बास्केट्बाल्-क्रीडा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

करण्डककन्दुक क्रीडा (Basket Ball)[सम्पादयतु]

गतिप्रकर्षाद् वपुषश्च मत्याः, सत्प्रत्ययात् क्रीडकपञ्चकाभ्याम ।
करण्डके कन्दुकपातनेन, क्रीडेयमीड्यास्ति मिथः समाजे ॥१॥
सतर्कता-स्फूर्ति -विवेक -निष्ठा -सूक्ष्मेक्षिका- सन्तुलनैर्नितान्तम् ।
दत्तावधानाः कृतिमादधाना भवन्ति भूमाविह लब्धमानाः ॥२॥

ऐतिहासिकी पृष्ठभूमिः[सम्पादयतु]

कस्मिन्नपि कर्मणि प्रवृत्त्यनन्तरं मुहुर्मुहुस्तस्य प्रयोगेणानन्दोपलब्धिर्भवति । यदा कदा तस्मिन् न्यूनताऽधिकता विकारो वैशिष्ट्यञ्चापि प्रविशति । तदाधारेणा नवीनस्य कर्मण उत्पत्तिरपि भवति । इत्यमेव करकन्दुक-पादकन्दुक- क्रीडादीनां प्रयोगेषु साम्य-वैषम्पाभ्यामस्याः 'करण्डक -कन्दुक-क्रीडा" या जनिरभूदिति प्रतीयते । अस्याः क्रीडाया विकासे 'वाई.एम.सी.ए.‘स्प्रिंगफील्ड्’ स्थिते "शारीरिक शिक्षा-महाविद्यालये’ श्रीनाथस्मिथ-द्वारा सन् १८६१ वत्सरेऽक्रियत । १८६४ वर्षे तत्र प्रथमं सङ्घस्य स्थापनाऽभूता । १६०८ तमे वर्षे राष्ट्रियसङ्घस्योदयानन्तरं नियमाः स्वीकृताः १६३२ तमे हायने च सर्वतः प्रथमं प्रतियोगिताऽजायत । क्रमेण विश्वक्रीडाप्रतिस्पर्धासु स्थानं सम्प्राप्य १६५० तमे वर्षे विश्वक्रीडा-नायकताऽप्यारभत । भारते क्रीडेयं १६३० ई.तः प्रारब्धा विकसिता च सती लोकप्रियतां प्राप्नोत् । १६५० ई.वर्षे बालसङ्घस्य स्थापनाऽभूत् । साम्प्रतं विद्यालयेषु महाविद्यालयेषु च बालका बालिका वा पूर्णया रुच्या खेलन्ति । स्वल्पेन समयेन स्वल्पे क्रीडाक्षेत्रे स्वल्पैः साधनैः कौतूहलं वर्धयन्तीयं क्रीडा शरीरस्य सर्वेषामङ्गानां विकासाय पुष्टये च महत्त्वपूर्णा विद्यते ।

क्रीडाङ्गणं क्रीडोपकरणानि च[सम्पादयतु]

तीव्रया गत्या क्रीडनीयायां 'करण्डक-कन्दुक-क्रीडा’ यां नियमज्ञानमावश्यकं विद्यते । क्रीडायाः पूर्ण आनन्दोऽपि तथैव प्राप्यते यदा क्रीडका नियमज्ञा भवन्ति तथा तदनुसृत्यैव क्रीडन्ति। अनया दृष्ट्याऽधो दर्शितदिशा क्रीडाङ्गण-क्रीडोपकरणव्यवस्था समीचीना विधीयते -

(क) क्रीडाङ्गणम्[सम्पादयतु]

इयं क्रीडाऽनावृते प्राङ्गणे, विशाले प्रकोष्ठे तथा काष्ठपट्टवति धरातले क्रीडयते ।

(१) अस्याः क्रीडाङ्गणं २६ मीटरमितमायतं १४.मी मानेन च विस्तृतं भवति ।
(२) प्राङ्गणं स्वच्छं सुन्दरं वज्रचूर्णेन दृढमथवा मृत्तिकाया अपि भवितुं शक्नोति । परं तस्मिन स्खलनस्य सम्भावना न भवेत् ।
(३)यदि विशाले भवने क्रीडाङ्गणं निर्मीयते तदा प्रकोष्ठस्योच्चता ७ मी.मिता तथा प्रकाशस्य पूर्णा व्यवस्था विधातव्या । प्रकाशो नेत्रेषु चाकचक्य -क्षेपको न भवेदिति विशिष्य ध्येयम् ।
(४) क्रीडाक्षेत्रस्य सर्वेष्वपि भागेषु पर्याप्तरुपेण स्थानं रिक्तमपेक्षितं भवति, यतो वेगेन धावन क्रीडकः करण्डिकायां कन्दुकनिपातनात् परमथवा सहयोगिने कन्दुकप्रदानात् परं स्वीयां गतिं नियन्त्रयितुं शक्नुयात् ।

