ब्रह्मैव जीव-जगत्-ईश्वराः
तत्त्वपरिचयः
[सम्पादयतु]अद्वैतवेदान्तशास्त्रे ब्रह्मैव एकं पारमार्थिकं सत्यं तत्त्वम् अङ्गीक्रियते । ’ब्रह्म’ इति नामापि एतस्य सत्यस्य केवलं व्यावहारार्थम् अभ्युपगम्यते । परमार्थसत्यस्य प्रपञ्चनावसरे तु एतस्य त्रयस्य उल्लेखस्य आवश्यकत्वं जायते –
- जीवो यो व्यष्टिरूपः स्वं बद्धं मनुते तस्य बन्धस्य निवारणमपि वाञ्च्छति ।
- जगत् यस्मिन् जीवो वर्तते ।
- ईश्वरो नाम काचन शक्तिः या जीव-जगतोः पालयितृत्वेन वर्तते । इति ।
उपनिषदः इमां व्यवस्थामेवं निर्वर्तयन्ति यथा विचारक्रमः पारमार्थिकाद्वितीयब्रह्मतत्त्वमेव पूर्वोक्तजीवजगदीश्वरत्रयरूपेण अवभासते इत्येवंज्ञाने पर्यवस्यति ।
माण्डूक्योपनिषदः समर्थनम्
[सम्पादयतु]यद्यपि सर्वाऽपि उपनिषत् अमुं क्रममनुसरति, तथापि माण्डूक्योपनिषदेव विशिष्य अस्य क्रमस्य स्पष्टावगमं तनोति । इममेवाग्रे प्रपञ्च्यते । प्रबन्धोऽयमिमं विषयं साधयितुं प्रवर्तते यदद्वैतवेदान्तस्य सर्वप्रमुखप्रमेयः - ब्रह्मैव जीवजगदीश्वरत्रयरूपेण भासते इति । एते विषयाः मुख्यतया विचारयिष्यन्ते –
- माण्डूक्योपनिषत् उपक्रम एव सर्वं, जीवमन्तर्भाव्य, ब्रह्मैव इति प्रतिजानाति ।
- एवं प्रतिज्ञानेन इयमुपनिषत् ब्रह्म चतुष्पात्त्वेन प्रकटयति ।
- तत्र ब्रह्मणः पादत्रयं व्यष्टिजीव-समस्तप्रपञ्च-ईश्वर-त्रयस्य जाग्रत्-स्वप्न-सुषुप्त्याख्यावस्थात्रयोपेतं प्रदर्श्यते ।
- परन्तु सप्तमे मन्त्रे, पूर्वोक्तप्रदर्शनानन्तरम्, जीवजगदीश्वराणां सर्वे विशेषाः ये चतुष्पाद्ब्रह्मणि पादत्रयत्वेन आरोपिताः ते सर्वे निराक्रियन्ते । तथा ब्रह्मणः चतुर्थपादः तुरीयाख्यः सविशेषपादत्रयोपेततया प्रदर्श्यते ।
- सरणिरियमिदं साधयति यदुपनिषन्मतं सर्वमेव जीवजगदीश्वराख्यं ब्रह्मैव तत्तद्रूपेण संसारदशायामेव भाति न तु पारमार्थिकावस्थायाम् इति ।
- अनेन प्रकारेण उपनिषदिदं बोधयति यत् जॊवजगदीश्वरत्रयं ब्रह्मणो विवर्तमेव यथा सर्प-माला-भूच्छिद्रादिकं रज्जुविषयकाज्ञानकल्पितमेव नान्यदिति ।
- कानिचनान्योपनिषद्वाक्यान्यपि ब्रह्मैव जीवजगदाकारेण भाति इत्यस्मिन्विषयं बोधयन्ति ।
- श्रीमद्भगवद्गीता अपि इदमेव ज्ञापयति ।
प्रबन्धोऽयं वेदान्तस्य अध्यारोपापवादन्यायं न विशदयति ।
यद्यप्ययं न्यायोऽस्मिन् ग्रन्थसन्दर्भे प्रकृत एव तथापि अत्र विवर्तवादस्यैव प्राधान्येन प्रदर्शने यत्नः ।
अत एव अध्यारोपापवादन्यायोऽत्र न विस्तरेण विचार्यते, अपि तु केवलं परामृश्यते प्रासङ्गिकेन ।
