बृहदीश्वरदेवालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बृहदीश्वरदेवालयः

तञ्जावूरुपत्तने विद्यमानः परमेश्वरस्य अयं देवालयः चोळराजेन प्रथमराजराजेन निर्मितः । अयं देवालयः चोळानां शिल्पकलाशैल्याः अत्युत्तमम् उदाहरणम् । युनेस्कोद्वारा अयं देवालयः विश्वपरम्परास्मारकत्वेन अभिज्ञातः । अस्य देवालयस्य गोपुरं ६४.८ मीटर् उन्नतम् अस्ति । गर्भगृहे ४ मीटर् उन्नतं महालिङ्गम् अस्ति । ५.९४ मीटर् दीर्घा नन्दिनः एकशिलामूर्तिः अपि अत्र विराजते । इयं मूर्तिः भारतस्य बृहत्तमेषु नन्दिविग्रहेषु द्वितीया । देवालयस्य अन्तर्भित्तिषु चोळकालस्य चित्राणि चित्रितानि सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बृहदीश्वरदेवालयः&oldid=409494" इत्यस्माद् प्रतिप्राप्तम्