(ख) रेखाः[सम्पादयतु]

क्षेत्रस्य सीमरेखाः स्पष्टतया दृष्टिगोचरा भवेयुः । रेखानामा धारेणा क्रीडाव्यवस्थापने सौविध्यं भवति तथा क्रीडका अपि नियमानुसारं क्रीडने पत्परा भवन्ति ।

(१) क्षेत्रस्य सीमरेखातोऽग्रे १ मीटरमिते विप्रकृष्टे परित एकाऽन्यापि रेखा कार्या यस्या निकटे स्थित्वा जनाः क्रीडनं विलोकयेयुः ।
(२) रेखायाः ५ सै.मी.मिता स्थूलता भवेत् ।
(३) मध्यरेखा क्षेत्रं मध्यभागाद् विभनक्ति, ततोऽग्रिम-पृष्ठभागौ मन्येते ।
(४) क्षेत्रमध्ये वृत्तमेकं भवति यस्य व्यासः १.८० मी.मितो भवति ।
(५) अन्त्यरेखाया एकस्य कोणस्य ४ मी.दूरे ७ मी.मितैका रेखा भवति । यथा ५.८० मी. मितेनान्तरेणैकमन्यद् वृत्तं विधीयते यस्य व्यासोऽपि १.८० मी. भवति । अस्य मध्यरेखाऽन्त्यरेखायाः समानान्तरशालिनी भवति । इयं रेखा उन्मुक्तप्रक्षेप (फ्री थ्रो) रेखा निगद्यते । इयं २.६० मी. आयता भवति ।

(३) फलकम् (बोर्ड)[सम्पादयतु]

(क) ३. सै.मी .स्थूलेन काष्ठपट्टकेन निर्मितमिदं फलकं १.८० मी. आयतं तथा १.२० मी. विस्तृतं भवति । भूमेरस्योच्चता २.७५ मी. तथाऽन्त्यरेखात इदं १.२० मी. अन्तर्भागे स्थाप्यते ।
(ख) फलकस्य स्तम्भा अन्त्यरेखातः ४० सें मी. पृष्ठभागे पूर्णतया सुदृढा निखन्यन्ते । यतः फलके कन्दुक्स्य सङ्घट्टनेन परावर्तनं (रीबाउस) मिलेत् ।
(ग) फलकस्य चतुर्ष्वपि भागेषु कृष्णवर्णा रेखा प्रायः ५ सै.मी मिता भवति।
(४) करण्डकम्

फलकस्याधः ४० सै.मी.मिते दूरवर्तिनि भ.गे मध्ये एकं वृत्ताकारकमायसं गोलकं भवति । लोहसूत्रस्य स्थूलता २० मी.मी.मिता तथा वृत्ताकारस्यान्तरिको व्यासः ४५ सै.मी.मितो भवति । अयं गोलकारः फलकात् १५ सै.मी दूरे योजितो भवति ।अस्मिन् गोलके एका सूत्रमयी जालिका ६० से.मी.मीता प्रलम्बासन्नद्धा क्रियते । अस्यैवाभिधानं 'बास्केट्’ इत्यस्ति ।

(५) कन्दुकः

कन्दुकस्य वृत्तता ७५ सै.मी.मिता तथा भारः ६२५ ग्राम मितो भवति । यदि कन्दुकः क्रीडाक्षेत्रे स्कन्धयोः समानायामुच्छतायां प्रक्षिप्येत तदा तदीयोच्छलनं १.८० मी .मितं स्यात् । कन्दुक्स्य वर्तुलता समुचिता भवेदन्यथा तस्य सन्तुलनं यथोचितं न स्थास्यति किञ्च क्रीडकेभ्य आदान- प्रदानकाले नियन्त्रणेऽपि काठिन्यं भविष्यति ।

क्रीडकाः क्रीडा विधयश्च[सम्पादयतु]

(१) क्रीडकास्तेषां नियमाश्च[सम्पादयतु]