माण्डूक्योपनिषत् द्वितीयमन्त्रेण एवं घोषयन्नुपक्रमते – ”सर्वं ह्येतद्ब्रह्म अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पात्” इति ।
उपनिषदः सारोऽत्र उच्यते -
१. सर्वमपि ज्ञाताज्ञातं जगत् तथा च व्यक्ताव्यक्तं जगत् ब्रह्मैव नान्यत् । एवञ्च ब्रह्मैव जगद्रूपेण भाति इति ।
२. ’ सर्वं ह्येतद्ब्रह्म’ इति श्रुत्वा कस्यचिदवगम एवं स्यात् – ब्रह्म ’मत्तोऽन्यः परोक्षम् अन्यत्रैव विप्रकृष्टं विद्यते’ इति । तद्वारणाय उच्यते ’ अयमात्मा ब्रह्म’ इति । एवंकथनेन इदं लभ्यते यत् यः कोऽपि शृणोतीदं वाक्यं स ब्रह्मणा सह प्रत्यगात्मत्वेन स्वं संबद्धुं शक्नोति ।
३. ब्रह्मत्वेन बोधितोऽयमात्मा चतुष्पात्त्वेन व्यपदिष्टः ।
निरवयवेऽङ्गरहिते ब्रह्मणि पादकल्पनं जीवजगतोः ब्रह्मान्यत्वसुलभग्राह्यत्व उपाय एव इति बोद्धव्यम् ।
तदुत्तरमन्त्रेषु जीवस्वरूपम् अवस्थात्रये यथा विद्यते तथा बोधयति उपनिषत् ।
अवस्था इत्यनेन व्यष्टिजीवस्य प्रपञ्चानुभवप्रकारख्यापनमेव नान्यत् ।
यतो हि जगद्विहाय नान्यदस्ति यज्जीवोऽनुभवेत् । अयं तु अनुभविता जगच्चानुभवप्रतियोगिप्रमेयवस्तु ।
तच्च जगत् ईश्वरेण जीवानुभवार्थं सृष्टं वस्तु ।
ईश्वरेण निरपेक्षं न सृष्टं जगत्, अपि तु जीवैः कृतस्य कर्मणः सामस्त्येन फलभूतमेवेति बोद्धव्यम् ।
समस्तजीवकर्मणो निर्वाहणाय, जीवकर्मफलानुभवयोग्य-भोग्यसाधननिर्माणे च ईश्वरो नाम व्यक्तिविशेषो य उचितकाले सृष्टिस्थितिसंहारकार्यक्षम एक अपेक्षितो भवति ।
इयमुपनिषत् जीवस्य ईश्वरस्य च धर्मं सर्वासु जाग्रत्स्वपन-सुषुप्त्यवस्थासु साहचर्येणैव प्रदर्शयति ।
यतो हि आसु अवस्थासु जीवः प्रपञ्चं स्थूल-सूक्ष्म-कारणरूपेण अनुभवति ।
यद्यपि सुषुप्तौ प्रपञ्चः कारणरूपेणैव तिष्ठति तेन विषयानुभवो न भवति तथापि तत्र जीवस्य सर्वमपि विशिष्टज्ञानं एकीभवति तथा जीवश्च एतेनैकीभूतज्ञानेन विशिष्टो वर्तते ।
अपि च तस्यामवस्थायां विश्रान्तिः शान्तिश्च भवति यस्मात् तदा मनइन्द्रियैः विषयोपलब्धिर्न घटते । तत्र विद्यमानं शान्तिः आनन्दरूपेण अनुभूयते ।
यथा जीवो विश्व-तैजस-प्राज्ञनाम्ना निर्दिष्टोऽवस्थात्रये एवमीश्वरोऽपि तास्ववस्थासु विराट्-हिरण्यगर्भ-ईश्वराभिधानेन निर्दिष्टो वर्तते उपनिषदि ।
सर्वत्र षष्ठमन्त्रपर्यन्तं यत्र ईदृशव्यष्टिसमष्टिरूपनिर्देशो भवति तत्र कुत्रापि जीवं वा ईश्वरं वा ब्रह्मभिन्नतया न व्यपदिशत्युपनिषत् ।
