बिम्बिलता
अयं लेखः विक्यनुकूलीकरणम् अर्हति येनायं विकिपीडियायाः गुणवत्ता-मानदण्डेषु सुष्ठु भवेत्। कृपया अत्र प्रसङ्गानुकूलान् परिसन्धीन् योजयित्वा लेखस्य रूपविन्यासं विकास्य वा साहाय्यं क्रियताम्।
(March 2010) |
बिम्बिलता | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Coccinia grandis (L.) J.Voigt | ||||||||||||||||
इयं बिम्बी भारते वर्धामानः कश्चन लताविशेषः । अस्याः फलं (बिम्बफलम्) तु भारते सर्वत्र शाकत्वेन उपयुज्यते । दक्षिणभारते अस्याः फलस्य उपयोगः अत्यधिकः । भारतस्य सर्वेषु प्रदेशेषु इयं बिम्बी वर्धते । इयम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्याः बिम्ब्याः मूले क्षारः, शर्करा, निर्यासः, मेदः, कार्बोनिक आम्लम् इत्यादयः १६ अंशाः भवन्ति । अस्याः पर्णं, फलं चापि आहारत्वेन उपयुज्यते । मूलं, पर्णं चापि औषधत्वेन उपयुज्यते ।

इतरभाषाभिः अस्याः बिम्ब्याः नामानि
[सम्पादयतु]इयं बिम्बी आङ्ग्लभाषया..... इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Coccinia Grandis इति । हिन्दीभाषया इयं “कुन्दरू” इति, तेलुगुभाषया“दोण्डकायि” इति, तमिळ्भाषया “कूबयिकायि” इति, मलयाळभाषया“गोडी तोण्डली” इति, कन्नडभाषया“तोण्डे कायि” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्याः बिम्ब्याः प्रयोजनानि
[सम्पादयतु]अस्याः बिम्ब्याः रसः तिक्तः । अस्याः गुणः लघु, रूक्षः, तीक्ष्णः च । अस्याः आभ्यन्तरः उपयोगः एव अधिकः । १. अस्याः बिम्ब्याः अपक्वं फलं मुखे जातान् व्रणान् (पिटकान्) निवारयति । २. अस्याः पर्णस्य स्वरसः व्रणेषु उपयुज्यते । स्वरसः २ – ६ चमसमितं सेवितुं शक्यते । ३. इयं बिम्बी अग्निमाद्यं, कामलारोगं, रक्तविकारं च शमयति । ४. बिम्ब्याः उपयोगः पीनसे, कासे, यकृत् – विकारे च हितकरः । ५. बिम्बी श्वासावरोधे, प्रमेहविशेषत्वेन मधुमेहे च उपयुज्यते ।