बिभीतकीवृक्षः
बिभीतकीवृक्षः | ||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
जैविकवर्गीकरणम् | ||||||||||||||
| ||||||||||||||
द्विपदनाम | ||||||||||||||
Terminalia bellirica (Gaertn.) Roxb. | ||||||||||||||
अयं बीभीतकीवृक्षः भारते वर्धमानः कश्चन् वृक्षविशेषः । अयं वृक्षः सर्वेषु प्रदेशेषु वर्धते । अयं बीभीतकीवृक्षः आकारेण माहान् वृक्षः । अस्य पर्णानि किञ्चित् प्रमाणेन वृत्ताकारकाणि इव भवन्ति । अस्य वृक्षस्य अपक्वानि फलानि गुच्छरूपेण भवन्ति । अस्य अपक्वानि फलानि औषधत्वेन उपयुज्यते । अस्मिन् २१.४ % “ट्यानिक्” नामकः अंशः भवति । तथैव बि-सिटोस्टेराल् गैलिक् आसिड्, चेबुलेजिक् आसिट्, ग्लूकोस्, ग्यालेक्टोस्, फ्रक्टोस्, रैमनोज् इत्यादयः अंशाः अपि भवन्ति ।
इतरभाषाभिः अस्य बीभीतकीवृक्षस्य नामानि
[सम्पादयतु]अयं बीभीतकीवृक्षः आङ्ग्लभाषया“बेल्लङ्क् मैरोबलन्” इति उच्यते । अस्य वृक्षस्य सस्यशास्त्रीयं नाम अस्ति Terminalia Belirica इति । अयं हिन्दीभाषया“बहेडा” इति, तेलुगुभाषया“ताडी” इति, बेङ्गालीभाषया“बयडा” इति, कन्नडभाषया“तारे कायि” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य बीभीतकीवृक्षस्य प्रयोजनानि
[सम्पादयतु]अस्याः बीभीतक्याः रसः कषायः । अस्याः गुणः रूक्षः, लघु च । इयम् उष्णवीर्ययुक्ता । विपाके मधुरा भवति । अस्याः अपक्वस्य फलस्य बाह्यः आभ्यन्तरः च उपयोगः क्रियते । १. इयं बीभीतकी त्रिदोषहरा । (वातः, पित्तं, कफः च) २. अस्याः बीभीतक्याः फलं शोथं वेदनां च परिहरति । शोथस्य वा वेदनायाः वा स्थाने अस्य फलस्य लेपः क्रियते । ३. अस्याः बीजात् निर्मितं तैलं चर्मरोगेषु, श्वेतकेशेषु च उपयुज्यते । इदं तैलं अपि शोथं वेदनां च निवारयति । ४. व्रणात् रक्तस्रावः जायमानः अस्ति चेत् अस्याः चूर्णस्य लेपनेन रक्तस्रावः स्थगितः भवति । ५. सामान्येषु दौर्बल्येषु, विशेषतया रसस्य, रक्तस्य, मांसस्य, मेदसः च विकारेषु च अस्याः उपयोगः हितकरः । ६. अस्याः बीभीतक्याः अर्धपक्वं फलं मलबद्धतां निवारयति । ७. अस्याः शुष्कं फलम् अतिसारस्य प्रवाहिकायाम् उपयुज्यते । ८. प्रतिदिनम् अस्याः बीभीतक्याः एकस्य बीजस्य सेवनेन निश्शक्तिः अपगच्छति । ९. इयं मृदु वीरेचिका अपि । १०. अनया बीभीतक्या निर्मितं “त्रिफलाचूर्णं” ५ ग्रां – १० ग्रां यावत् प्रतिदिनं रात्रौ शयनावसरे चषकमितेन दुग्धेन सह सेवनम् अपि बहु उपयोगकरम् ।