अस्मिन् विषये उपक्रमे प्रतिज्ञात ’सोऽयमात्मा चतुष्पात्’ इत्यस्य वाक्यस्यानुस्मरणम् अतिमुख्यत्वं वहति । तस्य पादत्रयनिर्देश एव एतावत्पर्यन्तं वयं दृष्टवन्तः षष्ठमन्त्रं यावत् ।
तेन इदं ज्ञायते यद्ब्रह्मैव त्रैविध्येन प्रदर्शितं यत्र जीवरूपेण तदेव ब्रह्म ईश्वरनियमितजगत् अनुभवति । वस्तुतो जगत् विश्वरूपेश्वराभिन्नम् ।
एवञ्च न कोऽपि जीवजगदीश्वर-ब्रह्मणोः भेदं दर्शयितुं पारयति ।
सप्तमो मन्त्रः – (अत्र किञ्चिद्विवरणं कंसयोर्मध्ये दीयते)
नान्तःप्रज्ञम् (तैजसनिराकरणम्), न बहिःप्रज्ञम् (विश्वनिराकरणम्), नोभयतःप्रज्ञम् (अन्तरालावस्था-निराकरणम्), न प्रज्ञानघनम् (सुषुप्तावस्थानिराकरणम्), न प्रज्ञम् (ईश्वरविशिष्टयुगपत्सर्वविषयप्रज्ञातृत्वनिराकरणम्), नाप्रज्ञम् (अचैतन्यनिराकरणम्), अदृष्टम् (न विषयीभूतम्) अव्यवहार्यम् (अविषयत्वात्), अग्राह्यम् (कर्मेन्द्रियैः), अलक्षणम् (अननुमेयम्), अचिन्त्यम् (अननुमेयत्वादेव) अव्यपदेश्यम् (शब्दैः व्यपदेष्टुमशक्यम्), एकात्मप्रययसारम् (अवस्थात्रयेऽपि एक एवात्मा इति अव्यभिचारिप्रत्ययम् अनुसरणीयम्), प्रपञ्चोपशमम् (तुरीये ब्रह्मणि जाग्रदादिस्थानधर्माभावः), शान्तम्, शिवम्, अद्वैतम्, चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः । इति ।
’सोऽयमात्मा चतुष्पात्’ इति पूर्वोक्तं वाक्यं स्मरामश्चेत् इदं अवगच्छामो यत् ब्रह्मैव पादत्रये जीवजगदीश्वरतया तेषां स्थूलसूक्षमकारणरूपेण प्रदर्शितम् इति ।
परन्तु यदा चतुर्थपादं वर्णयितुमारभते उपनिषत् तदा पादत्रयं संपूर्णतया निराकृत्यैव दर्शयति तं तुरीयाख्यं ब्रह्म । तथा च ’चतुर्थस्य’ ब्रह्मण एव जाग्रत्स्वप्नसुषुप्तीनां, प्रपञ्चस्य च निराकरणेन स्वयमुक्तं उपनिषदा मोक्षार्थं विज्ञेयत्वन । ज्ञानादेव हि कैवल्यप्राप्तिः इति ।
एतदुक्तं भवति – जीवजगदीश्वरत्रयरहिततुरीयब्रह्मैव पारमार्थिकं सत्यं यदेव विज्ञेयम् इति ।
अस्यामुपनिषदि प्रयुक्तकेचनशब्दाः तथा विषयाः अन्यत्र उपलभ्यन्ते इत्येतत्प्रदर्श्यते -
तथा हि पुरुषसूके वचनमस्ति ’पादोऽस्य विश्वा भूतानि, त्रिपादस्यामृतं दिवि’ इति । अत्र पादत्रयं( माण्डूक्योपनिषदि यथा चतुर्थपादः कथितः प्रपञ्चोपशमत्वेन) तथा प्रपञ्चाद्विलक्षणतया प्रदर्शितम् ।
सर्वं ह्येतद्ब्रह्म, ओमित्येतदक्षरं इदं सर्वम् …भूतं भवद्भविष्यदिति सर्वमोंकार एव । यच्च अन्यत् त्रिकालातीतं तदप्योंकार एव । १.
