ब्रान्टोसारस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ब्रान्टोसारस्
अपातोसारस्

ब्रोण्टोसारसनामा महाजीवी मारणसमर्थैः सुतीक्ष्णैः नखैः युक्तेभ्यः जुरासिक् कालीनेभ्यः डैनासरनामकेभ्यः भयानकजीविभ्यः प्रायः सर्वे भीताः भवन्ति एव । किन्तु सर्वविधाः ते ने घोराः । ब्रोण्टोसारस् नाम जुरासिककालीनः ताद्दशः जीवी विनेयः शाकभक्षकश्च । ब्रोण्टोसारस् इत्यस्य अर्थः अस्ति ‘तडित्समा गृहगोधिका’ इति । यतः एषः यदा चलति तदा तडिच्छब्दसद्दशः शब्दः श्रूयते एतस्य महाजीविनः भारः ३० टनपरिमितः । आ मस्तकतः पुच्छान्तम् एतस्य दैर्ध्यं भवति प्रायः २० मीटरमितं २५ मीटरमितं वा । एतस्य चत्वारः महास्तम्भाकाराः पादाः भवन्ति, यैः एषः रभसेन न चलति । एतस्य कण्ठः सुदीर्घः । अतः एषः जल्स्य गभीरतलं प्रविष्टः सन् अपि मुखं जलस्य उपरि एव रक्षितुं श्क्नोति । जलं जीविनं प्लावयति इत्यतः जले प्लवमानः एषःस्वस्य पादान् शरीरभारात् किञ्चित मुक्तान् करोति । तावदेव न , गभीरजलं मन्दगतिकस्य शाकभक्षकस्य एतस्य गोप्यं स्थलम् अपि । एषः अत्र निलीय तिष्ठन् क्रूरेभ्यः मांसभक्षकेभ्यः अन्येभ्यः भूमौ वसद्भ्यः घोरजीविभ्यः आत्मानं रक्षितुं समर्थः भवति अपि ।

Apatosaurus33

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ब्रान्टोसारस्&oldid=409506" इत्यस्माद् प्रतिप्राप्तम्