(क) दलयोजना-अस्यां क्रीडायां प्रतिदलं पञ्च पञ्च क्राडका भवन्ति । क्रीडाक्षेत्राद् बहिः प्रतिदलमन्ये सप्त-सप्त क्रीडका अपि परिवर्तनाय प्रतिनिधिरुपेण सथाप्यन्ते येषां यथासमयं क्रमेण कन्दुकस्य बहिर्गमनात् परं परिवर्तनं कर्तुं शक्यते ।
(ख) वेष-भूषा -प्रतिदलं क्रीडकानां वस्त्रोपवस्त्रे भिन्न-भिन्नवर्णमये भवतः । यथोचितं क्रमाङ्का अपि वक्षसि पृष्ठे वाऽङ्किता भवन्ति यतः केन किं कृतमिति ज्ञानं सुकरं भवेत् ।
(ग) क्रीडक-नियमाः कस्यापि क्रीडार्थिनः क्रीडाङ्गणे सञ्चालकस्याज्ञां विना प्रवेष-निर्गमौ न भवतः । दलनायकः कस्या अपि समस्यायाः समाधानाय सञ्चलकेनालपितुं प्रभवति । विरोधिभ्यः साक्षात कथनं नोचितम् । सत्यां त्रुटौ हस्तावुत्थाय त्रुटिः स्वीकार्या ।
(घ) क्रीडक-परिवर्तनम् -कन्दुकस्य बहिर्गमनकाले, क्रीडकस्य स्थाने परिवर्तनं क्रियते तस्य क्रमसंख्या गणकाय सूच्यते परिवर्तितश्च २० मिनटाभ्यन्तर एव क्षेत्रमागच्छेत् ।

(२) क्रीडानियमाः[सम्पादयतु]

(क) समयः -इयं क्रीडा २०-२० मिनटानां द्वाभ्यामर्धाभ्यां तथा १० मिनटानां विश्रामेण सम्पद्यते । क्रीडायाः सञ्चालको मुद्रामुच्छाल्य दलस्य क्रीडस्थलाय दिशश्चयनं कारयति तत्र दलनायकावधिकुरुतः । क्रीडारम्भाय सञ्चालकः कन्दुकं क्रीडाङ्गण- मध्यवृत्तादुच्छालयति तथा द्वौ विपक्षक्रीडकौ कन्दुकं बलाद् गृह्णीतः ।
(ख) सावरोध-घटिका-

कन्दुकोत्पतनात् परं 'समय-पालः’ सावरोध घटिकां (स्टापवाच) प्रचलयति तदाधारेण समयाङ्केनं च भवति । निर्णयं विना क्रीडासमाप्तिर्भवति तदा ५-५ मिनटान्यतिरिक्तानि भूयोऽपि दीयन्ते समयाधिकारी क्रीडावरोधे सति घटिकामप्यवरुणत्ति । गणकोऽङ्कोपलब्धिमङ्कयति । अङ्कपूर्न्यनन्तरं कन्दुकः पराचिताय दलाय दीयते ।

(ग)क्रीडातः कन्दुकस्य बहिर्गतत्वं -(१) गणनापूर्तौ , (२) विशिष्टायां त्रुटौ, (३) मुक्तप्रक्षेपान्तरं, (४) कन्दुकस्य फलकेऽवरोधात् (५) सञ्चालकस्य सङ्केते तथा (६) पार्श्वप्रक्षेपे सति मन्यते ।
(घ) प्रधिकारिणः -क्रीडाया अनुशासनपूर्वकं सञ्चालनाय चत्वारोऽधिकारिणोऽस्यां भवन्ति । (१-२) सञ्चालक-युगलम्, (३) एको गणकः (४) एकः समयाधिकारी च ।
(ङ) घटिकावरोध-करणानि -नियमभङ्गः, त्रुटिपूर्णं क्रीडनम्, कन्दुकावरोधः, पुनः क्रीडारम्भे विलम्बः, क्रीडकस्य रुग्णता , ३० सै.क्षणानां निर्णयस्तथा विशिष्टाअ त्रुटिः -सन्ति । सञ्चालकः शुषिरवादनेन क्रीडां समाप्नोति तत्र समयावधिपूर्तिः समयपालनावहेलनादीनि च कारणानि भवन्ति ।

