयतु]

अस्य बलासस्यस्य रसः मधुरः, विपाके अपि मधुरः एव भवति । इदं शीतवीर्ययुक्तं, गुरु, स्निग्धं चापि ।

१ इदं बलासस्यं वातं पित्तं च शमयति ।
२ इदं बलवर्धकं, दौर्बल्यनिवारकं चापि ।
३ अस्य उपयोगेन पक्षाघातः, एकाङ्गवातः, कीलवेदना च अपगच्छन्ति ।
४ इदं सर्वाङ्गवेदनाम्, आमवातं च परिहरति ।
५ कीलवेदनायाम् अनेन निर्मितस्य तैलस्य लेपनम् अपि हितकरम् ।
६ अनेन निर्मितानि “बलारिष्ठं”, “बलादिक्वाथं”, “बलाद्यघृतं”, “चन्दनबलाक्षादितैलम्” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।
७ “बलारिष्ठं” भोजनस्य अनन्तरम् उष्णजलेन सह दिने द्विवारं ३० मि.मी. यावत्, “बलादिक्वाथं” प्रातः सायं च रिक्तोदरे २० मि. ली. यावत्, “बलाद्यघृतं” प्रातः रिक्तोदरे ५० मि.मी यावत् च सेवनीयम् ।

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=बलासस्यम्&oldid=409476" इत्यस्माद् प्रतिप्राप्तम्