ब्याडगि-मरीचिका
ब्याडगि ಬ್ಯಾಡಗಿ | |
---|---|
नगरम् | |
देशः | भारतम् |
राज्यम् | कर्णाटकम् |
मण्डलम् | हावेरी |
Time zone | UTC+05:30 (IST) |
पत्रालयसूचीसङ्ख्या |
581106 |
Vehicle registration | KA 27 |
दूरवाणी | 91-(0)8375 |
भाषितभाषा | कन्नडभाषा |
Website | www.byadagitown.gov.in |
|
ब्याडगि-मरीचिका (कन्नड: ಬ್ಯಾಡಗಿ ಮೆಣಸಿನಕಾಯಿ) भारतदेशस्य कर्णाटकराज्ये वर्धमाना मरीचिकाविशेषः । कर्णाटकस्य हावेरीमण्डले विद्यमानायाः ब्याडगिनगर्याः नाम्नि इयं प्रसिद्धा वर्तते । [१] भारतदेशे विभिन्नमरीचिकानां वाणिज्ये अस्याः द्वितीयं स्थानं वर्तते । [२] अस्याः मरीचिकायाः निष्कासितम् ’ओलेरिसिन्’नामकं तैलं नखराग-ओष्ठरागयोः निर्माणार्थम् उपयुज्यते ।[३] ब्याडगि-मरीचिका गाढरक्तवर्णीया नाधिककटुयुक्ता च भवति या दक्षिणभारतीयपाके आधिक्येन उपयुज्यते । ब्याडगि-मरीचिकायाः भौगोलिकनिर्देशः २०११ तमस्य वर्षस्य फेब्रवरीमासे जातः । [४] Its GI tag is 144.[५]
लक्षणानि
[सम्पादयतु]सस्यस्य आरोपणस्य ४० दिनानाम् अनन्तरं ब्याडगिमरीचिकासस्येषु पुष्पाणि वर्धन्ते । अधिकांशेषु सस्येषु आरोपणस्य ६० तः ८० दिनेषु पुष्पाणि विकसितानि भवन्ति । मरीचिकानां फलोदयः जनवरीमासतः मेमासाभ्यन्तरे भविष्यति । [६] ब्याडगि-मरीचिकानां वार्षिकोत्पत्तिः २१,००० किलोपरिमिता भवति । [७] निष्कासनयोग्यस्य रक्तवर्णांशस्य आधारेण विविधमरीचिकाप्रभेदानां गुणस्तरः निर्धार्यते । वर्णस्य मापनं ASTA वर्णमापकेन क्रियते । ब्याडगि-मरीचिकायाः ASTA वर्णाङ्कनं भवति १५६.९ [७] ASTA वर्णाङ्कनस्य वर्धनानुसारं मरीचिकायाः गुणस्तरः वर्धते, तदनुगुणं तस्य मौल्यमपि वर्धते । ब्याडगि-मरीचिकासु केप्ससिन्-अंशः न्यूनः इत्यतः तस्य कटुत्वम् अन्यासां मरीचिकानाम् अपेक्षया न्यूनं विद्यते । [७]
उपयोगाः
[सम्पादयतु]पाकः
[सम्पादयतु]दक्षिणभारतीयपाकेषु ब्याडगिमरीचिकायाः उपयोगः आधिक्येन भवति । बिसिबेलेबात्, क्वथितम्, उपसेचनम् इत्यादीनां आहारपदार्थानां सज्जीकरणे अस्य उपयोगः भवति । अस्याः रक्तवर्णस्य कारणेन मांसाहारेषु अपि बहुधा उपयुज्यते ।[३] ब्याडगि-मरीचिकायाः चूर्णं निर्माय आहारोद्यमिभ्यः विक्रयणं कुर्वन्ति पञ्चविंशतिभ्यः अधिकाः उद्यमाः ।
आलियोरेसिन्
[सम्पादयतु]आदौ ब्याडगिमरीचिका आहारपदार्थेषु गन्धद्रव्यरूपेण उपयुज्यते स्म । अधुना तस्यां विद्यमानायाः 'आलियोरेसिन्'नामकस्य रक्ततैलस्य निमित्तमपि तस्याः वर्धनं क्रियते । आलियोरेसिन्-पदार्थस्य उपयोगः नखराग-ओष्ठरागयोः निर्माणे भवति । मरीचिकायाः रक्तवर्णस्य, गुणस्तरस्य च रक्षणाय ताः ४-६ डिग्रिपरिमिते न्यूनतापमाने रक्षणीयाः भवन्ति । तदा एव आलियोरेसिन्-निष्कासनं शक्यते । तन्निमित्तं ब्याडगिप्रदेशे शैत्यागाराणि निर्मितानि सन्ति । [३] शैत्यागारेषु स्थापिताभ्यः मरीचिकाभ्यः ३०-४०% परिमितस्य अधिकप्रमाणस्य आलियोरेसिन्-पदार्थं प्राप्तुं शक्यते । १०० किलोपरिमित-ब्याडगिमरीचिकाभ्यः ५० लीटर्-परिमितं रक्ततैलं प्राप्तुं शक्यते । ब्याडगिप्रदेशं परितः रक्ततैलोत्पाटनाय बहूनि उद्यमानि कार्यरतानि सन्ति । अत्र सङ्गृहीतं रक्ततैलम् इतः केरलं प्रति प्रेष्यते यत्र तस्य अग्रिमसंस्करणं भवैष्यति, ततः अमेरिका-जपानादि युरोप्-देशेभ्यः निर्यातः क्रियते । [३]
वाणिज्यम्
[सम्पादयतु]ब्याडगिमरीचिकाः ब्याडगि-मरीचिका-विपणिषु आधिक्येन विक्रीयन्ते । तासां वार्षिकवाणिज्यं त्रिशतकोटिरूप्यकपरिमितं ($ ७५ मिलियन्) भवति । योग्यमौल्येन सपदि निर्दोषमापनेन एतस्यां विपणौ मरीचिकाः उपलभ्यन्ते इत्यतः अत्र कर्णाटकस्य प्रतिवेशिनः आन्ध्रप्रदेशस्य च वाणिज्योद्यमिनः आधिक्येन आगमिष्यन्ति । सम्प्रति न्यूनमौल्ययुताः अधिकगन्धद्रव्ययुताः विविधाः मरीचिकाः विपण्याम् उपलभ्यन्ते इत्यतः व्याडगि-मरीचिकायाः वाणिज्ये व्यत्ययः दृश्यते । अनेन कारणेन अस्याः कृषकाः फलोदयस्य उत्तमलाभप्राप्तौ असमर्थाः जाताः सन्ति । [८]
टिप्पणी
[सम्पादयतु]- ↑ "Focus on entrepreneurship to boost rural development". Online Edition of The Hindu, dated 20 June 2007 (Chennai, India: The Hindu). 20 June 2007. Archived from the original on 1 October 2007. आह्रियत 26 July 2007.
- ↑ "Spice players put blame on British customs". Online Edition of The Times of India, dated 21 February 2005 (Times Internet Ltd.). 21 February 2005. आह्रियत 26 July 2007.
- ↑ ३.० ३.१ ३.२ ३.३ Lokeshvarappa N. "Red Hot Chilli Peppers". Online Edition of The Deccan Herald, dated 2007-06-19. The Printers (Mysore) Pvt. Ltd. Archived from the original on 21 June 2007. आह्रियत 26 July 2007.
- ↑ "Scotch whisky, Karnataka's Byadgi Chilli get GI tag - The Times of India". The Times Of India. 16 February 2011. Archived from the original on 2013-01-03. आह्रियत 2016-01-28.
- ↑ List of Geographical Indications in India
- ↑ "Know Your Ingredient". Online webpage of Sanjeev Kapoor. Archived from the original on 29 September 2007. आह्रियत 26 July 2007.
- ↑ ७.० ७.१ ७.२ "KARVY Commodities Research" (PDF). Seasonal Report on Chilli, dated 28 April 2006. KARVY Comtrade Ltd. Archived from the original on 9 October 2007. आह्रियत 26 July 2007.
- ↑ "Byadagi chilly not hot anymore". Online Edition of The Deccan Herald, dated 2005-06-19. The Mysore (Printers) Pvt. Ltd. Archived from the original on 29 September 2007. आह्रियत 26 July 2007.