(च) त्रुटयः -अस्यां क्रीडायां त्रुटयो (फाउल) नानाविधा भवन्ति, यथा-सर्वसाधारणी (कामन), वैयक्तिकी, अभद्रव्यवहाररुपा नियमावहेलनजा च परस्परं सहयोगेन क्रीडका अधिकारिणश्च सावधानतया क्रीडामिमां सयोजयन्ति तदेयमतिवानन्द-प्रदायिनी भवति ।

केचन विशिष्टा निर्देशाः शब्दाश्च[सम्पादयतु]

करण्डक-कन्दुक- क्रीडा तीव्र-गत्या क्रीडनीया क्रीडा विद्यते, अतः प्रत्येकं क्रीडकेन पूर्वं नियमानां दृढोऽभ्यासः कर्तव्यः । कीडाङ्गणेऽवतरणात् पूर्बं शारीरिक्युष्णता, दीर्घश्वासाभ्यासः, गतिवृद्धये नियमितो व्यायामस्तीव्रधावनाभ्यासश्चेति प्रक्रियासु प्रावीण्यं प्राप्तव्यम । निम्नलिखिताः शब्दाश्चास्यां प्रयुज्यन्ते -

कन्दुकप्राप्तिः -(बाल लेना) कस्मादपि क्रीडकात् कन्दुकप्राप्तेः प्रयासः स्ववक्षसि कर्तव्यः क्रीडकस्य गतिविधयो ज्ञातव्याः । मिथः सहयोक्तव्यम् । कन्दुकस्य प्राप्तिसमकालमेव स्वस्याः स्थितेः परिज्ञानं विधाय पश्चादग्रे वर्धितव्यम् ।

सहयोगिने कन्दुक-लम्भनम् -(पास देना) अस्यां क्रियायां सतर्कतापूर्वकं क्रीडको विरोधिनः संरक्ष्य स्वसहक्रीडकाय क्न्दुकं वितरति । अतः स विपक्षक्रीडकाद् दूरे तिष्ठेत, लक्ष्यं साधयेत्, कन्दुकं साधु नियन्त्रयेत्, विरोधिनं वञ्चयित्वा स्वस्थितिं व्यवस्थाप्य, प्रक्षेपणे स्फूर्तिं विधाय क्रीडेत् । एतदर्थं पूर्ववर्णित-वञ्चनाग्रेवर्धन(ड्रिबलिंग) प्रक्रिययोर्जानमप्यत्यावश्यकं वर्तते ।

पदस्थैर्थम् -(पीवट) ड्रिबलिंगसमये क्रीडको यदाऽग्रे वर्धते तदा रक्षकक्रीडकस्तमवरुणद्धि तस्यां स्थितौ स कन्दुकं नीत्वा स्थिरो भवति । परं तदा स स्वं पादं स्पन्दयितुं न शक्नोति परं द्वितीयः पादो भ्रमणे शक्तो भवति । इयं स्थितिः पदस्यैर्य-(पीवट)नाम्ना ज्ञायते ।

फ्री थ्रो -मुक्तप्रक्षेपणम् । रीबाउण्ड -कन्दुकस्य फलकसङ्घटनात् परं पुनरागमनमुच्यते । इदमाक्रमणं रक्षकरुपाभ्यां द्विधा भवति ।

शूटिंग्- लक्ष्यसाधनम् (दूरतः समीपतो वा)-इदमपि दूरतो निकटातश्च क्रियते तथैकेन हस्तेन द्वाभ्यां हस्तभ्यां च ताडनेन पुनरपि द्विविधं भवति ।

संरक्षण- विधेश्चत्वारो विभागाः सन्ति

(१) अवरोधः (ब्लाकिंग)
(२) निवर्तनम् (टेकलिंग)
(३)रक्षणयोजना (डिफेन्स प्लानिंग)
(४) रक्षणं (गाडिग) च। एतेषां नियमा अपि क्रीडकेन ज्ञातव्याः । किञ्च-
आदाने वा प्रदाने प्रभवति कुशलः कन्दुकस्य प्रहर्ता
क्षेत्रं रक्षन करण्डे क्षिपति च सततं कन्दुकं सावधानः ।
उत्साहेन प्रबुद्धः प्रगतिपथ इतो तीव्रगत्या प्रवृद्धः
श्रित्वा क्रीडाङ्गणस्थो घ्रुवमिह लभते कीर्तिमानं जयञ्च ॥

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

"http://sa.wikipedia.org/w/index.php?title=बास्केट्बाल्-क्रीडा&oldid=267548" इत्यस्माद् पुनः प्राप्तिः