तथा अत्रैव पुरुषसूक्ते ’पुरुष एवेदं सर्वम्, यद्भूतं यच्च भव्यम्’ इत्युक्तम् । इदं तु माण्डूक्यस्थ ’सर्वं ह्येतद्ब्रह्म, ओमित्येतदक्षरमिदं सर्वम् …भूतं भवद्भविष्यदिति सर्वमोंकार एव । यच्चान्यत् त्रिकालातीतं तदप्योंकार एव । १.’ इति प्रथममन्त्रवदेव । अर्थात्, ब्रह्मभिन्नतया न किमप्यस्तीति उभयत्र प्रतिज्ञातं भवति ।
तथा छान्दोग्ये एवमुक्तम् ’स य एषोऽणिमा ऐतदात्म्यमिदं सर्वं तत् सत्यं स आत्मा तत् त्वमसि श्वेतकेतो’ इति ६.८.७ तमे मन्त्रे ।
अत्रापि उपनिषत् ’सर्वमिदं’ जगत्, यत्र सर्वमप्यचेतनप्रपञ्चः, सर्वेषां चेतनानां स्थूलसूक्ष्मशरीराणि, श्वेतकेतोस्तत्सहितः, ब्रह्म एव आत्मत्वेन अवल्म्ब्य वर्तते इति स्पष्टं घोषयति ।
छान्दोग्योपनिषदः समर्थनम्
[सम्पादयतु]एतेन छान्दोग्येऽपि ब्रह्मैव इदं सर्वमिति उपदेशः । ब्रह्मणो विवर्तरूपमेव भूतभौतिकं जगत् इति ।
छान्दोग्ये पूर्वं ६.१.४,५,६ इत्यत्र उदाहरणत्रयमादाय विकारजातस्य सर्वस्य वाचारंभणत्वादनृतत्वं तथा उपादानकारणस्यैव सत्यत्वं प्रतिपादितम् ।
एतद्दृष्टान्तावलम्बनेनैव दार्ष्टान्तिकेऽपि पूर्वदर्शितरीत्या (६.८.७) सर्वमपि विकारजातं यद्ब्रह्मणो विकार एव जगदाख्यं वस्तु तत्केवलं वाङ्मात्रं न वस्तुसत्, परमार्थिकं तु ब्रह्मैव इति सम्यक्साधितम् ।
तथा च जीवजगदीश्वरत्रयं ब्रह्मैव मायोपाधिवशात् एतत्रयरूपेण भाति ।
श्रीमद्भगवद्गीतायाः समर्थनम्
[सम्पादयतु]- भगवद्गीता अपि श्लोकद्वयेन इदमेव बोधयति –
- मया ततमिदं सर्वं जगदव्यक्तमूर्तिना।
- मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः।।९.४।।
- न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्।
- भूतभृन्न च भूतस्थो ममात्मा भूतभावनः।।९.५।।
पूर्वस्मिन् वाक्ये भगवान् भूतशब्दलक्षितजीवजगदाख्यं सर्वं स्वस्मिन् भगवति परमेश्वरे बह्मणि स्थितमिति उपदिशति । इदं तु माण्डूक्योक्तपादत्रयस्थानीयम् ।
अपरस्मिन् वाक्ये तु भगवान् जीवजगतोः स्वस्मिन्स्थितिं प्रतिषेधति ’ न च मत्स्थानि भूतानि’ इत्यनेन। इदमपि माण्डूक्यसरण्या एव पूर्वोक्तपादत्रयस्य चतुर्थपादवर्णनावसरे निराकरणं यथा । वस्तुतस्तु भगवान् स्वं प्रपञ्चोपशमं बोधयति । तथा हि ब्रह्मणि तुरीयाख्ये परमेश्वरे जीवजगदाख्यप्रपञ्चो नास्त्येव इति पर्यवसितम् ।
प्रथमस्तरे गीतामाण्डूक्योभयत्र भूतप्रपञ्चस्य ब्रह्माधिकरणं दर्शितम् । यतो हि जगत् स्थितिमपेक्षते स्वत एव जडत्वात्, स्वसत्ताशून्यत्वाच्च ।
’अस्ति जगदिदं भाति मे’ इति तस्य स्थितिख्यापने चेतनस्यापेक्षा अस्त्येव । स एव चेतनो दृक् इति कथ्यते । जगत्तु दृश्यं, जडमित्यतो स्वस्मादन्यमवलम्बते परतन्त्रतया, सत्ताविषयेऽपि । चेतनदृगेव स्वसत्तावान् जगतः सत्ताप्रदः ।
परन्तु यदा सत्यतुरीयब्रह्म याथात्म्यतया जिज्ञासुं प्रति बोधनीयं भवति तदा शास्त्रं प्रतिषेधमुखेनैव तत्करोति । तस्मिन्नवसरे इदं भूतजगत् तस्मिन् ब्रह्मणि नास्त्येव । जगद्वर्जितं ब्रह्मैव ज्ञेयं इति स्थितिः शास्त्रे ।
पूर्वं अस्तीत्युपदिश्य पश्चान्नास्तीति प्रतिषेधमुखेन प्रतिपादनक्रम एव शास्त्रे ’अध्यारोप-अपवादन्यायः’ इति प्रसिद्धः ।
रज्ज्वामध्यस्तसर्पवत् । सर्पस्य स्वसत्ता नास्ति रज्जुसत्तां विहाय । तथापि वस्तुतो रज्जुः सर्पं नैव धरति । प्रतीयमानसर्पोऽपि रज्जोरुपरि नैव शेते ।
अत्र वस्तुद्वयं नास्त्येव । सर्पावगमनसमये रज्जुज्ञानं नैव भवति । यदा विविच्य रज्जुः दृष्टा भवति तदा सर्पो नैव दृश्यते, नैवानुभूयते । इदमेव ’सर्पो नाम रज्जुरेव सर्पाकारेण दृश्यते नान्यः ’ इत्युच्यते । तथैव जगत्, जीवाश्च ईश्वरमन्तर्भूय ब्रह्मैव तद्वद्दृश्यते नान्यत् ।
शास्त्रं तत्त्वबोधनसमये ’जगत् ब्रह्मणि वर्तते’’ इति ज्ञापयति । किं तु इदं न वस्तुसत् इति कारणात् शास्त्रं ब्रह्म जगद्विलक्षणतया, जगदस्पृष्टतया, जगदकलुषिततया च बोधयति ।
’ब्रह्मणि वर्तमानं’ तथा ’ब्रह्मणि अविद्यमानं’ इत्यनेन प्रपञ्चस्य त्रैकालिकाविद्यमानत्वमेव बोध्यते । दृश्यमानेऽपि जगतः स्वसत्ता नास्तीति मन्तव्यम् । ब्रह्मैव दृष्टं अनुभूतं च जीवविषयवस्तुभूत-जगदाकारत्वेन । अधिष्ठानब्रह्मावगतावपि जगतः सत्ता नास्त्येव ।
तस्मादेकैकनिगमनम् – रज्जुसर्पे यथा रज्जुरेव सर्पत्वेन अभात्, भाति च, तद्वत् ब्रह्मैव जगदाकारेण अभात्, भाति च । अयमेव विवर्तवाद इति प्रथितः ।
भगवद्गीतास्थायं वादोऽपि उक्तश्लोकद्वयेन स्पष्टमवगम्यते । माण्डूक्ये तु वादस्यास्योपयोगः स्फुट एव ।
तत्र सप्तमे मन्त्रे ’अग्राह्यम्’ इति पदं वर्तते तुरीयाख्यचतुर्थपाद-वर्णनावसरे । शब्दोऽयं तुरीयस्य निरवयवत्त्वं विशिष्य बोधयति । यतो हि यदि तुरीयं ब्रह्म सावयमभविष्यत्तर्हि हस्तेन कर्मेन्द्रिय-ग्राह्यमभविष्यत् । तथा अवयवाः ज्ञानेन्द्रियगोचरा अपि ।
यस्माद्धेतोः तुरीयेऽवयवप्रतिषेधः क्रियते उपनिषदा, तेन इदं निश्चितं भवति ’सोऽयमात्मा चतुष्पात्’ इति प्रतिज्ञावाक्यं अध्यारोपस्थानीयम् इति । तस्यापवादस्तु सप्तममन्त्रस्थाग्राह्य-पदेन निर्वर्तितो भवति ।
नूनं यदि उपनिषत् ब्रह्म चतुष्पादिति आत्यन्तिकसत्यतया मनुते तर्हि उत्तरत्र ’अदृष्टम्, अव्यवहार्यम्, अग्राह्यम्, अलक्षणम्, अचिन्त्यम्, अव्यपदेश्यम्’ इति न प्रतिषेधे प्रवर्तेत । सावयववस्तु एतादृशप्रतिषेधं नार्हति ।
तथा च उपनिषत् ब्रह्म एव जीवजगदीश्वररूपेण भाति इति बोधयति इत्यत्र नास्ति विवादः ।
श्रुत्यन्तरेऽपि पूर्वोक्तविषये प्रमाणमस्ति यतो हि श्वेताश्वतरोपनिषत् एवं वर्णयति –
- त्वं स्त्री पुमानसि त्वं कुमार उत वा कुमारी ।
- त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः॥३॥इति ।
मुण्डकोपनिषत् वाक्यमपि विषयेऽस्मिन् प्रमाणम् –
- ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चात् ब्रह्म दक्षिणतश्चोत्तरेण।
- अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ २.२.११
ब्रह्मैव ईश्वररुपेण भातीति माण्डूक्योपनिषदि वाक्यं वर्तते –
- एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् । ६ ।
अत्र आदिशंकराचार्याः भाष्ये एवमूचुः – एष हि स्वरूपावस्थः सर्वेश्वरः साधिदैविकस्य भेदजातस्य सर्वस्येशिता नैतस्माज्जात्यन्तर-भूतोऽन्येषामिव । इति । अन्त्र आनन्दगिरीयं विवरणम् - स्वरूपावस्थत्वम् उपाधिप्राधान्यमवधूय चैतन्यप्राधान्यम् । इति । तेन ज्ञायते एक एव शुद्धचैतन्यम् उपाधिवशात् ईश्वरनाम्ना भासत इति । अस्य प्रबन्धस्य उद्दिष्टविषयान् यान् आरम्भेऽवोचाम तान् पुनः स्मरामः, प्रबन्धस्य सारावगमार्थम् । तेन प्रबन्धेन यदवगतं तत् सम्पिण्ड्य मनसि स्थापयितुं शक्यते इति –
- माण्डूक्योपनिषत् आरम्भ एव उद्घोषयति जीवसहितः सर्वोऽपि प्रपञ्चः ब्रह्मैव इति ।
- तेन घोषणेन सह ब्रह्म चतुष्पादिति प्रदर्शयति ।
- पादत्रयं जीवप्रपञ्चेश्वरान्तर्भूततया प्रपञ्चितं जाग्रत्स्वप्न-सुषुप्त्याख्यत्रिष्ववस्थासु प्रदर्शितम् ।
- सप्तमे मन्त्रे तु पूर्वदर्शितव्यवस्थाकथनानन्तरम्, जीवजगदीश्वरसम्बन्धि सर्वमपि धर्मजातं प्रतिषिध्य चतुर्थपादं ब्रह्मणः तुरीयाख्यं प्रदर्शितं भवति अवस्थात्रयतद्धर्मवर्जितत्वेन ।
- इदं निरूपितं भवति उपनिषदा यत् ब्रह्मैव जीवजगदीश्वर-भिन्नभिन्नरूपेण भाति केवलं संसारावस्थायां सापेक्षिततया न तु पारमार्थिकसत्यस्तरे निरपेक्षेण इति ।
- एवंक्रमेण उपनिषत् जीवजगदीश्वरत्रयं ब्रह्मणो विवर्तमेव बोधयति यथा सर्प-माला-भूच्छिद्राणि एकस्यैव अधिष्ठानस्य रज्जोः स्वरूपज्ञानेनोज्झितमृषादर्शनानि इति ।
- काश्चनान्याः उपनिषदोऽपि ब्रह्मैव जीवजगत्तया भाति
- इत्युपदिशन्ति ।
- भगवद्गीताऽपि इदमेव बोधयति ।